पूर्वभागः। ३३ पटहझल्लरीमृदङ्गवेणुवीणागीत निनादानुगम्यमानो बन्दिवृन्दकोलाहलाकुलो भुवन विवरव्यापी स्नानशङ्खानामापूर्यमाणानामैतिमुखरो ध्वनिः । एवं च क्रमेण निर्वतिौभिषेको विषधरनिर्मोकपरिलधुनी धवले परिधाय धौतवाससी शरदम्बरैकदेश इव जलक्षालननिर्मलतनुः, अतिधवलजलधरच्छेदशुचिना दुकूलपटपल्लवेन तुहिनगिरिरिव गगनसरित्स्रोतसा कृतशिरोवेष्टनः, संपादितपितृजलक्रियो मन्त्रपूतेन तोया- अलिना दिवसकरमभि प्रणम्य देवगृहमगमत् । उपरचितपशुपतिपूँजश्च निष्क्रम्य देवगृहीन्नि- वर्तिताग्निकार्यों विलेपनभूमौ झङ्कारिभिरलिकदम्बकैरनुबध्यमानपरिमलेन मृगमदकर्पूरकुख- मवाससुरभिणा चन्दनेनानुलिप्तसर्वाङ्गो विरचितामोदिमालतीकुसुमशेखरः कृतवस्त्रपरिवों ध्वनिः शब्द उदपाद्युत्पन्नोऽभूत् । ‘पद गतौ' इत्यस्य लुङि रूपम् । किं कुर्वनिव । श्रुतिपथं कर्णमार्ग स्फोटय. निव द्विधा कुर्वन्निव । पुनः कीदृक् । अतिशयेन मुखरस्तारतरः । किं विशिष्टानां शङ्खानाम् । आपूर्यमाणानां वाद्यमानानाम् । पुनः कीदृशः । अनेकेति । अनेकप्रकारेण प्रहता वादिताः पटवः समर्था ये पटहा दुन्दुभयो, झल्लरी प्रसिद्धा, मृदङ्गो मर्दलो, वेणुवंशो, वीणा वल्लकी, गीतानि गानानि चैतेषां यो निनादो ध्वनितं तमनुल- क्षीकृत्य गम्यमानः प्रवर्तमानः । पुनः कीदृक् । बन्दिनां वैतालिकानां वृन्दं समुदायस्तस्य कोलाहलः कलकल. स्तेनाकुलो मिश्रितः । पुनः कीदृक् । भुवनेति । भुवनानां विष्टपानां विवराणि छिद्राणि व्याप्नोतीत्येवंशीलः स तथा। एवं च पूर्वोक्तप्रकारेण क्रमेण परिपाट्या निवर्तितो विहितोऽभिप्रेको यस्यैवंभूतो नृपो देवगृहं चैत्यमगमदित्यन्वयः । किं कृत्वा । विपेति । विषधराः रापास्तेषां निर्माकः कञ्जकस्तद्वत्परिलघुनी अति- ह्रस्वे अतएव धवले शुभ्रे धीतवाससी प्रक्षालित वस्त्रे परिधाय परिधानं कृत्वा । अथ राजानं विशिनष्टि- जलेति । जलेन पानीयेन यत्क्षालनं तेन निर्मलापगतमला तनुः शरीरं यस्य स तथा । किमिव । शर- दिति । शरदि घनात्यये यदम्वरं गगनं तस्यैकदेशो भागस्तद्वदिव । शरद्यम्बरं वृष्टेरभावान्निर्मलगेवेति भावः । अतीति । अतिधवलो यो जलघरो मेघरतस्य यश्छेदः खण्ड स्तद्वच्छुचिना निर्मलेन दुकूलपट्टः क्षीरोदपस्तरय पल्लवेन प्रान्तेन कृतं विहितं शिरोवेष्टनमुत्तमाजवेष्टनं येन स तथा । कमिव । तुहिनगिरि- रिव हिमाचल इव । गिरि विशिनटि-गगनेति । गगनसरित्स्वधुनी तस्या यस्रोतः प्रवाहस्तेन कृतशिरो. वेष्टनः । संपादित इति । संपादिता निःपादिता पितॄणां जलक्रिया येन सः । मन्त्रेति । मन्त्रैर्वेदोक्तः पूर्त पवित्रं यत्तोयं पानीयं तस्याञ्जलिः प्रमृतिस्तेन दिवसकर सूर्यगभि संमुखं प्रणम्य नमस्कृत्य । उपेति । उपरचिता निष्पादिता पशुपतेरीश्वरस्य पूजाची येनैवंभूतः सन् तस्माद्देवगृहानिष्क्रम्य बहिरागत्यावनिपो राजाहारमश नादिकं निवर्तयामास कृतवानित्यन्वयः । निर्वर्तितेति । निर्वर्तितं कृतमग्निकार्य होगादि येन सः । विलेपनभूमावरागनिष्पादनस्थले झङ्कारिभिर्झङ्कारशब्दं कुर्वाणैरलि- समान आमोटो यस्य स तथा तेन मृगमदे TETETT नो
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति