कठिनहृदयायाः शोकः । सर्वमिदमलीकमस्य शठहृदयस्थ | सवथाहमनन कत्रपण त्रपाणामग्रेसरी कृता । यया चाविष्कृतमदनतया वज्रमय्येवेदमनुभूतम्, वाँ को गणना प्रति । किं वा परमतः कष्टतरमाख्येयमन्यद्भविष्यति यन्न शक्यते श्रोतुमाख्यातुं वा मस्य वज्रपातस्यानन्तरमाश्चर्ये यदभूत्तदावेदयामि । आत्मनश्च प्राणधारणकारणलव व्यक्तो यः समुत्पन्नः, तं च कथयामि । यथा दुराशामृगतृष्णिकया गृहीताहमिदमुपर परकीयमिव भारभूतमप्रयोजनमकृतज्ञं च हॅतशरीरं बहामि तदलं श्रूयताम् । ततश्च भूते तस्मिन्नवस्थान्ते मरणैकनिश्चयात्तत्तद्रहु विलप्य तरलिकामब्रुवम् – 'अयि उत्तिष्ठ रहृदये, कियंद्रोदिषि । काष्ठान्याहृत्य विरचय चिताम् । अनुसराणि जीवितेश्वरम्' च अत्रान्तरे झटिति चन्द्रमण्डलनिर्गतो गगनादव तीर्थ केयूरकोटिलग्नममृत फेन पिण्ड पवनतरलमंशुकोत्तरीयमाकर्षन्, उभयकर्णीन्दोलितकुण्डलमणिप्रभानुरक्तगण्डस्थलः, मुक्ताफलतया तारागणमिव प्रथितं मतितारं हारमुरसा दधानः, धवलदुकूलपल्लवकैल्पित हमनेन हृदयेन व्यक्तत्रपेणोज्झितलज्जागुणेन निरपत्रपाणां निर्लजानामग्रेसरी पुरोगामिनी कृता यया चेति । यया मयाविष्कृतमदनया प्रकटित कंदर्पया वज्रमध्येव शतकोटिमध्ये वेदं पूर्वोत्तमनुभूत विषयीकृतम् | का गणना कथनं प्रति चेदनुभूतं वर्तते । तर्हि कथने किं काठिन्यमिति भावः । वे न्तरे । अतः परमस्मादन्यत्कष्टतरमतिकृच्छ्रमाख्येयं कथनीयम् | अन्यत्किं भविष्यति यच्छ्रोतुमाक ख्यातुं कथयितुं वा न शक्यते न पार्यते । केवलेति । केवलमसहायमेकमस्य वज्रपातसदृशदुःख पश्चात् यत् आश्चर्य चित्रमभूत्तदावेदयामि कथयामि । आत्मनश्चेति । आत्मनः स्वस्य च प्र तत्र कारणलव इव हेतुलेश सदृशमव्यक्तोऽस्फुटो यः समुत्पन्नः प्रादुर्भूतस्तं च कथयामि ब्रवीमि । = यया दुराशैव मृगतृष्णिका मरुमरीचिका तथा गृहीता स्वीकृताहं महाश्वेता इदमुपरतकल्पमस्त अवस्तुत्वादेव न स्वसत्ताकमित्याह - परेति । परकीयमिवान्यदीय मिवात एव भारभूतमप्रयोजनं नि कृतं जानातीत्यकृतज्ञं हतशरीरं दुःशरीरं वहामि धारयामि । तत्पूर्वोत्तम लंकृत मे तथ्यतिरिक्तं श्रूयत ताम् । ततश्चेति । तदनन्तरे तथाभूते तादृशे तस्मिन्पूर्वप्रतिपादितेऽवस्थान्ते दशान्ते मरणस्य - स्यैकनिश्चयाद द्वितीय निर्णयात्तत्तत्पूर्वोक्तं बहु प्रचुरं विलप्य बहुविलापान्कृत्वा तरलिकामित्यब्रुवम इतिशब्दयोत्यमाह - अयीति | अयि कोमलामन्त्रणे | हे निष्ठुरहृदये कठिनचित्ते, उत्तिष्ठोत्थान कियद्रोदिमि कियदपरिमितं रोदनं लोकप्रसिद्धं करोषि प्रणयसि । काष्ठान्येधांस्याहत्यानीय चित विरचय निष्पादय । जीवितेश्वरं प्राणनाथमनुसराभ्यनुगच्छामि | अत्रान्तरेऽस्मिन्समये झटिति शीघ्रं चन्द्रमण्डलाच्छशिबिम्बाद्विनिर्गतो निःसृतो गगनादाकाशा तीर्थ केयूरकोटिलग्नं किरीटाश्रिविलग्नममृतस्य पीयूषस्य फेनपिण्डो डिण्डीरचयस्तद्वत्पाण्डुरं श्वेतम् वायुना तरलं कम्पनमुत्तरीयं च तदंशुकं चांशुकोत्तरीयम् | राजादिषु पाठात्पूर्वप्रयोगः | आक कुर्वन् । इतो द्विजमण्डलवि निर्गतन र विशेषणानि – उभयेति । उभौ च तौ कर्णौ चेति कर्मधारय विशेष उभशब्दस्योभयादेशः । तयोरान्दोलिते वेल्लिते कुण्डले कर्णभूषणे तयोर्मणिप्रभा रत्नकान्ति सः |ळेत स्थलानि मक्त फला यत्र भा स्वत्ता तथा । श्वेतववर्तल
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति