कादम्बरी । गाद्भगबानीक्षणोत्सवः सुधासूति: । उच्छूिते च कुसुमायुधाधिराज्यैकातपत्रे कुमुदिनीवधूवरे विभावरीविलासदन्तपत्रे श्वेतभानौ, धवलित दिशि देन्तादिवोत्कीर्णे भुवने चन्द्रापीडश्चन्द्रा- तपनिरन्तरतयैव कुमुद इव गृहकुमुदिन्याः कल्लोलधौर्ते सुधाधवलसोपाने तनुतरङ्गतालवृन्त- वातवाहिनि सुप्तहंस मिथुने विरहवाचालचक्रवाकयुगले तीरे कुमुददलावलीभि: पर्यन्तलिखि- तपन्नलतमवदात सिन्दुवारदामोपहारं हरिचन्दनरसैः प्रक्षालितं कादम्बरीपरिजनोपदिष्टं मुक्ताशिलापट्ट चन्द्रशीतलमधिशिश्ये | तत्रस्थस्य चास्यागत्याकथयत्केयूरकः 'देवी काद- स्वरी देवं द्रष्टुमागता' इति । ३६८ • अथ चन्द्रापीड: ससंभ्रममुत्थायागच्छन्तीम्, अल्पसखीजनपरिवृताम्, अपनीताशेषरा- जचिह्नाम्, इतरामिवैकावलीमात्राभरणाम्, अच्छाच्छेन चन्दनरसेन धवलीकृततनुलताम्, एककर्णावसक्तदन्तपत्राम्, इन्दुकलाकलिकाकोमलं कर्णपूरीकृतं कुमुददलं दधानाम्, ज्यो- त्स्नाशुचिनी कल्पद्रुमदुकूले बिभ्रतीम्, तत्कालरमणीयेन वेषेण साक्षादिव चन्द्रोदयदेवताम्, मदलेखया दत्तहस्तावलम्बां कादम्बरीमपश्यत् । आगत्य च सा प्रीतिपेशलतां दर्शयन्ती - - बान् । पुनः किंविशिष्टः । ईक्षणानां नेत्राणामुत्सवइव | उच्छ्रिते च वृद्धिं प्राप्ते च कुसुमायुधः कंदर्पस्तस्याधि- राज्यं साम्राज्यं तस्य एकम द्वितीयमातपत्रं छत्रं तस्मिन् । कुमुदिनी कैरविणी सैव वधूस्तस्या वरः प्राणनाथ- स्तस्मिन् । पाण्डुरत्वसाम्येनाह — विभावरीति | विभावर्यास्त्रियामाया विलासार्थ दन्तपत्रं कर्णाभरणं तस्मिञ्श्वेताः शुभ्रा भानवः किरणा यस्मिन् | धवलिताः शुश्रीकृता दिशो येन स तस्मिन् । चन्द्रालोकेन भुवनस्य व्याप्तत्वादाह – दन्तेति । दन्तादिवोत्कीर्ण भुवने विष्टपे जाते सति चन्द्रापीडश्चन्द्रातपस्य चन्द्रा- लोकस्य निरन्तरता सर्वस्मिन्नभिव्याप्तिस्तया हेतुभूतया । एवं विरलकुमुदवत्या अपि । गृहकुमुदिन्याः कुमुद मय्याः कुमुदप्रकर्पवल्या इव ये कल्लोलाः श्वेतिमोत्कर्षास्तै भौंतं निर्मलीकृतं सुधया धवलं सोपानं यस्मिन् । तनवः सूक्ष्मा ये तरङ्गाः कल्लोलास्त एव वातहेतुत्वात्तालवृत्तानि व्यजनानि तेषां वातं वहतीत्येवंशीलं तस्मिन् । सुप्तानि हंसानां मिथुनानि यस्मिन् | विरहेण वियोगेन वाचालानि मुखराणि चक्रवाकयुगलानि यस्मिन्नेवं वि धे तीरे | गृहदीर्घिकाया इति शेषः । कुमुदानां कैरवाणां दलावलीभिः पत्र श्रेणिभिः पर्यन्ते प्रान्ते लिखिताः पत्रलताः पत्रभङ्ग्यस्ताभिर्दन्तुरं तदवदातानि सिन्दुवारदामानि निर्गुण्डीस्रजस्तेषामुपहारो यस्मिंस्तद्धरिचन्दनं गोशीर्षचन्दनं तस्य रसैः प्रक्षालितं धौतं कादम्वर्याः परिजनः परिच्छदस्तेनोपदिष्टं कथितं मुक्तावद्धवलं शुभ्रं शिलापट्टं चन्द्रेण शीतलमविशिश्ये | शयनं चकारेत्यर्थः । तत्रस्थस्यास्य चन्द्रापीडस्य केयूरक आगत्येत्यक- थयत् । इतिशब्दद्योलमाह - कादम्बरीति | कादम्बरी देवी देवं भवन्तं द्रष्टुमागता । अथेति । तत्कथनानन्तरं ससंभ्रममुत्थाय स चन्द्रापीडः कादम्बरीमपश्यत् | अथ कादम्बरीं विशेषय- GE अति अल्पः स्तोको य. सखीजनस्तन परिव
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति