पूर्वभागः । २९ अब्रवीच--'देव, विदितसकलशास्त्रार्थः, राजनीतिप्रयोगकुशलः, पुराणेतिहासकथालाप- निपुणः, वेदिता गीतश्रुतीनां, काव्यनाटकाख्यायिकाख्यानकप्रभृतीनामपरिमितानां सुभा- पितानामध्येता स्वयं च कर्ता, परिहासालापपेशल:, वीणावेणुमुरजादीनामसमः श्रोता, नृत्त- प्रयोगदर्शननिपुणः, चित्रकर्मणि प्रवीणः, द्यूतव्यापारे प्रगल्भः, प्रैणयकलहकुपितकामिनीप्र-- सादनोपायचतुरः, गजतुरगपुरुषत्रीलक्षणाभिज्ञः, सकलभूतलरत्नभूतोऽयं वैशंपायनो नाम शुकः सर्वरत्नानामुदधिरिव देवो भाजन मितिकृत्वैनमादायास्मत्स्वामिदुहिता देवपादमूलमा- याता । तदयमात्मीयः क्रियताम्' इत्युक्त्वा नरपतेः पुरो निधाय पञ्जरमसावपससार । अब्रवीच । उवाचेत्यर्थः । देवेति संवोधनपदम् । 'राजा भट्टारको देवः' इति कोशः । हे राजन्', अयं वैशम्पायनो नाम वैशम्पायन इति नाम्ना प्रसिद्धः । नागेति कोमलामन्त्रणे । शुको वर्तते । कीहक् । विदितो ज्ञातः राकलशास्त्राणां धर्माच्यात्मयुक्तिशास्त्राणामर्थोऽभिधेयं येन स तथा । तेन वक्ष्यमाणेन न पौनरु- क्त्यम् । इतः शुकं विशेषय नाह---राजेति । राजनीतेः कामन्दकीप्रतिपादितायाः प्रयोगः शिक्षा तत्र कुश- लश्चतुरः । पुराणेति । पुराणं पञ्चलक्षणम्, इतिहासः पुरावृत्तम् , तेषां या कथा वार्ता तत्र य आलापस्त- दर्थवोधकवाक्यरचना तत्र निपुणश्चतुरः । वेदितेति । गीतं गानम्, श्रुतयो द्वाविंशतिः । तदुक्तम्- 'सप्त स्वरात्रयो ग्रामा मूश्चिकोनविंशतिः । ताना एकोनपञ्चाशद्ध्यधिका विंशतिः श्रुतिः' इति । तासां वेदिता ज्ञाता । काव्येति । दोषाभावे सति गुणालंकारवत्कविकर्म काव्यम्, नाटकमभिनयात्मकम् , आख्यायिका वासवदत्तादि, आख्यानकमिदानीतनराजवृत्तम्, एतत्प्रभृतीनां सामुद्रिकादीनां तथापरि. मितानामसंख्यानां, सुभापितानां शृङ्गारनीतिवैराग्यप्रतिपादकानां चाध्येता पाठकः । खयमात्मनैव कर्ता निष्पादकश्च । अनेन तस्य सर्वकलासु नैपुण्यं सूचितम् । परीति । परिहासोऽन्येषां नर्मवचनैर्हसनं तस्य य आलापा रराव्यञ्जकशब्दप्रयोगास्तत्र पेशलः कुशलः । वीणेति । वीणाशब्दसमभिव्याहारात्ततम्, तथैव वेणुशब्देन सुपिरम्, मुरजशब्देनानम्, आदिशब्दाद्वादनं कांस्यतालादि गृह्यते । एतेषामसमोऽद्वितीयः श्रोताकर्णयिता । नृत्तमिति । नृत्तं ताललयाश्रितं तस्य प्रयोगः प्रारम्भो दर्शनमवलोकनं तत्र निपुणो- ऽभिज्ञः । चित्रेति । चित्रकर्मण्यालेख्यकलायां प्रवीणः । कृतपरिश्रम इत्यर्थः । द्यूतेति । द्यूतं दुरोदरं तस्य व्यापारो व्याहर्तिस्तत्र प्रगल्भः प्रतिभान्वितः । प्रणयेति । प्रणयेन स्नेहेन यः कलहः कलिस्तेन कुपिता कोपं प्राप्ता या कामिनी स्त्री तस्याः प्रसादनं सान्वनं तत्र य उपायः प्रपञ्च स्तत्र चतुरोऽभिज्ञः । गजेति । गजा भद्रजातीयाः, तुरगाः शालिहोत्रोक्तदेवमणिप्रभृतयः, पुरुषा धीरोदात्तप्रभृतयः, स्त्रियः पद्मिनीप्रभृतयः, तासां लक्षणानि सामुद्रिकोक्तानि तत्राभिज्ञः कुशलः । सकलेति । सकलं समग्रं यद्भूतलं अर्थाद्भरत- क्षेत्रं तत्र' रत्नभूतः । खजातावत्युत्कृष्ट इत्यर्थः । अयं च प्रत्यक्षेण दृश्यमानः संनिहितः । रत्नं च मुक्ता- रत्नाश्रयलात् । राज्ञो रत्नाकरत्वमाह-सर्वेति। सर्वरत्नानां सर्वोत्कृष्टवस्तूनां भाजनमाश्रयः । क इव । उदधिरिव समद इव यथोदधिः सर्वरत्नानां कौस्तभप्रभृती म श्रयस्त भव नपीत्यर्थः । एतत्प्रयोजन-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति