पूर्वभागः । नाकदर्शितदुर्गेण, दुःशिक्षितश्रवैणादिष्टतिलकायद्धविभवप्रत्याशेन, हरितपवरसाङ्गारमपीम- लिनशम्बूकवाहिना पट्टिकालिखित दुर्गास्तोत्रेण, धूमरक्तालक्तकाक्षरतालपत्रकुहकतन्त्रमन्त्र- पुस्तिकासंग्राहिणा, जीर्णपाशुपतोपदेशलिखित महाकालमतेन, आविर्भूतनिधिवाव्याधिना, संजातधातुवाद्वायुना, लग्नासुरविवरप्रवेशपिशाचेन, प्रवृत्तयक्षकन्यकाकामित्वमनोरथव्या- मोहेन, वर्धितान्तर्धानमैत्रसंग्रहेण श्रीपर्वताश्चर्य वार्तासहस्राभिज्ञेन, असकृदभिमन्त्रितसिद्धा- काह तिघावितैः पिशाचगृहीतकै: करतलताडर्न निबिडीकृतश्र्वणपुटेन, अवमुक्तशैवाभिमा- नेन, दुर्गृहीतालाबुवीणावादनोद्वेजितपथिक परिहृतेन, दिर्घसमेव मशककणितानुकारि किमपि कम्पितोत्तमाङ्गं गायता, स्वदेशभाषानिबद्धभागीरथीभक्तिस्तोत्रनर्तकेन, गृहीततुरगब्रह्मचर्य- तयान्यदेशागतोषितासु जरब्रजितासु बहुकृत्वः संप्रयुक्त स्त्री वशीकरणचूर्णेन, अतिरोपण- 5 यितापो यस्य स तेन । अनेन मुमूर्षोरपि वैराग्यं नोत्पद्यत इति लोभातिशयो व्यज्यते । जरेति । जरां गतेनापि 'विम्नसां प्राप्तेनापि दक्षिणापथस्य यदधिराज्यमाधिपत्यं तस्य वरप्रार्थना तया कदर्थितोद्विग्नीकृता दुर्गा भवानी येन | दुःखशिक्षितेति । दुर्दुष्टं शिक्षितं तस्य श्रवणादाकर्णनादिष्टेऽभिमतस्थानवर्तिनि तिलके कालके। ‘तिलकः काल- कः पिप्लुर्जडुलस्तिलकालकः' इति कोशः । तस्मिन्नावद्धा मनसि निश्चिता विभवस्यैश्वर्यस्य प्रत्याशा प्राप्तिवाञ्छा थेन । हरितेति । हरितपत्राणां नीलपलाशानां रसेन कृत्वा योऽङ्गारस्य मषी मसी तथा मलिनो यः शम्बूकः शङ्खस्तवाहिना । एतेन यत्किंचिलिखनव्यसनता सूचिता । पट्टिकेत | पकायां लिखितं लिपीकृतं दुर्गा- स्तोत्रं यस्य येन वा स तेन | धूमेति । धूमवद्रक्तान्यलक्तस्य यावकस्याक्षराणि येष्वेवंविधानि तालपत्राणि येषामेतादृशा ये कुहका जलिकास्तेषां तत्रा औषधप्रयोगः, मन्त्राः शावरमन्त्राः, तेषां पुस्तिकास्तस्याः सं ग्राहिणा संग्रहकारिणा । जीर्णेति । जीर्णश्चिरकालीनो यः पाशुपतोपदेशो मनुष्यरुधिरेण होमप्रतिपादकशि - क्षा तेन लिखितं लिपीकृतं महाकालमतमीश्वरमतं येन । एतेन केवलं वाममार्गोपदेष्टृत्वं सूचितम् । आवि र्भूतेति । आविर्भूतः प्रकटीभूतः सर्वे मे मम निधय इति वादः स एव व्याधिर्यस्य स तेन । अत एवाह - संजातेति । संजातः समुत्पन्नो धातुवादस्य ताम्रादे: सुवर्णादिकरणस्य स एव वायुर्विक्रिया यस्य स तेन । लग्न इति । लग्नोऽसुराणां पातालवासिदेवानां विवरप्रवेशलक्षणः पिशाचो यस्य स तेन | प्रवृत्तेति । प्र- वृत्तः प्रसृतो यक्षकन्यका गन्धर्वपुत्र्यस्तासां यः कामित्वमनोरथो भोगेच्छा विशेषस्तद्विषये व्यामोह यस्य स तेन । बर्धितेति । वर्धितो वृद्धिं नीतोऽन्तर्धानमदृश्यता तस्मिन्कर्तव्ये मन्त्रसंग्रह यस्यैवंविधेन | श्रीपर्व- तेति । श्रीपर्वतः श्रीशैलस्तस्याश्चर्यवार्ताश्चित्रकारिण्यः किंवदन्त्यस्तासां सहस्रं तस्मिन्नभिज्ञेन कुशलेन तस्य शाम्भवत्वाद्द्रविडधार्मिकस्य जंगमत्वाचेति भावः । असकृदिति । असकृन्निरन्तरमभिमन्त्रिता ये सिद्धार्थंकाः सर्षपास्तेषामाहतिः प्रक्षेपस्तया धावितैस्त्वरया प्रचलितैः पिशाचगृहीतकै: पिशाचाविषैः करतलताडनेन हरत- तलास्फोटनेन निविडीकृतं दृढीकृतं श्रवणपुटं कर्णकोटरं यस्य स तेन । एतेन पिशाचावेश विद्यावत्त्वं सूचित - म् । अवेति । 'अवमुक्तस्त्यक्तः शैवाभिमानोऽहमेव शैवो नान्य इति भावः येन | दुरिति । दुःखेन गृ- ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३९७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति