पूर्वभागः । ३७७ भयतः किंचित्किचिदिव तिर्यग्वलितवदनः परिजनं विलोकयांबभूव । अथ चित्तज्ञैः प्रतीहारैः प्रतिषिद्धानुगमने निखिलेन समुत्सारिते परिजने केयूरकद्वितीय एव मन्दुरां प्रविवेश | उत्सा- रणभयसंभ्रान्तलोचनेषु प्रणम्यापसृतेषु मन्दुरापालेषु, इन्द्रायुधपृष्ठावगुण्ठनपटं किंचिदेक- पार्श्वे गलितं समीकुर्वनुत्सारयंश्च कूणितनेत्रत्रिभागस्य दृष्टिनिरोधिनीं कुङ्कुमकपिलां केसर- सटां खुरधारणीविन्यस्त चरणो लीलामन्दं मन्दुरादारुदत्तदेहभरः सकुतूहलमुवाच – 'केयू- रक, कथय मन्निर्गमादारभ्य को वा वृत्तान्तो गन्धर्वराजकुले, केन वा व्यापारेणावसरमति- नीतवती गन्धर्वराजपुत्री, किं वाकरोन्महाश्वेता, किमभाषत वा मदलेखा, के वाभवन्नालापाः, परिजनस्य भवतो वा को व्यापार आसीत् आसीद्वा काचिदस्मदाश्रयिणी कथा' । केयूरकस्तु सर्वमाचचक्षे -- 'देव, श्रूयताम् । निर्गते त्वयि हृदयसहस्रप्रयाणपटहकलकलमिव नूपुरनैव- कणितेन कन्यकान्तःपुरे कुर्वन्ती देवी कादम्बरी सपरिजना सौधशिखरमारुह्य तुरगधूलिरे- खाधूसरं देवस्यैव गमनमार्गमालोकितवती । तिरोहितदर्शने च देवे मदलेखास्कन्धनिक्षिप्त मुखी प्रीत्या तं दिगन्तं दुग्धोदधिधवलैः प्लावयन्तीव दृष्टिपातैः सितातपत्रापदेशेन शशिने- वेर्ष्यया निवार्यमाण र विकिरणस्पर्शा सुचिरं तत्रैव स्थितवती । तस्माच्च कथमपि सखेदमव- १ पार्श्वयोः किंचित्तिर्यक्साचि विवलितं वदनं यस्य सः | परिजनं परिच्छदलोकं विलोकयांवभूवेक्षांचक्रे । अथेति । तन्निकटगमनानन्तरं चित्तज्ञैः प्रभोरभिप्रायविद्भिः प्रतीहारैर्द्वारपालैः प्रतिषिद्धं निवारितमनुगमन- मनुयानं यस्यैवंविधे निखिले समग्र परिजने सेवकजने समुत्सारिते दूरीकृते सति केयूरक एव द्वितीयो यस्यैवंभूतश्चन्द्रापीडो मन्दुरां वाजिशालां प्रविवेश प्रवेशं चकार । उत्सारणं दूरीकरणं तस्माद्यद्भयं तेन संभ्रान्तानि त्रस्तानि लोचनानि येषां तेषु मन्दुरापालेषु प्रणम्यापसृतेषु दूरीभूतेषु सत्सु, इन्द्रायुधपृष्ठस्या- वगुण्ठनपटमाच्छादनवस्त्रं किंचिदेक पार्श्वे गलितं त्रस्तं समीकुर्वन्स्वस्थाने नयन्कूणितनेत्र त्रिभागस्येन्द्रायु- धस्य दृष्टिनिरोधिनीं दृष्टिबाधाकारिणीं कुङ्कुमवत्कपिलां पिङ्गलां केसरसटां स्कन्धकेश श्रेणीमुत्सारयंञ्चो चैः कु- खुरधारिण्यां खुरबन्धनशङ्को विन्यस्तौ स्थापितौ चरणौ येन सः लीलामन्दं यथा स्यात्तथा मन्दुरादारौ दत्तो देहभरो येनः सः । सकुतूहलं सकौतुकं यथा स्यात्तथोवाचाब्रवीत् । हे केयूरक; कथय ब्रूहि मन्निर्गमा- न्मदीय चलनादारभ्य गन्धर्वराजकुले को वा वृत्तान्त उदन्तः । केन व्यापारेणावसरं समयं गन्धर्वराजपुत्री कादम्वर्य तिनीतवत्यतिक्रान्तवती । किं वा महाश्वेताकरोदन्वतिष्ठत् । वेति विकल्पार्थः सर्वत्र | मदलेखा किमभाषत किमवोचत् । के वालापा वचनव्यापारा अभवन् । परिजनस्य परिच्छदस्य भवतो वा को व्यापारो व्याकृतिरासीदभवत् । काचिदस्मदाश्रयिणी कथा वार्तासीत् । केयूरकस्तु सर्व प्राणविषयीकृतमाचचक्षे कथ- यामास | देवेति । देव श्रूयतामाकर्ण्यताम् | त्वयि निर्गते चलिते सति नूपुराणां पादकटकानां नवक्कणि- तेनाभिनवशब्दितेन हृदयानां सहस्राणि तेषां प्रयाणं प्रस्थानं तत्र यः पटहस्य कलकल: कोलाहलस्तमिव कन्य-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति