पूर्वभागः | , पुलिनायमानमुपवनलतागलितकुसुमरेणुपटलैः, दुर्दिनायमानमनिभृतपरभृतनखक्षताङ्ग- णसहकारफलरसवर्षैः, नीहारायमाणमनिल विप्र कीर्णैर्बकुलसे क सीधुधा राधूलिभिः काञ्चनद्वी- पायमानं चम्पकदलोपहारैः लीलाशोकवनायमानं कुसुमप्रकरपतितमधुकरवृन्दान्धकारैः, तथा च संचरतः स्त्रीजनस्य रागसागरायमाणं चरणालक्तकरसविसरैः, अमृतोत्पत्तिदिवसा- यमानमङ्गरागामोदैः, चन्द्रलोकायमानं दन्तपत्रप्रभामण्डलैः प्रियङ्गुलतोयमानं कृष्णागुरु- पत्रभङ्गैः, लोहितायमानं कर्णाशोक पल्लवैः, धवलायमानं चन्दनरस विलेपनैः, हरितायमानं शिरीषकुसुमाभरणैः, अथ सेवार्थमागतेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन प्राकारेणेव लावण्य - मयेन कृतदीर्घरथ्या मुखाकारं मार्गमद्राक्षीत् | तेन चान्तर्निपतन्तमाभरणकिरणालोकं संपि- ण्डितं नदीवेणिकाजलप्रवाहमिव वहन्तमपश्यत् | तन्मध्ये च प्रतिस्रोत इव गत्वा प्रतिहा- रीमण्डलाधिष्ठितपुरोभागं श्रीमण्डपं ददर्श | 9 , , अथेति । सेवार्थमागतेन सपर्यार्थ समायातेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन । ऊर्ध्वत्वसाम्येनाह- लाव- ण्यमयेन प्राकारेणेव वप्रेणेव । उभयतः संवृतत्वसाम्येनाह - कृत इति । कृतो विहितो दीर्घाया रथ्यायाः | लोके 'गल्ली' इति प्रसिद्धायाः मुखाकारो यस्मिन्नेतादृशं मार्गमध्वानमद्राक्षीदालोकितवान् । इतो मार्गविशेष- णानि प्रदर्शयन्नाह - पुलिनेति । उपवनं गृहसमीपवर्ति काननं तस्य लता वल्लयस्ताभ्यो गलितानि कुसुमानि पुष्पाणि तेषां रेणुपटलैः परागपुजैः पुलिनायमानं जलोज्झिततटायमानम् | श्वेतत्वातिशयात्परागोपेतमार्गस्य पुलिनोपमानता । अनिभृतेति । अनिभृताञ्चञ्चला ये परभृताः पिकास्तेषां नखाः पुनर्भवास्तैः क्षतानि स- ण्डितान्यङ्गणमजिरं तत्र ये सहकारा आम्रास्तेषां फलानि सस्यानि तेषां रसवर्षैर्मधुवर्षणैर्दुर्दिनायमानं मेघजनि- ततमोवदाचरमाणम् । एतेन सर्वत्र तत्तदतिशयो व्यज्यते । अनिलेति । अनिलेन वायुना विप्रकीर्णेविक्षि- सैर्वकुला: केसरास्तेषां सेकार्थ याः सीधुधारा मद्यधारास्तासां धूलिभिः कणैः । श्वेतत्वसाम्यात् । नीहारायमाणं हिमबदाचरमाणम् । काञ्चनेति । चम्पकदलानि गन्धफलीशकलानि तेषामुपहारैरुपचारैः काञ्चनद्वीपायमानं स्वर्णान्तरीपवदाचरमाणम् । एतेन पीतत्वातिशयो व्यज्यते । कुसुमेति । कुसुमप्रकरेषु पुष्पसमूहेषु पतितमु- पविष्टं यन्मधुकरवृन्दं भ्रमरसमूहस्तस्यान्धकारैश्छायारूपैर्लीलाशोकवनायमानम् | अन्धकारस्य नीलत्वादशोक- वनसाम्यमित्यर्थः । तथा चेति । तेनैव प्रकारेण संचरतो गच्छतः स्त्रीजनस्य वनितालोकस्य चरणालक्तकरसः पादरञ्जनार्थंयावकरसस्तस्य विसरैः समूहै: रागसागरायमाणं रागसमुद्रवदाचरमाणम् । एतेन रक्तत्वातिशयो योग्यते । अङ्गेति । अङ्गरागस्य विलेपनस्यामोदैः परिमलैरमृतस्य पीयूषस्य य उत्पत्ति दिवसस्तवदाचरमाणम् |
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति