पालभमान इप दिवसमुत्तरलतार्यान्तर्वाप्पया दृष्ट्या कुसुम चापम्, पुनः स्मरशरप्रहारमूच्छि- तां संज्ञामिव लम्भयितुं तामवयवैरुवाह स्वेदजललेवानुत्ससर्ज च दीर्घदीर्घान्निःश्वासमारुता- न्। तच्चेतनालम्भमुदित इव च सर्वाङ्गीणं क्षणमपि न मुमोच रोमाञ्चम् | सह्यते हैंदन वे- दना न वेति तद्वार्ता प्रष्टुमिव नियुक्तेन मनसा शून्यतामधार्षीत् । तत्प्रतिवातकर्णनायैव च गृहीत मौनः सर्वदेवातिष्ठत् । तदान नालोकनान्तरितमिव सर्वमेव नाद्राक्षीत् | चन्द्रबिम्बेऽपि नस्य दृष्टिररमत | तदालॉपपूरितश्रोत्रेन्द्रिय इव न किंचिदैपरमन्तःकर्णं कृतवान् | वीणाध्व- नयोऽप्यस्य बहिरेवासन् | सुभाषितान्यपि न प्रवेशमलभन्त | सुहृद्वाचोऽपि परुषा इवाभव- न् । बान्धवजनजल्पितान्यपि नासुखायन्त | भावावगमभीत्येव यथापूर्वी न कस्यचिद्दर्शनम- दात् । अनवरतमुक्तज्वालेन मदनहुतभुजान्तर्दा मानोऽपि गुरुजनत्रपया न सद्यः समुद्धृता- । - - पुष्पं तद्वत्कोमला सुकुमाराया तनुः शरीरं तस्यां निर्घृणं निष्कृपमेवममुना प्रकारेण । दिवसमित्युपलक्षणमहो- रात्रस्य । तेनाहोरात्रं प्रहरंस्ताडयन्न लज्जसे न त्रपां प्राप्नोषि । उत्प्राबल्येन तरला चञ्चला तारा कनीनिका यस्यां सा तया । अन्तर्मध्ये बाष्पोऽश्रु यस्यामेवंविधया दृष्टया नेत्रेण कुसुमचापं कंदर्पमित्युपालभमान इवोपालम्भं ददान इव । एतेनात्यन्तदैन्यमाविष्कृतम् | स्वेदो घर्मस्तदेव जुलं तस्य लवा विशुषस्तानवयवैरुपनैरुवाहाव- हत् | च पुनरर्थे । अतिशयेन दीर्घा दीर्घदीर्घास्ता नेवंभूतान्निःश्वासमारुतानुत्ससर्जोन्मुमोच । किं कर्तुम् । उत्प्रेक्षते – पुनर्वारंवारं स्मरस्य शरा बाणास्तैः प्रहारताडनं तेन मूच्छितां मोहप्राप्तां तां कादम्बरी संज्ञां चेतनां लम्भयितुमिव प्रापयितुमिव | यथान्यः कञ्चिन्मूच्छितस्य स्वेदजललववत्स्वल्पजलं निःश्वाससमानमारु- तांश्च मुञ्चतीति वस्तुगतिः । स चन्द्रापीडः सर्वाङ्गे भवः सर्वाङ्गीणस्तं रोमाञ्चं रोगोद्गमं क्षणमपि न मुमोच | क्षणमात्रं तद्विरहितो नाभूदित्यर्थः । उत्प्रेक्षते - तस्याः कादम्बर्याश्चेतना चैतन्यं तस्या आलम्भः प्राप्तिस्तेन मुदित इव हर्षित इव | सह्यत इति । स मनसा शून्यतामधाद्वार | किंलक्षणेन मनसा | तस्यै काद- म्वयँ इति वार्ता प्रष्टुं नियुक्तेनेव प्रेषितेनेव | इतीति किम् | हृदयेन वेदना पीडा सह्यते न वेति । तदिति । गृहीतं मौनमभाषणं येनैवंविधः सर्वदा निरन्तरमतिष्ठदस्यात् । उत्प्रेक्षते - तस्याः कादम्बर्याः प्रतिवार्ता प्रत्युत्तरं तस्या आकर्णनायैव । श्रवणायैवेत्यर्थः । तदाननेति । स सर्वमेव नाद्राक्षीन्नापश्यत् । किंलक्षणं सर्वम् । उत्प्रेक्षते — तस्या आननं मुखं तस्यालोकनं वीक्षणं तेनान्तरितमिव व्यवहितमिव । चन्द्रबिम्ब इति । चन्द्र- विम्बेऽपि शशिमण्डलेऽप्यस्य चन्द्रापीडस्य दृष्टिश्चक्षुर्नारमत न चिरमस्थात् | विरहोत्कर्षे तापकारित्वात् । त दालापेति । स चन्द्रापीड : किंचिदप्यपरं शब्दजातं कर्णस्यान्तरन्तःकर्ण न कृतवान् | द्विकर्मकोऽयं धातुः | उत्प्रेक्षते–तस्याः कादम्वर्या आलापस्तेन पूरितं भृतं श्रोत्रेन्द्रियं यस्यैवं विध इव । कर्णानां करणत्वं दर्शयन्नाह - वीणेति । वीणानां वलकीनां ध्वनयः शब्दा अस्य चन्द्रापीडस्य बहिरेव बाह्यभूता एवासन्नभूवन् । सुभाषि- तानीति | सुभाषितानि समीचीनोक्तयस्तान्यपि प्रवेशं मध्यगमनावकाशं नालभन्त न प्राप्नुवन् | सुहृदिति । सुहृदां मित्राणां वाचो वाण्योऽपि परुषा इव कठिना इवाभवन् । बान्धवेति । बान्धवजनस्य बन्धुलोकस्य ज ल्पितान्यपि कथितान्यपि नासुखायन्त | सुखमिवाचरन्ते सुखायन्ते । अद्यतन्यामात्मनेपदेऽसुखायन्त इति
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति