रूपम्, मयूरावलीमिव नितम्ब चुम्बिशिखण्डभार विस्फुरचन्द्र कान्ताम्, कल्पतरुलतामिव कामफल- प्रदाम्, पुरःसमीपे संमुखोपविष्टाम् ' कोऽसौ, कस्य वापत्यम्, किमभिधानो वा, कीदृशमस्य कियद्वा वयः, किमभिधत्ते, भवता किमँभिहितः, कियच्चिरं दृष्टस्त्वया, कथं चास्य महाश्वेतया सह परिचय उपजातः, किमयमन्त्रागमिष्यति' इति मुहुर्मुहुश्चन्द्रापीडसंबद्ध मे- वालापं तद्रूपवर्णनामुखरं केयूरकं पृच्छन्तीं कादम्बरीं ददर्श | तस्य तु ष्टकादम्बरीवदन- चन्द्रलेखालक्ष्मीकस्य सागरस्येवामृतमुल्ललास हृदयम् । आसीच्चास्य मनसि – 'शेषेन्द्रिया- ण्यपि मे वेधसा किमिति लोचनमयान्येव न कृतानि । किं वानेन कृतमवदातं कर्म चक्षुषा, यदनिवारितमेनां पश्यति । अहो चित्रमेतदुत्पादितं वेधसा सर्वरमणीयानामेकं धाम | कुत एते रूपातिशयपरमाणवः समासादिताः। तन्नून मेनामुत्पादयतो विधेः करतलपरामर्शक्केशेन ये विगलिता लोचनयुगलादब्रुजलविन्दवस्तेभ्य एतानि जगति कुमुदकमलकुवलयसौगन्धिकव- नान्युत्पन्नानि' इत्येवं चिन्तयत एवास्य तस्या नँयनयुगले निपपात चक्षुः । तदा तस्या अपि ed सा ताम् । पक्षे स्वच्छेऽम्बर आकरे मृणालस्य तन्तुलस्य कोमलं सुकुमारमुरु विस्तीर्ण मूलं बुघ्नं यस्याम् | मयू- रेति । मयूराणां कलापिनामावली श्रेणी तामिव | नितम्बेति | नितम्बः कटकरत चुम्विनि, अर्थाद्वस्त्रे, शिख- ण्डभारवत्कला पिपिच्छसमूहवच्चन्द्रकाश्चन्द्राकृतयो बिन्दवोऽन्ते प्रान्ते यस्याः सा ताम्। पक्षे नितम्बचुम्विशिख- ण्डभारस्तस्मिन्विस्फुरिता देदीप्यमानाश्चन्द्रका मेचका अन्ते यस्याः सा ताम् । कल्पेति । कल्पतरुर्मन्दारः सरलत्वात्स एव लता तामिव । उभयोः सादृश्यमाह - कामेति । कामं वाञ्छितं यत्फलं तस्य प्रदामित्यभङ्ग- श्लेषः । पुर इति । पुरोऽग्रे समीपे सविध उपविष्टमासीनं कोऽसौ चन्द्रापीडः, कस्य च राज्ञोऽपत्यं प्रजाः, किमभिधानो वा किंनामा, कीदृशमस्य रूपं सौन्दर्यम्, कियद्वा कियत्प्रमाणं वयोऽवस्थाविशेषः, किमभिधत्ते किं कथयति, भवता किमभिहितः किं कथितः, त्वया कि चिरं कियत्कालं दृष्टः । कथंचेति । केन प्रकारे- णास्य पुरोवर्तिपुरुषस्य महाश्वेतया सह परिचयः संस्तव उपजातः । किं अयमत्रागमिष्यतीति मुहुर्मुहुश्चन्द्र पीड- संवद्धं चन्द्रापीड विषयकमेवालापं वार्ता तस्य चन्द्रापीडस्य या वर्णना प्रशंसा तत्र मुखरं वाचालं केयूरकं पृच्छ तीं प्रश्नविषयी कुर्वन्तीं कादम्बरीं ददर्शति प्रागुक्त एवान्वयः | तस्य त्विति । तस्य चन्द्रापीडस्य हृदयं चेत उल्लासोच्छ्रसितं बभूव । कीदृशस्य | दृष्टा वीक्षिता कादम्बरीवदनचन्द्रलेखाया लक्ष्मीर्येन स तस्य । कस्येव । सागरस्येवामृतं पानीयं यथा चन्द्रले खादर्शना दुल्लसति | आसीदिति । अस्य चन्द्रापीडस्य मनसि चित्त एवमा. सीद्वभूव | वेधसा ब्रह्मणा मे मम शेषेन्द्रियाण्यपि चक्षुर्व्यतिरिक्तान्यपि करणानि किमिति हेतोर्लोचनमया- न्येव न कृतानि न विहितानि । किं वेति । अनेन चक्षुषा लोचनेन । किमिति प्रश्ने । अवदातं शुद्धं कर्म कृतं विहितम् । अत्रार्थे हेतुं प्रदर्शयन्नाह - यदिति । यद्यस्माद्धेतोरनिवारितं यथा स्यात्तथैतां कादम्बरीं प इयति विलोकयति । अहो चित्रमाश्चर्यमेतत् । यद्वेधसा सर्वरमणीयानां समग्र मनोहराणामेकमद्वितीयं धाम गृहमु - त्पादितं निर्मितम् । एते इति । एते रूपातिशयपरमाणवो वेधसा कुतः समासादिताः कुतः प्राप्ताः । तन्नूनं तन्नि- विधेर्ब्रहण करतलस्य हस्तस्य रामर्श: संबन्ध स्माद्यः केश ये विगलि- M
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३४२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति