३४० कादम्बरी । 9 अधोमुखकर्णाभरणम- दर्शन दुःखेनेव क्षीयमाणमध्यभागाम्, प्रजापतेः स्पृशतोऽतिसौकुमार्यादङ्गुलिमुद्रामिव नि- मनां नाभिमण्डलमावर्तिनीमुद्वहन्तीम् त्रिभुवनविजयप्रशस्तिवर्णावलीमिव लिखितां मन्म- थेन रोमेराजिमञ्जरी विभ्राणाम् अन्तःप्रविष्टकर्णपल्लवप्रतिविम्बेनातिभरखिद्यमानहृदयकर- तलप्रेर्यमाणेनेव निष्पतता मकरकेतुपादपीटेन स्तनभरेण भूषिताम् यूखाभ्यामिव प्रसृताभ्याममललावण्यचलमृणालकाभ्यां बाहुभ्यां नखकिरणविसरवर्पिणा च माणिक्यवलयगौरव श्रमवशात्स्वेदजलधाराजालकमिव मुञ्चता करयुगलेन समुद्भासिताम्, स्तनभारावनम्यमान माननमिवोन्नमयता हारेणोचैः करैर्गृहीतचिबुकदेशाम् अभिनवयौवन- पवनक्षोभितस्य रागसागरस्य तरंगाभ्यामिवोद्गताभ्यां विद्रुमलतालोहिताभ्यामघराभ्यां रक्ता- वदात स्वच्छकान्तिना च मदिरारसपूर्णमाणिक्यशुक्तिसंपुटच्छविना कपोलयुगलेन रतिपरि- वादिनीरत्नकोणचारुणा नासावंशेन च विराजमानाम्, गतिप्रसर निरोधिश्रवणकोपादिव किं चिदारतापाङ्गेन निजमुखलक्ष्मीनिवासदुग्धोदधिना लोचनयुगलेन लोचनमयमिव जीवलो- .3 ननवीक्षणं तस्य दुःखेनेव कृच्छ्रेणेव क्षीयमाणः क्षीणतां प्राप्यमाणो मध्यभागो यस्याः सा ताम् । मध्य- भागस्याधस्तान्मुखम्यो परिष्टधत्तन्मध्ये कुचान्तरालस्य विद्यमानत्वात्तथा दर्शनं न भवति । अङ्कुरितयौव- नत्वात् । पूर्ण तु यौवने सर्वथा दर्शनं न भविष्यतीत्यतो दुःखेनेवेत्युक्त मिति भावः । प्रजापतेरिति । अतिसौकुमार्यात्स्पृशतः स्पर्श कुर्वतः प्रजापतेर्ब्रह्मणोऽङ्गुलिमुद्रा मिवावर्तिनीं निम्नगां नाभिमण्डलमुदकू - पिकामुद्वहन्तीं धारयन्तीम् । त्रिभुवनेति । मन्मथेन कंदर्पेण लिखितां लिपीकृतां त्रिभुवनस्य यो विजयो जयस्तस्य प्रशस्तिवणः श्लाघाक्षराणि तेषामावलीमिव रोमराजिमञ्जरीं तनूरुहसमूहवल्लरीं बिभ्राणां दधानाम् । अन्तरिति । अन्तः प्रविष्ट एवंभूतः कर्णपल्लवस्य यः प्रतिबिम्बस्तेन तन्मिषेणातिभरेण अर्थात्का- मभारेण खिद्यमानं पीड्यमानं यहृदयं तस्य मृदुत्वरक्तत्वसाम्यात् । अत्र च प्रतिबिम्ब रूपेण । करतलेनेव प्रेर्यमाणं नोदनाविषयी क्रियमाणमेवंभूतम् । अतएव निष्पतता बहिर्निःसरता दृढत्वान्मकरकेतोर्मंदनस्य पाद- पीठेनेव पदासनेनेव स्तनभरेण भूषितां मण्डिताम् । अधोमुखेति । वाहुभ्यां भुजाभ्यां करयुगलेनेव समु- द्भासितां विभाजिताम् | बाहुमुत्प्रेक्षय न्नाह - अधो इति । अधोमुखेऽवाङ्मुखे ये कर्णाभरणे श्रवणभूषणे तयोर्मयूखाभ्यां किरणाभ्यां प्रसृताभ्यामत्यन्तप्रवृद्धाम्यामिव । अतिकोमलसाधर्म्यात् । उपमान्तरं प्रदर्श- यन्नाह — अमलेति । अमलं निर्मलं यल्लावण्यजलं पानीयं तस्य मृणालकाम्यामिव तन्तुलाभ्यामिव । करयुगलं विशेषयन्नाह-नखेति । नखाः पुनर्भवास्तेषां किरणास्तेषां विसरः समूहस्तद्वर्षिणा तदृष्टिकारिणा | किरणविस- रस्य श्वेतत्वसाभ्यादाह – माणिक्येति । माणिक्यवलयानां रत्नकटकानामप्युद्वहनगौरवेण श्रम इति सौकु- मार्यं ध्वन्यते । तद्वशात्स्वेदः प्रस्वेदस्तस्य जलधाराजालकमिव मुञ्चता त्यजता । पुनः कीदृशीम् | स्तनेति । हारेण मुक्ताकलापेनोच्चैः करैः स्वकिरणैस्तैरेव वा करैर्गृहीतश्चिवुकदेशोऽसिकाधःप्रदेशो यस्याः सा ताम् । किं कुर्वता हारेण । स्तनभारेणावनम्यमानं नम्रतां नीयमानमाननं मुखमुन्नमयतेवोच्चैः कुर्वतेव | अभीति । अभि
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३३८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति