कादम्बरी । भ्रानुशतोत्सङ्गलालितामतिमनोहरे हरवरप्रदानवर्धित महिम्नि सिन्धुराजे जयद्रथेऽर्जुनेन छोकान्तरमुपनीतेऽप्य कृतप्राणपरित्यागाम् | अन्याञ्च रक्षःसुरासुरमुनिमनुजसिद्धगन्धर्वक न्यका भर्तुरहिताः श्रूयन्ते सहस्रशो विधृतजीविताः । प्रोन्मुच्येतापि जीवितं संदिग्धोऽप्यस्य समागमो यदि स्यात् । भगवत्या तु ततः पुनः स्वयमेव समागमसरस्वती समाकर्णिता । अनुभवे च को विकल्पः, कथं च तादृशानामप्राकृताकृतीनां महात्मनामवितथगिरां गरीय- सापि कारणेन गिरि वैतथ्यमास्पदं कुर्यात् | उपरतेन च सह जीवन्त्याः कीदृशी समा- गतिः । अतो निःसंशयमसाबुपजातकारुण्यो महात्मा पुनः प्रत्युज्जीवनार्थमेवैनमुत्क्षिप्य सुर- लोकं नीतवान् । अचिन्त्यो हि महात्मनां प्रभावः । बहुप्रकाराच संसारंवृत्तयः । चित्रं च दैत्रम | आश्चर्यातिशययुक्ताश्च तपः नःसिद्धयः । अनेकविधाश्च कर्मणां शक्तयः | अपि च सुनि- पुगमपि विमृशद्भिः किमिवान्यत्तद्पहरणे कारणमाशयेत जीवितप्रदानादृते | न चासंभा- घरादराज्ञो दुहितरं पुत्रीमुत्तरामुत्तरानाश्रीं स्मरेति संवन्धः । तथातिमनोहरेऽत्यभिरामे हरेणेश्वरेण वरप्रदानेन द्धनीतो महिमा माहात्म्यं यस्य स तस्मिन् | सिन्धुराजे सिन्धुदेशनाथे जयद्रथाभिधानेऽर्जुनेन पार्थेन लोकान्तरं भवान्तरमुपनीते प्रापितेऽपि धृतराष्ट्रस्य राज्ञो दुहितरं सुतां भ्रातॄणां यच्छतं तस्योत्सङ्गः क्रोडस्तेन लादितां पालितामकृतप्राणपरित्यागामेवंविधां दुःशल्यां स्मरेति संवन्धः। अमुमेवार्थं पुनर्द्रढयन्नाह -अन्याश्चे- ति । रक्षमो राक्षसाः, सुरा देवाः, असुरा दैत्याः, मुनयस्तापसाः, मनुजा मनुष्याः, सिद्धा विद्यासिद्धाः, न्धवां देवगायनाः, एतेषां कन्यकाः पुत्र्यो भर्तृरहिताः सत्यो विवृतजीविता अकृतप्राणपरित्यागा अन्याः पूर्वो- ताव्यतिरिक्ताः सहस्रशः श्रूयन्त आकर्ण्यन्ते । यदनुमरणेनापि न प्राप्यते तदपीष्टं त्वया प्राप्तव्यमेवेत्याह- प्रोन्मुच्यतापीति । तदा जीवितं प्रोन्मुच्येत त्यजेत यद्यस्य मृतस्य संदिग्धोऽपि समागमः स्यात् । तन नास्त्येवेति भावः । प्राप्तव्यभिष्टं कथं स्यादित्याह-भगवत्येति | भगवत्या त्वया ततस्तस्मान्महापुरुषा- पुनः स्वयमेवात्मनैव समागमः कुमारेण सह संगतिस्तत्प्रतिपादिका सरस्वती वाणी समाकर्णिता श्रुतां । त आपि तदर्थ न निश्चिनोमीयत आह - अन्विति । अनुभवेऽनुभूते वस्तुनि को विकल्पः कः संदेहः । अ श्रोपपादकमाह - कथं चेति । तादृशानां न विद्यते प्राकृता इतरजनसाधारणाकृतिराकारो येषामेवंवि धानानवितथगिरां यथार्थवचसां महात्मनां महापुरुषाणां गरीयसापि कारणेनोत्कृष्टेनापि हेतुना गिरि वाण्यां ऋथं वैतथ्यमनृतत्वमास्पदं स्थानं कुर्यात् । नन्वियं सरस्वती वितथैव मृतकुमारेण सह समागमस्य बाधितत्वा- दिव्यत आह - उपरतेति । उपरतेन मृतेन सह जीवन्त्याः कीदृशी समागतिः संगतिः । तर्हि सरस्वती वेत आह-अत इति । अतः कारणात् । निसंशयं निश्चितमुपजातं समुत्पन्नं कारुण्यं घृणा यस्मिन्नेव विधो महात्मासौ पुरुषः पुनः प्रत्युज्जीवनार्थ पुनःसज्जीकरणार्थमेवैनं पुण्डरीकमुत्क्षिप्योत्पाद्य सुरलोकं देव- लोकं नीतवान्प्रापितवान् । अत्रानुकूलमाह - अचिन्त्य इति । हीति निश्चितम् । महात्मनां महानुभावानां प्रभावो महिभाचिन्त्योऽनाकलनीयः । नन्वश्रुतपूर्वमिदं कथं स्यादित्यत आह - बहिति । संसारवृत्तयः संसृतेः Tint
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३१८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति