पूर्वभागः | ३३१ कर्तुमभ्यर्थना मिमाम् । इँतो मयैव सह गत्वा हेमकूटम तिरमणीयतानिधानं तत्र दृष्टा च मन्निर्विशेषां कादम्बरीमपनीय तस्या कुमतिमनोमोह विलसितमेकमहो विश्रम्य श्वोभूते प्र त्यागमिष्यसि | मम हि निष्कारणबान्धवं भवन्तमालोक्यैव दुःखान्धकारभाराकान्तेन महत: कालादुच्छसितमिव चेतसा श्रावयित्वा स्ववृत्तान्तमिमं सह्यतामिव गतः शोकः । दुःखितमपि जनं रमयन्ति सज्जनसमागमाः । परसुखोपपादनपराधीनश्च भवादृशां गुणोदय:' इत्युक्तवतीं चैनौं चन्द्रापीडोऽब्रवीत् – 'भगवति, दर्शनात्प्रभृति परवानयं जनः कर्तव्येषु यथेष्टमशङ्कि- तया नियुज्यताम्' इत्यभिधाय तथा सहैवोदचलत् । nang १ 3 क्रमेण च गत्वा हेमकूटमासाद्य गन्धर्वराजकुलं समतीत्य काञ्चनतोरणानि सप्तकक्षान्त- राणि कन्यान्तःपुरद्वारमवाप । महाश्वेतादर्शनप्रधावितेन दूरादेव कृतप्रणामेन कनकवेत्रल- ताहस्तेन प्रतीहारजनेनोपदिश्यमानमार्गः प्रविश्यासंख्येयनारीशतसहस्र संबोध: स्त्रीमयम- परमिव जीवलोकम् इयत्तां महीतुमेकत्र त्रैलोक्यस्त्रैणमिव संहृतम् अपुरुषमिव सर्गा- न्तरम्, अङ्गनाद्वीप मिव पूर्वमुत्पन्नम्, पञ्चममिव नारीयुगावतारम् अपरमिव पुरुषद्वेषि- १ 9 we , 1 ग्यो भवसि | इतोऽस्मात्स्थानान्मयैव राह अतिरमणीयतानिधानं चारुताशेवधि हेमकुटं गत्वा । तत्रेति । तस्मिन्स्थले मत्तो निर्गतो विशेपो यस्याम् | मत्सहशीमियर्थः । एतादृश कादम्बरीं दृष्ट्वा विलोक्य च तस्याः कादम्वर्याः कुत्सिता मतिर्यस्मादेवंविधो यो मनोमोहवेत सोऽज्ञानं तस्य विलसितं चेष्टितमपनीय दूरीकृत्यैको- ऽहर्दिनं विश्रम्य विश्रामं गृहीत्वा । श्चोभूत इति । श्व आगामि दिने तस्मिन्भूते जाते सति प्रयागमिष्यसि पश्चादायास्यसि | ममेति । हीति निश्चितम् । मम निष्कारणवान्धवं निमित्तव्यतिरेकेण स्वजनं भ्रातरं वा भवन्तं त्वामालोक्यैव निरीक्ष्यैव दुःखमेवान्धकारं तिमिरं तस्य भारो वीवधस्तेनाक्रान्तेन व्याप्तेन चेतसा चि- त्तंन महतः कालाचिरसमयादुच्छ्रसित मिव गृहीतश्नासमिव । इमं स्ववृत्तान्तं स्वकीयोदन्तं श्रावयित्वा कथयि- त्वा | सोढुं शक्यः सध्यरतस्य गावरतत्ता तामिव गतः प्राप्तः शोकः । श्रावणेन स शोको जीर्णतां प्राप्त इत्यर्थः । तत्रोपपादकमाह - दुःखितमपीति | राजनसमागमा दुःखितमपि जनं रमयन्ति विनोदयन्ति । अत्रार्थे हेतुमाह - परेति । परस्यान्यस्य यत्सुखं तस्य यदुपपादनं तत्र पराधीनः परायत्तः | तन्निमित्तक इति या- वत् । भवादृशां त्वत्सदृशानां गुणोदयो गुणाः शौर्यादयस्तेषामभ्युदय इति पूर्वोक्तप्रकारेणोक्तवतीं कथित यत चन्द्रापीडोऽब्रवीदवोचत् । हे भगवति, दर्शनात्प्रत्यवलोकन दिनादारभ्य परवान्पराधीनः । त्वदायत्त इति यावत् । अयं जनः । कर्तव्येषु कार्येषु यथेष्टमशक्तिया शाराहित्यतया भवसा नियुज्यतां प्रेर्यता मिल्य- गिधायेत्युक्ला तथा महाभूतया सहोदचलत्प्रस्थानमकरोत् । w क्रमेण परिपाट्या गत्वा च हेमकूटं गन्धर्वराजकुलमासाथ प्राप्य काञ्चनस्य सुवर्णस्य तोरणानि यहिद्वाराणि येष्वेवंविधानि सप्तकक्षान्तराणि गृहान्तराणि समतीय व्यतिक्रम्य कन्यानां यदन्तःपुरं तस्य द्वारमवाप प्राप्त- वान् । तदनन्तरं कुमारः कुमारीपुराभ्यन्तरं ददर्शक्षांचक | किंविशिष्टः कुमारः । महाश्वेताया दर्शनार्थम-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३२९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति