पूर्वभागः । पुरेण चरणारविन्देन विसर्जयन्ती, कर्णोत्पलमधुकरानपि स्विंद्यद्वदन व्यंजनी कृतेनांशुक्रपल्लवे- नोत्सारयन्ती, ताम्बूलवीटिकाशकलमुत्कोचमिव दन्तखण्डितं शिखण्डिने ददती, वैनदेव- ताश्रवणशङ्कितेय मुहुर्मुहुरितस्ततो विलोकयन्ती, वक्तुकामापि न शक्नोति स्म किंचिदपि लैजाकलितगद्गदा गदितुं प्रयत्नतोऽपि च सा निःशेषम् | ज्वलता मदनानलेनेव दग्धा, अजस्रं प्रवहता नयनोदकेनेवोढा, प्रविशद्भिर्दुः खैरवाकान्ता पतद्भिः कुसुमचापशरैरिव शकलीकृता, निष्पतद्भिः श्वसितैरिव निर्वासिता, हृदयवर्तिभिश्चिन्ताशतैरिव विधृता, नि:- श्वासपायिभिर्मधुकरकुलैरिव निपीता न प्रावर्तत वाणी | केवलं दुःखसहस्रगणनाय मुक्ता- क्षमालिकामिव कल्पयन्ती गलद्भिरस्पृष्टकपोलस्थलैः शुचिभिरधोमुखी नयनजलबिन्दुभि- र्दुर्दिनमदर्शयत् । तदा च तस्याः सकाशादशिक्षतेव लैजापि लजालीलाम्, विनयोऽपि विनयातिशयम्, मुग्धतापि मुग्धताम्, वैदग्ध्यमपि वैदग्ध्यम्, भयमपि भीरुताम्, विभ्र- , ४०७ घेणं तेन मुखरितं वाचालं नूपुरं यस्यैवंभूतेन चरणारविन्देन भवनकलहंसानपि गृहकदम्बानपि विसर्जयन्ती मानसगमनायाज्ञां प्रयच्छन्ती | विरहवशात्सचिन्तायाः स्त्रियोऽङ्गुष्टेन भूमिकर्षणं स्त्रीजातिस्वभावः । विसर्जय- न्तीत्यनेन हंसापेक्षयापि गत्या शब्देन च चरणारविन्दस्याधिक्यमिति व्यज्यते । कर्णेति । विद्यत्स्वेदं प्राप्नुव- यद्वदनं मुखं तत्र व्यजनीकृतो योऽशुकपल्लवस्तेन कर्णोत्पलमधुकरानप्युत्सारयन्ती दूरीकुर्वन्ती । अनेन कर्णे- त्पले सौगन्ध्यातिशयो द्योत्यते । ताम्बूलेति । ताम्बूलस्य नागवल्लीदलस्य वीटिका प्रसिद्धा तस्याः शकलं खण्डं दन्तखण्डितं रदनचर्वितमुत्को चमिव लज्जामिव शिखण्डिने कलापिने ददती प्रदानं कुर्वती | वनेति । वनस्यारण्यस्य देवताधिष्ठात्री तथा श्रवणमाकर्णनं तेन शङ्कितेवेतस्ततश्चतुर्दिक्षु मुहुर्मुहुर्वारंवारं विलोकयन्ती पश्यन्ती | ज्वलतेति । दीप्तिमता मदनरूपोऽनलो वहिस्तेन दग्धेव ज्वलितेव | अजस्रं निरन्तरं प्रवहता चलता·नयनोदकेन नेत्राम्भसोढेव वाहितेव । प्रविशद्भिरिति । प्रविशद्भिः प्रवेशं कुर्वद्भिः | हृदय इति शेषः । एवंविधैर्दुःखैरसुखैराक्रान्तेव व्याप्तेव | पतद्भिरिवोपरिपतनं कुर्वद्भिः कुसुमचापः कन्दर्पस्तस्य शरैर्बाणैः शकली- कृतेच खण्डीकृतेव । निष्पतद्भिरिति । निष्पतद्भिर्बहिर्निर्गच्छद्भिः श्वसितैः श्वासैर्निर्वासितेव हृदयाहूरीकृ- तेव | हृदयेति । हृदयवर्तिभिश्चिन्ताशतैर्विवृतेव रक्षितेव | निःश्वासेति । निःश्वासं वदनानिलं पिव- न्तीत्येवंशीला निःश्वासपायिनस्तै रेवंभूतैर्मधुकर कुलैमरसमूहैर्निपीतेव पानविषयीकृतेव । अतोऽस्या वाणी वाङ् न ग्रावर्तत न प्रवृत्ता बभूव केवलं साधोमुख्यवाङ्मुखी दुःखानां सहस्रं तद्गणनाय पृथक्संख्यां कर्तुम् । शुचि त्ववर्तुलत्वसाम्यादाह — मुक्तेति । मुक्ताया अक्षमालिकां जपमालामिव कल्पयन्ती रचयन्ती | गलद्भिः सवद्भि- रस्पृष्टमस्पर्शितं कपोलस्थलं अधोमुखाल्लात्परप्रदेशो यैरेवंविधैः शुचिभिर्नयनजलबिन्दुभिः कृत्वा दुर्दिनं मेघजं तमोऽदर्शयद्दर्शितवती । मया पृष्टा केवलं रुदनमेव चक्रे इति भावः । तदा चेति । तस्मिन्काले तस्याः कादम्बर्याः सकाशात्समीपालजापि त्रपापि लजाया लीला स्वभावः संकोचरूपस्तामशिक्षत शिक्षितवती । ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति