३३० कादम्बरी । · ग्राहयिष्यामि कथं वा मम सुखं भविष्यति त्वत्प्रेम्णा चास्मिन्वस्तुनि कुमारिकाजनवि- , 9 रुद्धं स्वातंत्र्यमालम्च्याङ्गीकृतमपयशः समवधीरितो विनयः, गुरुवचनमतिकामितम, न गणितो लोकापवादः, वनिताजनस्य सहजमाभरणमुत्सृष्टा लज्जा, सा कथय कथमिव पुनरत्र प्रवर्तते । तदयमञ्जलिरुपरचितः, प्रणामोऽयम् इदं च पादग्रहणम्, अनुगृहाण माम्, वनमितो गतासि मे जीवितेन सहेति मा कृथाः स्वप्रेऽपि पुनरिममर्थ मनसि' इत्यभिधाय तूष्णीमभूत् । महाश्वेता तु तच्छ्रुत्वा सुचिरं विचार्य 'गच्छ| स्वयमेवाहमागत्य यथाईमा- चरिष्यामि' इत्युक्त्वा केयूरकं प्राहिणोत् । गते च केयूरके चन्द्रापीडमुवाच - 'राजपुत्र, रमणीयो हेमकूटः, चित्रा च चित्ररथराजधानी, बहुकुतूहल: किंपुरुपविषयः, पेशलो गन्धर्वलोकः, सरलहृदया महानुभावा च कादम्बरी | यदि नातिखेदकरमिव गमनं कल- 9 , यसि, नावसीदति वा गुरुप्रयोजनम् अदृष्टचरविषयकुतूहल वा चेतः, मैद्वचनमनुरुध्यते वा भवान्, अतिसुखदायि वाश्चर्यदर्शनम्, अर्हसि वा प्रणयम्, इममप्रत्याख्यानयोग्य वा जनं मन्यसे, समारूढो वा परिचयलेशः अनुग्राह्यो वायं जनः, ततो नार्हसि निम्फलां न स्वेष्टसिद्धिरित्यत आह - कथमिति | वेति पक्षान्तरे | कथं मम सुखं भविष्यति । इष्टविरहव्याकुलचित्त- त्वेन सुखमिति भावः । अथ त्वया साकं यत्प्रेम तदपि न भविष्यति । 'इपिते ईपितं चेत्यात्तदा प्रेम प्रवर्तते' इतिश्रयायत अतस्त्वत्प्रेम्णा त्वत्स्नेहेनास्मिन्वस्तुनि पाणिग्रहणविपये गया कुमारिकाजनविरुद्धं खातन्त्र्यं स्वेच्छाचारित्वमालम्ब्यापयशोऽकीर्तिरङ्गीकृतं स्वीकृतम्। पित्रादिभिः पाणिग्रहणं कार्यमाणापि पितुराज्ञागि व्यपयशः । समवधीरिततिरस्कृतो विनयः गुरुवचनं पित्रादीनां वचोऽतिका मितहतम् । तथा लोकापवादो जनापवादो न गणितो न विचारितः । वनिताजनस्य स्त्रीजनस्य राहजं स्वाभाविकमा भूपणं लज्जा त्रपा सा चोत्सृष्टा व्यक्ता । कथय प्रतिपादय । एतादृशो जनः कथमिव पुनरत्रास्मिन्कर्मणि प्रवर्तते प्रवृत्तिं करोति । उपसंहरति — तदिति हेत्वर्थे । अयमञ्जलिरुपरचितो निवद्धः । अयं च प्रणामो नमस्कारः । इदं न पादाण- मभिवादनम् । इति हेतोर्मामनुगृहाणानुग्रहं कुरु | इतो मत्समीपान्मे मम जीवितेन प्राणितेन गह वनं गतारि प्राप्तासि इति स्नेऽपि स्वप्नावस्थायामपि पुनर्द्वितीयवारमिमं पूर्वोक्तमर्थ मनसि चित्तं मा कृथा मा व्यधिष्टाः। इत्यभिधायेत्युक्त्वा तूष्णीमभून्मौनं कृतवती । महाश्वेता तु तत्पूर्वोक्तं श्रुत्वाकर्ण्य सुचिरं चिरकालं यावत् विचार्य विमृश्य त्वं गच्छ व्रज स्वयमेवात्मनैव । अमागत्य यथार्ह यथायोग्यमाचरिष्यामीत्युक्त्वा केयूरकं ग्राहिणोत्प्रेषितवती । गते च केयूरके चन्द्रापीडमुवाचाब्रवीत् । किं तदिया - राजपुत्रेति । हे राजपुत्र नृपसूनो, अयं हेमकूटो रमणीयो मनोहरः | चित्ररथो गन्धर्वनाथखस्य राजधानी नृपनिवासनगरी चित्रा विविधाश्चर्ययुक्ता | बहून्यनेकानि कुतूहलान्याश्चर्याणि यस्मिन्नेवविधः किंपुरुषाणां किंनराणां विषयो देशः । गन्धर्वलोको देवगायनजन: पेशलः सुन्दरः | 'पेशलं हृद्यसुन्दरे' इति कोपः । सरलहृदयाकुटिलचित्ता महानु- 7
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति