पूर्वभागः । ३४३ दयन्तीम्, पृथिवीमिव समुत्सारित महाकुलर्भूभृव्यतिकरां शेषंभोगनिषण्णाम् मधुमासलँ- क्ष्मीमिव पट्पदपटलापहियमाणकुसुमरजोधूसरपादपरागाम्, पक्षिरवापनीतनीलकण्ठमदाम् । गौरीमिव " शरदमिवोत्पादितभानसजन्म- श्वेतांशुकर्रचितोत्तमाङ्गाभरणाम्, उदधिवेलाघन- लेखामिव मधुकरकुलनीलतमालकाननाम् इन्दुमूर्ति मिवोद्दाममन्मथ विलासगृहीतगुरुकल- त्राम् वनराजिमिव पाण्डुश्यामलवलीलतालंकृतमध्याम् दिनमुखमिव भास्वन्मुक्तांशुभि- अपद्मरागप्रसाधनाम्, आकाशकमलिनीमिव स्वच्छाम्बरदृश्यमानमृणालकोमलोरुमूलाम्, 9 9 .9 णीं वालव्यजनधारिणीं विहस्य कपोले प्रसादः प्रसन्नता तथाजेन तन्मिषेण दत्तेनार्पितेनात्मनः स्वकीयस्य यः कर्णपूरपल्लवनाच्छादयन्ती माच्छादनं कुर्वन्तीम् । एतेन रत्नकुण्डलस्य वकलोहितातिशय वन्नखक्षतिसाम्यं प्रदर्शयन्नाह समुत्सारितेति । समुत्सारितो दूरीकृतो महाकुलानां भूभृतां राज्ञां व्यतिकरी वृत्तान्तो यया सा ताम् | कादम्वर्याः पितुरपेक्षयान्येषां राज्ञां न्यूनत्वादिति भावः । पक्षे महाकुलभूभृतां कुलाचलानां व्यतिकरः सामर्थ्य यया सा ताम् । शेपा उर्वरिता अन्यजनैरस्पृष्टा ये भोगास्तत्र निषण्णामुपस्थिताम् । पक्षे शेपस्य नागाधिपस्य यो भोगोऽहिकायस्तत्र निषण्णां स्थिताम् | मधुमासेति | मधुमास - त्रमारास्तस्य लक्ष्मीः श्रीरतामिव । उभयोः साम्यं प्रदर्शयन्नाह --पट्पदेति । षट्पदानां भ्रमराणां पढ़लै- रपहियमाणं यत्कुसुमरजस्तेन धूसर ईपत्पाण्डः पादयोश्चरणयोः पराग उपरांगो यस्याः | 'परागः ख्यात्यु - परागयोः' इति विश्वः । पपादन वृक्षाणां राग आरुण्यं यस्याम् । शरदिति । शरद्धनात्ययस्तामिव । उभयोः साम्यमाह - - उत्पादितेति । उत्पादितो जनितो मानसं मनरतस्माजन्म यस्य स मानसजन्मा कंदर्पस्तस्य पक्षी विद्यते येषां मानसजन्मपक्षिणां रव उपभोगानुकूल: शब्दो यया सा | कामिनामुपभोगवि- पयकालाप उद्दीपकत्वात्कादम्बयँवोत्पादित इत्यर्थः । अतोऽपनीतो दूरीकृतो नीलकण्ठो मदनदाहको महादे- वरतस्य मदः । मदनसहस्रोत्पादकत्वस्य पूर्वमुक्तत्वात्पश्चात्कर्मधारयः । ताम् । पक्षे मानसजन्मानो ये पक्षिण- स्तेषां रवेण शब्देनापनीतो दूरीकृतो नीलकण्ठस्य मयूरस्य मदो यया सा ताम् । गौरीति | गौरी पार्वती तामिव क्षेतमंशुकं वस्त्रं यस्याः सा | विरचितान्युत्तमाजावण्याभरणानि भूषणानि यया सा | पश्चात्कर्मधार यः । ताम | पक्षे देता अंशवः किरणा यस्यैवंभूतः श्वेतांगुकश्चन्द्रः स एव रचित उत्तमाङ्ग आभरणं यथा । हारस्यति शेषः । उदधीति | उदभिः समुद्ररतस्य वेलावनं रामीपवर्ति काननं तस्या लेखा राजितामिव । म ध्विति | मधुकराणां भ्रमराणां कुलं समुदायस्तद्वन्नीलतमा अतिशयेन हरिता अलकाः केशा आनने मुखे यस्याः सा ताम् । पक्षे मधुकरकुलयुक्तं नीलतमालकाननं यस्याम् । इन्दुमूर्तीति । इन्दुश्चन्द्रस्तस्य मूर्तिरता- मित्रोद्दामा उत्कटा ये मन्मथविलासाः कंदर्पविभ्रमार्गृहीतं स्वीकृतं गुरु महत् । 'कलत्रं श्रोणिभार्ययोः' इति विश्वः । पक्षे उद्दाममन्मथ विलासर्गृहीतमात्तं गुरोर्वृहस्पतेः कलचं भार्या यया सा ताम् । कामव्याकुलचेतसा चन्द्रेण वहस्तेखापति पराणप्रसिद्ध वति । वनस्य राजिलेखा तामिवशायम }
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति