पूर्वभागः । लितखगभीषणा रक्तचन्दनालंकृता च, कर्णीसुतकथेव संनिहितविपुलाचला शशोपगता च, कल्पान्तप्रदोषसंध्येव अनृत्तनीलकण्ठा पल्लवारुणा च अमृतमथनवेलेव श्रीद्रुमोपशोभिता वारुणपरिगता च, प्रावृडिव घनश्यामलानेकशतहदालंकृता च' चन्द्रमूर्तिरिव सततमृक्षसा- र्थानुगता हरिणाध्यासिता च, राज्यस्थितिरिव चमरमृगबालव्यजनोपशोभिता समदगजघटा- गिरितनयेव स्थाणुसंगता मृगपतिसेविता च, जानकीव प्रसूतकुशलवा निशा- चरपरिगृहीता च, कामिनीव चन्दनमृगमदपरिमलवाहिनी रुचिरागुरुतिलकभूषिता च, परिपालिता च, लोहखण्डा यस्यामिति विग्रहः । विमुक्तेति । विमुक्तस्त्यक्तः । अर्थात्केसरिभिः । सिंहनादः केसरिध्वनिर्य- स्यां सा तथा । पक्षे सुभटैर्निहितः सिंहनाद इव नादो यस्यामिति विग्रहः । पुनः कीदृशी । कात्यायनी । सिंहयाना तद्वदिव । उभयोः साम्यमाह-प्रचलितेति । सेनाप्रकर्षण प्रचलितो यः खङ्गो गण्डकस्तेन भीपः णा भयावहा । रक्तचंदनं रक्ताझं वृक्षविशेषस्तेनालंकृता च भूपिता च । पक्षे प्रचलितो यः खड्ग- कौक्षय कस्तेन भीषणा भयजनिका, रक्तमेव चन्दनं तेनालंकृता च । चर्चितेत्यर्थः । कर्णासुतः कश्चित्क्षत्रि- यविशेषः तस्य कथा वृत्तान्तस्तद्वदिव । उभयोस्तुल्यतामाह-संनिहितेति । संनिहितौ समीपवर्तिनी विपुलाचलौं विपुलाचलसंज्ञको सखायौ यस्यां सा तथा । शशस्तस्य मन्त्रिमुख्यस्तेनोपगता सहिता च । अतएव 'कर्णीसुतः करटकः स्तेयशास्त्रप्रवर्तकः । ख्यातौ तस्य सखायौ द्वौ विपुलाचलसंज्ञको । शशो मन्त्रिवरस्तस्य' इति वृहत्कथायां कथा निवद्धा । पक्षे संनिहिताः समीपवर्तिनो विपुलाः पृथुला अचलाः पर्वता यस्यां सा तथा । शशो मृदुलोमको लोध्रवृक्षो वा । तेनोपगता सहिता च । 'शशो लाभ्रे नृभेदे च पशी' इत्यनेकार्थः । कल्पान्तति । कल्पान्तस्य युगान्तस्य प्रदोपो रजनीमुखं तस्य या संध्या सायंकाल. स्तद्वदिव । उभयोः सादृश्यमाह-प्रनृत्ता नीलकण्ठा मयूरा यस्यां सा तथा । स्रस्तैः पल्लवैः किसलयैररुणा चति । पक्ष प्रवृत्तो नीलकण्ठो महादेवो यस्याम्। पल्लववादरुणा रक्ता चेत्यर्थः । अमृतेति । अगृताय सुधायें यन्मथनं विलोडनम् । क्षीरसमुद्रस्येति शेषः । तत्र वेलाम्भसो वृद्धिः समयो वा । तद्वदिव । उभयोः सादृश्य- माह-श्रीति । श्रीद्रुमाः श्रीवृक्षास्तैरुपशोभता वरुणानां वृक्षविशेषाणां समूहो वारुणं तेन परि साम- स्त्येन गता प्राप्ता चेत्यर्थः । पक्षे श्रीद्रुमौ लक्ष्मीकल्पद्रुमो ताभ्यामुपशोभिता वरुणस्येदं वारुणं मद्यं तेन परिगता सहिता च । समुद्रप्रभवलात्तस्येति भावः। प्रावृवर्षास्तद्वदिव । उभयोः सादृश्यमाह-घनेति । धनं निविडं श्यामला । अत्यन्त कृष्णेत्यर्थः । अनेकशतसंख्याका ये ह्रदा ग्रहाः(?)तैरलंकृता च । पक्षे घनमधैः श्यामला अनेका भिन्नाभिन्न स्वरूपाः शतहदा जलबालिकास्ताभिरलंकृता चेति विग्रहः । चन्द्रस्य कुमुद- वान्धवस्य मूर्तिरिव शरीरमिव । उभयोः साम्यमाह-सततेति । क्षा भल्लूकास्तेपां सार्थः समुदायस्तेना- नुगता तथा हरिण गैरध्यारािताश्रिता च । पक्षे सततं निरन्तरमृक्षाणि नक्षत्राणि तेषां सार्थः समुदायस्ते. नानुगता सहानुयाता हरिणेन मृगेनाध्यासिता च राज्यस्थिती राज्यमर्यादा सेव । उभयोः साम्यमाह--च. मरेति । चमराश्चमयः, मृगा हरिणाः, वालव्यजनानि चामराणि,तरुपशोभिता सह मदेन वर्तमानाः समदा HI TITI ART न तामीरात्यथितिरित्यभयोः सा-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति