उत्तरभागः । ४३१ मे तत्क्षणमेव कण्ठे कारयन्त्या किमिव नावेदितम् | अपि च हिमगृहकवृत्तान्तस्तु तवापि प्र- त्यक्ष एव । तत्किमत्र प्रणयकोपाक्षिप्तयाप्यन्यथा व्याहृतं देव्या | सर्व एवायं विपर्ययान्मम दोपः । तदधुना प्राणैरप्युँपयुज्यमानस्तथा करोमि यथा नेहशमेकान्तनिरहृदयं जानाति मां देवी' इत्येवं वदत्येव चन्द्रापीडेऽश्रावितैव प्रविश्य वेवहस्ता प्रतीहारी कृतप्रणामा व्यज्ञापय- त्— 'युवराज, एवं समादिशति देवी विलासवती, कृतजल्पात्परीजनतः श्रुतं मया, यथा किल पृष्ठतः स्थिताद्य पत्रलेखाल पुनः परागता' इति । 'न च मे त्वथ्यस्यां च कश्चिदपि स्नेहस्य विशेषो विलसतीति मयैवेयं संवर्धिता | अपि च तवापि कापि महती वेला वर्तते दृष्टस्य | तद्नया सहित एवागच्छ । मनोरथशतलव्धमतिदुर्लभं ते मुखकमलॉवलोकनम्' इति । चन्द्रापीडस्तु तदाकर्ण्य चेतस्यकरोत् - 'अहो संदेहदोलाधिरूढं मे जीवितम् । एवमम्बा निमेषमपि मामपश्यन्ती दुःखमास्ते । पत्रलेखामुखेन चैवमाज्ञापितमागमनाय मे निष्कारण- प्रदर्शयन्नाह - चिरेति । चिरं चिरकालमनुभूतः प्राप्तो य आत्मनः स्वस्य । अर्थात्कादम्बर्याः | कण्ठसंसर्गो निगरणसंपर्कस्तेन सुभगं मनोहरमिमं प्रत्यगक्षतं हारं मुक्ताप्रालम्बं तत्क्षणमेव तस्मिन्समय एवाकृतमविहितं पुण्यं सुकृतं येनैवंविधस्य मे मम कण्ठे गले कारयन्त्या प्रक्षेपयन्त्या सखिद्वारेति शेषः । किमिव नावेदितं किं न ज्ञापितम् । अहं त्वदर्थिनीति तदेव ज्ञापितमिति भावः | अपि चेति । अपि च प्रकारान्तरे | हिमगृहकस्य नीहारवच्छीतलसझनो वृत्तान्त उदन्तस्तवापि भवत्या अपि प्रत्यक्ष एव विदित एव । न केवलं ममैवेति भावः । तदिति हेत्वर्थे । अत्रेति । अस्मिञ्जने प्रणयः स्नेहस्तेन तस्माद्वा यः कोपः क्रोधस्तेनाक्षिप्तया प्रेरितया देव्या कादम्वर्या किमन्यथा व्याहृतम् । तदलमनया तदानयनकथयेत्यात्मकमित्यर्थः । सर्व इति । अयं सर्व एव सम एव विपर्ययादज्ञानान्मम दोषो वैगुण्यम्, न तु तत्त्वतः । तदिति । तत्तस्माद्धेतोरघुनाहं तथा करोमि रचयामि यथा देवी कादम्बरीदृशमेकान्तेनातिशयेन निष्ठुरं कठिनं हृदयं चेतो यस्यैवंविधं मां न जानाति । किं कुर्वाणः । प्राणैरप्युपयुज्यमानस्तदीप्सितं कुर्वाणः । इत्येवं चन्द्रापीडे वदत्येव कथयत्येव प्रतीहारी द्वारपालिका कृतः प्र- णामो ययैवंभूता मातृपरिजनत्वेन कुमारप्रतीहार्या श्रावितैवानिवेदितैव प्रविश्य प्रवेशं कृत्वा व्यज्ञापयद्विज्ञप्तिमका- पत् । कीदृशी । वेत्रं हस्ते यस्याः सा | हे युवराज, देवी विलासवत्येवं समादिशत्याज्ञापयति । एवं किमित्याह -- कृतेति । कृतो विहितो जल्पोऽन्योन्यालापो येनैवं विधात्परिजनतः सेवकवर्गान्मयेति श्रुतमित्याकर्णितम् | इ- तीति किम् । तदेव दर्शयति - यथेति । किलेति सत्ये | पृष्ठ इति पृष्ठतः । तस्प्रत्ययस्य सार्वविभक्तिकत्वात् । स्थिता विलम्बिता पत्रलेखाद्यास्मिन्नहन्यत्रास्मिन्प्रदेशे पुनः परागता प्रत्यावृत्य समागता । पुनः किं समादिश तीत्याह – न चेति । मे मम त्वयि भवत्यस्यां पत्रलेखायां चेति हेतोः स्नेहस्य प्रेम्णः कश्चिदपि विशेषो न विल- सति । न वर्तत इत्यर्थः । इतीति किम् । यत इयं पत्रलेखा गयैव संवर्धिता वृद्धिं प्रापिता । एतेनोभयोरपि म यैव प्रवर्धनात्त्वयि तस्यां च मम स्नेहः समान एवास्तीति ध्वन्यते । पुनः किं समादिशतीत्याह – अपि चेति । अपि च प्रकारान्तरे । तवापि भवतोऽपि दृष्टस्यावलोकितस्य कापि महती गुर्वी वेला कालविशेषो वर्तते । त
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४२८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति