४०२ कादम्बरी । ववर्णनवाचालेन तेन सुतरामरज्यत राजपुत्रः | विरहातुरहृदयस्य विनोदनतामिवागात् । उपजातपरिचयश्चास्मै ताम्बूलमदापयत् । अस्तमुपगते च भगवति सप्तसप्तौ, आवासितेषु यथासंपन्नपादपतलेषु राजसूनुषु, शाखावसक्ततेपनीय पर्याणेपु क्षितितललुठनपांसुलसटावधू- ननानुमितोत्साहेपु गृहीत कतिपयशष्पकवलेपु पीतोदकेषु स्नानाईपृष्टतया विगतश्रमेषु पुरो- निखातकुन्तयष्टिपु संयतेषु वाजिपु, वाजिसमीपविरचितपर्णप्रेस्तरे च दिवसगमन खिन्न परि- कल्पितयामिके सुपुरसति सैनिकजने, कृतवहुपायकप्रेमापीततमसि दिवस इव विराजमाने सेनानिवेशे चन्द्रापीडः परिजनेनैकदेशे संयतस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहारनि- वेदितं शयनीयमगात् । निषण्णस्य चास्य तत्क्षणमेव पस्पर्श दुःखासिका हृदयम् | अरतिगृ हीतश्च विसर्जयांबभूव राजलोकम् । अतिवल्लभानपि नाललाप पार्श्वस्थान् । निमीलितलोचनो मुहुर्मुहुर्मनसा जगाम किंपुरुपविषयम् | अनन्यचेताः सस्मार हेमैकूटस्य | निष्कारणबा- न्धवतीमचिन्तयन्महाश्वेतापादानाम् । जीवितफलमभिललाप पुनःपुनः कादम्बरीदर्शनम् । आत्मानं समवर्णयद्वर्णितवान् । अतीति । अतीतं व्यतिक्रान्तं यत्स्वकीयं शौर्य पराक्रमः रूपं सौन्दर्यम्, विभव ऐश्वर्य, तेषां वर्णनं तत्र वाचालेन वाचाटेन तेन द्रविडधार्मिकेण राजपुत्रश्चन्द्रापीड: सुतरामतिशयेनारज्यतानुरक्तो वभूव | विरहेति | विरहेणातुरं हृदयं यस्यैवंभूतस्य राज्ञो विनो- दनस्य भावो विनोदनता तामिव सोऽगात् । राज्ञवित्तविश्रान्तिस्थानतां जगामेत्यर्थः । उपेति । उपजातः प्राप्तः परिचयो यस्यैवंविधोऽस्मै द्रविडधार्मिकाय ताम्वूलं नागवल्लीदलमदापयद्दापितवान् । अथ च भगवति सप्तसप्तौ सूर्येऽस्तमुपगते सति चन्द्रापीडः परिजनेन सेवकजनेनैकदेश एकत्रस्थले संयतस्य बद्धस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहारेण निवेदितं ज्ञापितं शयनीयं तल्पमगादित्यन्वयः । केषु सत्सु | राजसूनुषु नृपपुत्रेषु यथासंपन्नाः पुष्पफलरामृद्धा ये पादपा वृक्षास्तेषां तलेण्यावासितेषु वसतिं प्रापितेषु सत्सु | पुनः केषु सत्सु | वाजिषु तुरङ्गमेषु संयतेषु वद्वेषु सत्सु | अथ वाजिविशेषणानि -- शाखेति । शाखायामवसक्ता- न्यवलम्बितानि तपनीयस्य सुवर्णस्य पर्याणानि पत्ययनानि येषां तेषु | क्षितीति । क्षितितलं पृथ्वीतलं तत्र कुठनेन पांसुला याः सटा: केशसंहतग्रस्तासामवधूननेन कम्पनेनानुमित उत्साही येषां तेषु । गृहीतेति । गृहीताः कतिपयाः कियन्तः शप्पकवला वालतृणम्रासायैस्तेषु | पीतान्युदकानि यैस्तेषु । स्नानेति । स्नानेनार्द्र पृष्ठं येषां तेषां भावस्तत्ता तथा विगतो दूरीभूतः श्रमो येषां तेषु । पुर इति । पुरोनिखाता अग्रे स्थापिता: कुन्तयष्टयो येषां तेषु । पुनः कस्मिन्सति | वाजिसमीपेऽश्वसविधे विरचितः कल्पितः पर्णानां पत्राणां प्रस्तरः
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४००
एतत् पृष्ठम् अपरिष्कृतम् अस्ति