पूर्वभागः । ४०५ , । । खाम् । मेघनादं च प्रणतं पृष्ठे कर किसलयेन पस्पर्श । समुपविष्टाब्रवीत् - 'पत्रलेखे, क- थय तत्रभवत्या महाश्वेतायाः समदलेखाया देव्याः कादम्बर्याश्च कुशलम् | कुशली वा सक- लस्त मालिका केयूरकादिपरिजनः' इति । साब्रवीत्— 'देव, यथाज्ञशपयसि भद्रम् | त्वामर्च- यति शेखरीकृताञ्जलिना ससखीजना सपरिजना देवी कादम्बरी' इति । एवमुक्तवतीं पत्र- लेखामादाय मन्दिराभ्यन्तरं विसर्जितराजलोको विवेश | तत्र चोत्ताम्यता मनसा धारयि- तुमपारयन्कुतूहलमतिप्रीत्या दूरमुत्सारितपरिजन : प्रविरैयागारमचिरत्ररूढाया: स्थलकम- लिन्याः पृथुमिरुन्नालैः पलाशैर्विरंचितात पत्रकृत्याया अध्यास्य मध्यभागमन्यतरस्य मरकत- पताकायमानस्य पत्रमण्डपस्य तले चरणारविन्देन समुत्सार्य सुखप्रसुप्तं हंसमिथुनमुपवि- श्याप्राक्षीत् – 'पत्रलेखे, कॅथय कथमसि स्थिता । कियन्ति वा दिनानि । कीदृशो वा देवीप्रसादः । का वा गोष्ठयः समभवन् । कीदृश्यो वा कथा: समजायन्त । ' को वातिशये- नास्मान्स्मरति । कस्य वा गैरीयसि प्रीतिः' इति । एवं पृष्टा च व्यजिज्ञपत् - 'देव, दत्तावधानेन श्रूयताम्, यथा स्थितास्मि, यावन्ति वा दिनानि, यादृशो वा देवीप्रसादः, यथा वा गोष्ठयः समभ- वन्, यादृश्यश्च कथाः समजायन्त ।' ततः खल्वागते देवे केयूरकेण सह प्रतिनिवृत्याहं तथैव कु- - १० १२ 2 समुपविष्टश्चेत्यब्रवीदित्यवोचत् । इतिशब्दद्योत्यमाह - पत्र लेखे इति । हे पत्रलेखे, कथय निवेदय तत्रभवत्यः पूज्याया महाश्वेताया मदलेखया सहवर्तमानाया देव्याः कादम्बर्याच कुशलं वर्तते । कुशली वा सकलः समस्त- स्तमालिका केयूरकादिपरिजनः | साब्रवीदवोचत् । हे देव, यथाज्ञापयस्याज्ञां करोषि तथा भद्रं कुशलं वर्तते । शेखरीकृतो योऽञ्जलिस्तेन कृत्वा ससखीजना सवयस्या सपरिजना सपरिच्छदा च देवी कादम्बरी त्वां भवन्त - मर्चयति पूजयति । इत्येवमुक्तवतीं कथितवतीं पत्रलेखामादाय गृहीत्वा | विसर्जितेति । विसर्जितो राजलोको येनैवंभूतो मन्दिराभ्यन्तरं विवेश प्रविष्टवान् | तत्र चेति । तस्मिन्नेव स्थल उत्ताम्यता विरहेणोत्तपता मनसा चेतसा कुतूहलमाश्चर्य धारयितुं सम्यक्तया ज्ञातुमपारयन्नशक्लवन्, अतिप्रीत्या तिस्त्रेहेन दूरमुत्सारितो वि- सर्जितः परिजनो येनैवंभूतोऽगारं गृहं प्रविश्य प्रवेशं कृत्वा पृथुभिर्विस्तीर्णैरुन्नालैः पलाशैः पत्रैर्विरचितं वि- हितमातपकृत्यं छत्रकार्यं ययैवंविधायाः स्थलकमलिन्या मध्यभागमध्यास्याश्रित्यान्यतरस्य पूर्वोक्तस्य भिन्नस्य मरकतस्याश्म गर्भस्य या पताका वैजयन्ती तद्वदाचरमाणस्य पत्रमण्डपस्य तले सुखप्रसुप्तं हंस मिथुनं चरणारवि- न्देन समुत्सार्य दूरीकृत्य तत्रोपविश्याप्राक्षीत्प्रश्नमकार्षीत् । हे पत्रलेखे, कथय प्रतिपादय । कथं केन प्रकारेण स्थितासि | कियन्ति वा दिनानि वासराणि | स्थितेति शेषः । कीदृशः, पूर्वस्मादधिको न्यूनो वा देव्याः कादम्बर्याः प्रसादः प्रसन्नता | का वा गोठ्योऽन्योन्यसंलापाः समभवन्संजाताः । कीदृश्यो वा कथाः सखीनां वार्ताः समजायन्त समभवन् । को वातिशयेन वाहुल्येनास्मान्स्मरति स्मरणविषयीकरोति । कस्य वा ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति