कादम्बरी। सोत्कण्ठेव विविधपल्लवानिलवीजिता समदना च, बालग्रीवेव व्यावनखपंडिमण्डितागण्डका- भरणा च, पानभूमिरिव प्रकटितमधुकोशकशता प्रकीर्णविविधकुसुमा च, कचित्प्रलयवेलेव महावराहदंष्ट्रासमुत्खातधरणिमण्डला,कचिद्दशमुखनगरीव चटुलवानरवृन्दभज्यमानतुङ्गशा- लाकुला, कचिदचिरनिवृत्तविवाहभूमिरिव हरितकुशसमित्कुसुमशमीपलाशशोभिता, कचि- दुवृत्तमृगपतिनादभीतेव कण्ट किता क्वचिन्मत्तेव कोकिलकुलप्रतापिनी, कचिदुन्मत्तेव वायुवे- गकृततालशब्दा कचिद्विधवेवोन्मुक्ततालपत्रा, कचित्समरभूमिरिव शरशतनिचिता, कचि. भाह-चन्दनमिति । चन्दनं वृक्षो, मृगमदो गन्धधूली तयोः संसर्गाद्यः परिमलस्तं वहतीति सा तथा रु- चिरो योऽगुरुवृक्षस्तथा तिलकवृक्षश्च ताभ्यां भूपिता शोभिता चेति । पक्षे चन्दनं च मृगमदश्च तयोरनुलेपनव- शात्परिमलस्तं वहतीयेवंशीला । रुचिरस्य शोभनस्यागुरोः काकतुण्डस्य तिलकेन पुण्ड्रेण भूषिता शोभिता चेति विग्रहः । सेति । प्रियोत्कण्ठया व जति या नारी सोत्कण्ठिता तद्वदिव । उभयोः सादृश्यमाह-विवि. धेति । विविधा अनेकप्रकारा ये पल्लवास्तेषामनिलो वायुस्तेन वीजिता तथा मदनेन मदनद्रुमेण सहवर्तमाना। संयुक्तेत्यर्थः । पक्ष स ह मदनेन कन्दर्पण वर्तमाना समदना सा । उत्कण्ठिता ख्यपि तथा । बालेति । वालाः स्तनधास्तेषां ग्रीवा कन्धरा तद्वदिव । उभयोरेकधर्मतामाह-यालेति । व्याघ्राः शार्दूला नखाः सुरभि- नखप्राणिनस्तेषां पतिः श्रेणी तया मण्डिता शोभिता तथा गण्डका वाणसास्त एवाभरणं यस्यां सेति । पक्षे व्याघ्रनखपतया मण्डिता। अतएव 'शार्दूलदिव्यनखभूपणभूपिताय नन्दात्मजाय' इति । बालरक्षार्थ व्या. घ्रनखा वध्यन्त इति प्रसिद्धिः । गण्डस्थलपर्यन्तवर्ति यत्तादृशं ग्रीवास्थ भूषणं देशविशेषे गण्डकमिति प्रसिद्ध तदाभरणं यस्यां सा। पानेति । मद्यपानार्थ या भूमिः सा पानभूमिस्तद्वदिव । उभयत्र साम्यमाह-प्रकटि- तेति । प्रकटितमाविष्कृतं यन्मधु माक्षिकं कोशा एव कोशकाः पट्टसूत्रस्थानानि तेषां शतं यस्यां सा । पक्ष प्रकटितं मधु मद्यं तस्य कोशकानि पानपात्राणि तेपां शतं ययेति विग्रहः । प्रकीर्णानि पर्यस्तानि विविधानि विचित्राणि कुसुमानि यस्यामित्युभयत्र समानम् । क्वचिदिति । कचित्तदेशे यदा सर्वं जलमयं तदा प्रलय. स्तस्य वेलावसरस्तद्वदिव । 'वेला बारादवसरः' इति कोशः । उभयोः सादृश्यमाह-महेति । महावराहाः कोडास्तेपां दंष्ट्रा दाढास्ताभिः समुत्खातं सम्यक्प्रकारेण ख नितं धरणिमण्डलं पृथ्वीप्रदेशो यस्याः सा तथा । पक्ष महावराहस्य परमेश्वरतृतीयावताररूपस्य दंष्ट्रया समुत्खातमूर्बमानीतं धरणिमण्डलं यस्यामिति विग्रहः । क्वचिदिति । क्वचित्प्रदेशे दशमुखम्य रावणस्य नगरी लङ्का तद्वदिव । उपत्र साम्यमाह-चटुलेति । चटुलाश्चञ्चला ये वानराः कपयस्तपां वृन्दं समूहस्तेन भज्यमानास्त्रोद्यमानास्तुङ्गा उच्चाः शालाः शाल- वृक्षास्तैराकुला व्याकुला। पक्षे कपिवृन्देन भज्यमानास्तुङ्गा याः शाला गृहैकदेशास्ताभिराकुला व्यप्रेति विग्रहः । क्वचिदिति । क्वचित्प्रदेशेऽचिरं तत्कालं निवृत्तो निष्पन्नो विवाहः पाणिपीडनं यस्यामेवंविधा भूमिस्तद्वदिव । उभयोस्तुल्यतामाह-हरितेति । यथायोग्यमन्वयः । हरिता नीला ये कुशा दर्भाः, समिध एधांसि, कुसुमानि पुष्पाणि, शमी शिवा, पलाशा ब्रह्मपादपास्तैः शोभिता विराजमाना । उद्वाहभू-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति