उत्तरभागः । ४२७ अत्रान्तरे चागत्य स्वं स्वं नियोगमशून्यं कुर्वाणा दूरतो दीपिकाधारिण्यो गन्धतै लावसिक्तसु- रभिकगन्धोद्गारिणीभिर्दीपिकाभिर्विरचितचक्रवालिका बालिका : पर्यवारयन् । अथ निर्मल- लावण्यलक्षितानि दीपिकाप्रतिबिम्बानि ज्वैलितानि मदनसयकस्य शल्यकानीवाङ्गलग्नानि समुद्रहन्तीं नवनिरन्तर कलिकाचितां चम्पकलतामिव तथास्थितां तां पुनर्व्यजिज्ञपम्-'देवि, प्रसीद । नार्हस्यस्वेदार्हा हृदयखेदकारिणं संतापमङ्गीकर्तुम् | संहर मन्युवेगम् । एषामादाय चन्द्रापीडमागतैव' इति । अथानेन देवनामग्रहणगर्भेण मद्वचसा विषापहरणमत्रेण चिपमू- च्छितेव झटिव्युन्मील्य नयने सस्पृहं मामवलोक्य 'कः प्रदेशेऽस्मिन्' इति परिजनमपृच्छत् । अथ धवलवसनोल्लासितगात्रयष्टयः, द्वारप्रदेशसंपिण्डिताङ्ग्य:, परशुरामशरचिवर विनिर्ग- ता इव राजहंस पयः, कलहंसकलालापमधुररवैः प्रतिवाचमित्र प्रयच्छद्भिर्नूपुरैः पतत्कर्णपू प्रदोषो यामिनीमुखं चन्द्रं शशिनं मणेः शिलातलं मणिशिलातलं तल्पं शय्याम कल्पयदरचयत् । अत्रान्तर एवं- विधसमये दूरतोदीपिका'धारिण्यो बालिका आगत्य पर्यवारयन्दूरीचक्रुः | अन्धकारमिति शेषः | एकीबभूवु- रिति वा । किं कुर्वन्त्यः । निरन्तरं दीपिकाः कर्तव्या इति स्वं स्वं स्वकीयं स्वकीयं नियोगमादेशमशून्यमवन्ध्यं कुर्वाणा विदधानाः । किंविशिष्टाः | विरचितेति | विरचिता निष्पादिताचक्रवालिका मण्डलं याभिस्ताः । काभिः । दीपिकाभिः ‘दीवी' इति जनप्रसिद्धाभिः । दीपिकाभिः कीदृशीभिः । गन्धतैलं सुगन्धस्नेहस्तेनावसिक्ताः सिञ्चिताः सुरभिगन्धमुद्गिरन्तीत्येवंशीलाभिः । अथेति । दीपिकानमनानन्तरमहं ताम् | पत्रलेखामिति शेषः । पुनर्व्यजिज्ञपं विज्ञप्तिमकार्षम् । कीदृशीं ताम्। समुद्वहन्तीं धारयन्तीम् | कानि | दीपिकानां प्रतिबिम्वानि प्रतिच्छा. यरूपाणि प्रतिबिम्बानि । कीदृशानि | निर्मलं स्वच्छं यल्लावण्यं लवणिमा तेन लक्षितानि ज्ञातानि । अतिसुन्दरला वण्ये प्रतिविम्वितानीत्यर्थः । 'मुक्ताफलस्य छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदषु तल्लावण्य मिहोच्यते ॥' उत्प्रेक्षते – मदनसायकस्य कामबाणस्य ज्वलितानि घुषितान्यङ्गलग्नानि शल्यकानीवानिःसृताग्राणि बाणानीव । पुनः कीदृशीं ताम् | चम्पकस्य हेमपुष्पकस्य लतामिव शाखामिव तथास्थिताम् | चम्पकलतां कीदृशीम् । नवाः प्रत्यमा निरन्तरा व्यवधानरहिता याः कलिकाः कोरकास्ताभिश्चितां व्याप्ताम् । अत्र सरलवसादृश्याच्छरीरस्य चम्पकलतोपमानम् । दीपिका प्रतिबिम्बानां कोरकाकृतित्वेन कलिकोपमानम् । कां विज्ञप्तिं कृतवतीलाशयेना- ह - देवीति । हे देवि कादम्बरि, त्वं प्रसीद प्रसन्ना भव | तथा खेदाभावोऽखेदस्तस्मै अर्हां योग्या त्वं हृदये स्वा न्ते खेदं करोतीत्येवंशीलं संतापमङ्गीकर्तुं स्वीकर्तुं नार्हसि न योग्या भवसि । तथा मन्युः क्रोधस्तस्य वेगं रयं संहर त्यज | कोपवृद्धि मा कुर्वित्यर्थः । एषाहं पत्रलेखाख्या सखी चन्द्रापीडमादाय गृहीत्वागतैव । अथेति । तच्छ्रवणानन्तरं विषमूच्छिता विपापहरणमन्त्रेणेव । अनेन देवनाम भवन्नाम ग्रहणं गर्भे यस्मिन्नेवंविधेन मम पत्रलेखाथा वचसा वाक्येन झटिति शीघ्रं नयने नेत्रे उन्मील्योद्घाट्य सस्पृहं स्पृहायुक्तं यथा स्यात्तथा मां पत्र- लेखामवलोक्य निरीक्ष्येति परिजनं सेवकलोकमपृच्छत् पप्रच्छ । इतीति किम् । अस्मिन्नासन्न प्रदेशे समीपस्थले
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति