कादम्बरी । गमनगौरवेणार्हसीमां गुणवदमिमानिनी कर्तुम् | उदारजनादरोहि बहुमानमारोपयत्यवश्यम् । सोढव्या चेयमस्मद्विधजनपरिचयकदर्थना कुमारेण । भवरसुजनतैव जनयत्यनुचितसंदेशमा- गल्भ्यम् । एष देवस्य शयनीये विस्मृतः शेषो हारः' इत्युत्तरीयपटान्तसंयतं सूक्ष्मसूत्र वि वरनिःसृतैरंशुसंतानैः संसूच्यमानं विमुच्य चामरग्राहिण्याः करे समर्पितवान् । अथ चन्द्रापीड : 'महाश्वेताचरणाराधनतपः फलमिदं यदेवं परिजनेऽप्यनुस्मरणादिकं प्रसादभारमतिमहान्तमारोपयति देवी कादम्बरी' इत्युक्त्वा तत्सर्वे शिरसि कृत्वा स्वयमेव जग्राह । तेन च कादम्बर्याः कपोललावण्येनेव गलितेन, स्मितालोकेनेव रसतामुपनीतेन, हृदयेनेव द्रुतेन, गुणगणेनेव विस्पन्दितेम, स्पर्शवता ह्लादिना सुरभिणा च विलेपनेन विलिय तमेव कण्ठे हारमकरोत् । आगृहीतताम्बूलम्ध मुहूर्तादिवोत्थाय वामयाहुना स्कन्धदेशेऽर्वेल- मध्य केयूरकमूर्ध्वस्थित एव कृतयथाक्रियमाणसंमानमुदितं प्रधानराजलोकं विसृज्य शनै: शनैर्गन्धमादनं करिणं द्रष्टुमयासीत् | तन्त्र च स्थित्वा क्षणमिव तस्मै स्वयमेव निजनखांशु- जालजटिलं समृणालमिव शष्पकवलमवकीर्य वल्लभर्तुरगमन्दुराभिमुखः प्रतस्थे | गच्छंश्चो- ३७६ स्मरकल्पं कदर्पतुल्यं त्वां स्मरति गोचरीकरोति । अतो हेतोः पुनर्द्वितीयवारं यदागमनगौरवं तेन कृत्वेमां कादम्बरीं गुणवत्स्वाभिमानो विद्यते यस्या एवंविधां कर्तुमर्हसि योग्यो भवसि | हि निश्चितम् । उदारजने- प्वादरोऽवश्यं बहुमानं सत्कारमारोपयति । इयमस्मद्विधजनपरिचयजनिता या कदर्थना संकोचलक्षणा सा च कुमारेण सोढव्या सहनीया | संदेशानौचित्यदोपं परिहरन्नाह - भवदिति । भवतस्तव सुजनतैव सज्जन- तैवानुचितोऽयोग्यो यः संदेशस्तत्र प्रागल्भ्यं पाण्डित्यं जनयति निष्पादयति । एष देवस्य शयनीये शय्यायां विस्मृतो विस्मरणं प्राप्तः शेषाभिधानो हार इत्युत्तरीयपटः संव्यानपटरतस्यान्तेन प्रान्ताञ्चलेन संयतं बर्द्ध सूक्ष्मं यत्सूत्रं तेषां विवराणि रोकाणि तेभ्यो निःसृतैर्विनिर्गतैरंशुसंतानैः किरणसमूहै: संसूच्यमानमभिव्यज्य- मानं चामरग्राहिण्याः करे विमुच्य समर्पितवान्प्रदत्तवान् । अथेति । हारप्रदानानन्तरं चन्द्रापीडस्तत्पूर्वप्रतिपादितं सर्व शिरसि कृत्वा मस्तक आरोग्य स्वयमेवात्म- नैव जग्राह गृहीतवान् । इतिशब्दार्थमाह - महाश्वेतेति । इदं महाश्वेतायाश्चरणयोराराधनं सेवनं तल्लक्षणं यत्तपस्तस्य फलं यस्माद्धेतोरेवममुना प्रकारेण परिजनेऽपि सत्यप्यनुस्मरणादिकमति महान्तं प्रसादभारमारोप- यति देवी का दम्बरी । इत्युक्त्वेत्यभिधाय तत्पूर्वोक्तं शिरसि कृत्वा मस्तक आरोग्य जग्राह गृहीतवान् | तेनेति । तेनानिर्वचनीयस्वरूपेण स्पर्शवता ह्रादिना प्रमोदकारिणा सुरभिणा सुगन्धेन विलेपनेन विलिप्य कण्ठे तमेव हारमकरोदघटयत् । अथ श्वेतत्वसाम्याद्विलेपनमुत्प्रेक्षयन्नाह – कादम्बर्या इति । कादम्बर्या गलितेन च्यु- तेन कपोललावण्येन च, तथा रसनामुपनीतेन द्रवतां प्रापितेन स्मितालो के नेवादृष्टर दहास्य प्रकाशेनेव, द्रुतेन विलीनेन हृदयेनेव चित्तेनेव, विस्पन्दितेन, प्रत्रवितेन गुणगणेनेव | अन्वयस्तु प्रागेवोक्तः । आगृहीतेति ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति