उत्तरभागः । ४२५ । धावपि केनचिदविभाव्यमानः सिद्ध इव सर्वदा मे ददाति दर्शनम् | अपि चासाविव नाय - मकाण्डपरित्यागनिष्ठुरहृदयः । अयमेवास्माद्विरहकातरः । नायं नक्तंदिवं लक्ष्म्या समाकु- लः । न पृथिव्याः पतिः । न सरस्वती मपेक्षते । न कीर्तिशब्दं वर्धयति । पश्यामि चाहर्नि- शमासीनोत्थिता भ्राम्यन्ती शयाना जामती निमीलितलोचना चलन्ती स्वप्नायमाना शेयने श्रीमण्डपे गृहकमलिनीषूद्यानेषु लीलादीर्घिकासु क्रीडापर्वतके बालगिरिनदिकासु च यथा त- मज्ञजनविडम्बनैकहेतुं विप्रलम्भकं कुमारं ते तथा कथितमेव मया । तदलमनया तदानयन- कथया' इँत्यभिद्धानातर्कितागतमूर्च्छव निमीलिताक्षी पक्ष्माग्रसंपिण्डितनयनजलवर्षिणी वि- लीयमानेवोत्पीड्यमानेवान्तर्जातमन्युवेगेन तथैव वेदिकाविताननाभिदामांशुकावलम्बियां बाहुलतिकायामच्छर्स लिलप्रसूतायां मृणालिकायामिव जेलाइतिश्या मारुणतामरस मिवानन- मुंपावेश्य तूष्णीमुत्कीर्णेव तस्थौ । । परित्यागो मोचनं तस्मिन्निष्ठुरं निर्दयं हृदयं यस्यैवंभूतो न । अयमेव संकल्पकुमार एवास्माकं विरहे वियोगे कातरो भीरुः । एतदर्थमन्यासक्तिप्रतिषेधद्वारा स्पष्टीकुर्वन्नाह - नायमिति । अयं पूर्वोक्तो नक्तंदिवमहर्निशं लक्ष्म्या रमया समाकुलो व्याकुलीभूतो न । तथा पृथिव्या वसुंधरायाः पतिः सामी न । तथा सरस्वतीं वाणीं नापेक्षते नेहते । तथा कीर्तिशब्दं यशोवादं न वर्धयति न वृद्धिं नयति । सर्वदा तत्स्वरूपमहं पश्यामीत्याश- येनाह – पश्यामीति । यथा येन प्रकारेण तं चन्द्रापीडाभिधमज्ञजनो मूर्खजनस्तस्य विडम्बनायां विरहा- दिरूपाया मेकम द्वितीयं हेतुं कारणं विप्रलम्भकं वञ्चकं कुमारमहं कादम्बर्यासीनोपविष्टा, उत्थितोवभूता, भ्राम्यन्तीततस्ततः पर्यटन्ती | विरहादिति शेषः । शयाना स्वापं कुर्वाणा, जाग्रत्यशयाना, , निमीलितलोचना मु- द्वितनयना, चलन्ती स्वेच्छया गच्छन्ती, स्वप्नायमाना स्वप्नं पश्यन्ती, शयने शय्यायाम, श्रीमण्डपे श्रियोपल- क्षितजनाश्रये, गृहकमलिनीषु सदनपद्मिनीषु, उद्यानेषूपवनेषु, लीलादीर्घिकासु क्रीडावापीषु, क्रीडापर्वत क्रीडाशैले, बालगिरिः क्रीडार्थ निर्मितः शैलस्तस्य नदिकासु स्वल्पतटिनीषु चाहर्निश महोरात्रं पश्याम्यवलो- कयामि । तथा तेन प्रकारेण मया कादम्बर्या कथितमेव पूर्वं निवेदितमेव । तदिति पूर्वोक्तहेतोरनया मानसि- कप्रत्यक्षया । 'इदमः प्रत्यक्षगतम्' इत्युक्तेः । तस्य कुमारस्यानयनम् | उज्जयिन्या मत्समीपानयनमित्यर्थः । तस्य कथा वार्ता तथा अलं भृतम् । इत्यभिदधानेति जल्पन्त्यतर्किता संभाविता मूर्च्छा मोहो यस्याः सेव । सहसा प्राप्तमूर्च्छवेत्यर्थः । निमीलिते मुद्रिते अक्षिणी लोचने यया सात एव पक्ष्मणां नेत्ररोग्णामधूपरि- भागेषु संपिण्डितं पिण्डीभूतं यन्नयन योर्जलं तद्वर्षतीत्येवंशीला । तथान्तर्मध्ये जातो मिथ्या किं जीवितेने- त्यादिप्रभवो यो मभ्युवेगः क्रोधरयस्तेन विलीयमानेव द्रुततां गच्छन्तीवोत्पीड्यमानेवोत्प्रावल्येन पीडां प्राप्यमाणेव तथैव तथावस्थैव वेदिका बद्धभूमिस्तस्या वितानमुलोचस्तस्य नाभिर्मध्य प्रदेशस्तत्र यद्दाम तन्निष्ठं यदशकं हस्तक्षत निवारणार्थं वस्त्रं निवघ्नन्तीति सार्वत्रिकी प्रसिद्धिस्तदवलम्बत इत्येवंशीलायां वाहुलतिकायां
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति