पूर्वभागः । ३९१ प्रणम्य देवी कादम्बरी । नन्वियं सा त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया दुर्ग्रहा प्रकृतिर्मर्त्यानां येषामकाण्डविसंवादिन्यः प्रीतयो न गणयन्ति निष्कारणवत्सलताम् । एवं गच्छता मयात्मनो नीतः स्नेह : कपटकूटजालिकताम्, प्रापिता भक्तिरलीकका कुकरणकुशल- ताम्, पातितमुपचारमात्रमधुरं धूर्ततायामात्मार्पणम्, प्रकटितं वाङ्मनसोर्भिन्नार्थत्वम् । आस्तां तावदात्मा | अस्थानाहितप्रसादा दिव्ययोग्या देव्यपि वक्तव्यतां नीता । जनयन्ति हि पश्चाद्वैलक्ष्यमभूमिपातिता व्यर्था, प्रसादामृतदृष्टयो महताम् । न खलु तथा देवीं प्रति प्रबललज्जातिभारमन्थरं मे हृदयं यथा महाश्वेतां प्रति । नियतमेनामलीकाध्यारोपणवर्णिता- स्मद्गुणसंभारामस्थानपक्षपा तिनी मसकृदुपालप्स्यते देवी । तत्किं करोमि । गरीयसी गुरोराज्ञा प्रभवति देहेमात्रकस्य | हृदयेन हेमकूटनिवासव्यसनिना लिखितं जन्मान्तर सहस्रस्य दास्य- पत्रं देव्या हस्ते न दत्तमस्या: | दविकगौलिमकेनेव देवीप्रसादेन गन्तुं सर्वथा गतोऽस्मि पितुरादेशादुज्जयिनीम् । प्रर्संङ्गतो जैनकथाकीर्तनेषु स्मर्तव्यः खलु चन्द्रापीडः । चण्डालो एवममुना 1 स्वैतावर्ती भूमिमागमिष्यतीति तन्मुखेन केयूरकमुखेन प्रणम्य देवी कादम्बरी विज्ञाप्या विज्ञप्तिविषयीकारा- पकरणीया | नन्विति वितर्फे । तेषां मर्त्यानां या निरनुरोधा निर्गतः कस्याप्यनुरोधः स्वकार्य प्रतिवन्धो यस्यां निर्गतः परिचयः संख्यानुवृत्तिर्यस्याम् | दुर्ग्रहेति | दुर्दुष्टो ग्रह आग्रहो हठो यस्यामेवंविधा प्रकृतिः स्वभावः सा प्रकृतिस्त्रिभुवन निन्दनीया स्यात् । यत्तदोर्नित्याभिसंवन्धाद्येषां मर्त्यानामकाण्डेऽप्रस्तावे विसंवादिभ्यो व्य- भिचारिण्यः प्रीतयो निष्कारणवत्सलतां निर्निमित्तहितकारितां न गणयन्ति न मनस्यानयन्ति प्रकारेण गच्छता व्रजता मयात्मनः स्नेहः खकीया प्रीतिः कपटं कैतवं तस्य कूटजालिका मिथ्याप्रपञ्चस्तद्रूपतां नीतः प्रापितः । भक्तिराराध्यत्वेन ज्ञानं वा साप्यलीका मिथ्या या काकुर्वक्रोक्तिस्तस्याः करणे कुशलतां दक्षतां प्रापिताः । उपचारो बाह्यविनय स्तन्मात्रेण मधुरं मिष्टमात्मार्पणं भवदीयोऽहमिति स्वस्यार्पणं धूर्ततायां पातितं क्षिप्तम् । वाङ्मनसयोरिति । 'अचतुर-' इत्यादिना निपातः । भिन्नार्थत्वं विसंवादित्वं प्रकटितमाविष्कृतम् । तावदादावात्मास्तां तिष्ठतु | ममेति शेषः । अस्थानेऽयोग्य आहितः स्थापितः प्रसादो ययात एवाह - दिव्यानां योग्योचितैवंविधा देव्यपि कादम्बर्यपि दूरदेशागतेन चन्द्रापीडेन कारणं विना कथं सख्यं प्राप्तेति वक्तव्यतां वचनीयतां नीता प्रापिता । मयेति शेषः | हि यस्मात्कारणादभूमिपातिता अस्थानिपातिता व्यथा निष्फलाः प्रसादामृतदृष्टयः प्रसन्नतापीयूषदृशः पश्चान्महतां वैलक्ष्यं जनयन्त्युत्पादयन्ति । स्थानविशेषे प्रीतिविशेषं प्रदर्श- यन्नाह – न खल्विति । खलु निश्चये । न तथा देवीं प्रति कादम्बरी प्रति प्रबला प्रकृष्टा या लज्जा त्रपा तस्या अतिभारोऽतिवीवधस्तेन मन्थरमलसं मे मम हृदयं चेतो यथा महाश्वेतां प्रति वर्तते । नियतं निश्चितमलीका- ध्यारोपेण वर्णितः स्तुतोऽस्मद्गुणसंभारो यया तामस्थानेऽनुचितस्थले पक्षपातो विद्यते यस्या एवंविधामेनां महाश्वेतां देवी कादम्बर्यसकृद्वारंवांरमुपालप्स्यते । उपालम्भं दास्यतीत्यर्थः । तत्किं करोमि । कोऽप्युपायो अ
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३८९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति