पूर्वभागः । ३६९ प्राकृते परिजनोचिते भूतले समुपाविशत् । चन्द्रापीडोsपि ' कुमार, अध्यास्यतां शिलातलमेव' इत्यसकृदनुबध्यमानोऽपि मदलेखया भूमिमेवाभजत | सर्वासु चासीनासु तासु मुहूर्तमित्र स्थित्वा वक्तुमुपचक्रमे चन्द्रापीड: – 'देवि, दृष्टिमात्रप्रीते दासजने संभाषणादिकस्यापि प्रसादस्य नास्त्यवकाशः, किमुतैतावतोऽनुग्रहस्य | न खलु चिन्तयन्नपि निपुणं तमात्मनो गुणलवमवलोकयामि, यस्यायमनुरूपोऽनुग्रहातिरेकः | अतिसरला तवेयमपगताभिमानम- धुरा च सुजनता यदभिनव सेवक जने ऽप्येवमनुरुध्यते । प्रॉयेण मामुपचारहार्यमदक्षिणं देवी मन्यते । धन्यः खलु परिजन:, ते यस्योपरि नियंत्रणा स्यात् । आज्ञासंविभागकरणोचिते भृत्यजंने क इवादरः | परोपकारोपकरणं शरीरम्, तृणलवलघु च जीवितम् | अपत्रपे त्वत्प्र- तिपत्तिभिरुपायनीकर्तुमागतायास्ते वयमेते शरीरमिदमेतज्जीवित मेतानीन्द्रियाणि एतेषार्म- न्यतरदारोपय परिग्रहेण गरीयस्त्वम्' इति । अथैवंवादिनोऽस्य वचनमाक्षिप्य मदलेखा सस्मितमवादीत् - 'कुमार, भवतु | अतियन्त्रणया खिद्यते खलु सखी कादम्बरी । किमर्थं चैवमुच्यते । सर्वमिदमन्तरेणापि वचनमनया परिगृहीतम् किं पुनरमुनोपचारफल्गुना वचसा संदेहदोलामारोप्यते' इति स्थित्वा च कंचित्कालं कृतप्रस्तावा 'कथं राजा तारापीडः, .9 प्रीतिपेशलतां स्नेहसुन्दरतां दर्शयन्ती प्रकटयन्ती प्राकृते नीचे परिजनस्य सेवकजनस्योचिते योग्ये भूतले पु. थिव्यां समुपाविशत्समुपविष्टः । चन्द्रापीडोsपि हे कुमार, शिलातलमेवाभ्यास्यतामिति मदलेखयासकृद्वारंवारम- नुवध्यमानोऽपि कथ्यमानोऽपि भूमिमेव वसुधा मेवाभजताश्रितवान् | सर्वासु तावासी नासूपविष्टासु सत्सु मुहूर्त - मिव स्थित्वा चन्द्रापीडो वक्तुं कथयितुमुपचक्रम उद्यमं कृतवान् । किं तदित्याह — देवीति । हे देवि, दृष्टिमात्रेण ग्रीते दासजने संभाषणादिकस्य जल्पनप्रभृतिकस्य प्रसादस्यानुग्रहस्यावकाशोऽवगाहो नास्ति । दृष्टिमात्रसमुद्भूत- प्रीत्या तावन्मम हृदयं भृतं यावदस्य प्रवेशो नास्तीत्यर्थः । एतावतोऽनुग्रहस्य किमुत भण्यते । सर्वथा प्रवेशो नास्तीत्यर्थः । न खल्विति | निपुणं यथा स्यात्तथा चिन्तयन्नपि विचारयन्नप्यात्मनोगुणलवमवलोकयामि पश्यामि । यस्य गुणलवस्यायमनुरूपो· योग्योऽनुग्रहातिरेकः प्रसादोत्कर्षः | अतिसरलातिऋज्वी तवेयमपगतो दूरीभूतो यो- ऽभिमानोऽहंकारस्तेन मधुरा मिष्टा सुजनता सौजन्यम् । अत्रार्थे हेतुं प्रदर्शयन्नाह - यदिति । यदभिनवे सेवकजनेऽपि नूतनभृत्येप्येवमनुरुध्यतेऽनुग्रह विषयी क्रियते । प्रायेणेति । प्रायेण बाहुल्येनोपचारेण बाह्यवि नयेन हार्यं वशीकर्तुं योग्यमत एवादक्षिणमनुदारं मां देवी मन्यते जानाति । खलु निश्चयेन । स एव परिजनो धन्यः कृतपुण्यः, यस्योपरि ते तव नियन्त्रणाज्ञा स्यात् । आज्ञालक्षणो यः संविभागो विभज्य किंचिदर्पणं तस्य करणं तनोचिते योग्ये भृत्यजने क इवादरो बहुमानाधिक्यम् | परेति । परस्य य उपकार उपकृतिस्तस्योपक- रणं साधकं शरीरं तृणस्यार्जुनस यो लवो लेशस्तद्वलघु च जीवितम्। अत आगतायास्ते तव त्वत्प्रतिपत्तिभिस्त्व- द्भक्तिभिरुपायनीकर्तुमुपढौकनीकर्तुम हमपत्रपे लज्जे । एते वयम्, इदं शरीरम्, एतज्जीवितम्, एतानीन्द्रियाणि, एतेषां मध्यादन्यतरत्परिग्रहेण स्त्रीकारेण कृत्वा गरीयस्त्वमारोपय स्थापयेति । अन्यस्योपायनस्याभावात् । इदमेव
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति