उत्तरभागः । द्रौरविन्दशयनमभजत । न सरसबिसलताजालकानि गात्रेष्वकरोत् । न जललवमौक्तिकक्षो- दतार कितान्यंजरठपद्मिनीपत्राणि पार्श्वेऽप्यकारयत् । न कुसुमपल्लवस्रस्तररचनामादिदेश | नावरतधौरापातोल्लसितशिशिरसीकराबद्धदुर्दिनं ददर्शापि धारागृहम् । न मैकरन्दुसंततसं- पातशीतलाभ्यन्तराणि हयद्यानलताभवनान्यप्यसेवत, न मलयजजललितपृष्ठेषु मणिकु- ट्टिमेष्वप्यलुठविच्छया । न तुहिनकरकर निकरसंक्रान्ति हृद्येषु ललनाकर कलितचन्द्रकान्तम- णिदर्पणेष्वव्यसंक्रामयदात्मसंपातम् । किं बहुना नाश्यानहरिचन्दनरसचर्चामप्या चरणा- ४३५ ददापयत् । एवमेव केवलं रात्रौ दिया चाकृतनिर्वृतिरा ज्वलताप्यदनात्मकेन दहताप्यक्षतस्नेहेन्धने- नदुःखानुभवनायैव भस्मसादकुर्वता मदनदह नेनान्तर्बहिश्च काथ्यमानदेहः शोषमगात्, आ- र्द्रतां पुनः प्रतिक्षणाधीयमानवृद्धिं नात्याक्षीत् । एवं च निष्प्रतिक्रियतया दुस्त्यजतया वातिवि- वंभूतेनेत्यर्थः । नेति । सरसानि जलार्द्राणि बिसानि मृणालानि तेषां लता वल्लयस्तेषां जालकानि समूहा गात्रे- वङ्गेषु नाकरोन्नान्वतिष्ठत् । पूर्वोक्तहेतोरेवेति भावः । नेति । जललवा अम्भोविन्दवस्त एव मौक्तिकक्षोदास्तै- स्तार कितानि तारावदाचरितानि यान्यजरठानि कोमलानि पद्मिनीपत्राणि नलिनीदलान्यपि | व्यस्तकमोऽत्रापि- शब्दः । पार्श्व पृष्ठे नाकारयत् । सेवकैरिति शेषः | नेति । कुसुमानां पढ़वाः प्रत्यप्रदलानि, कुसुमानि च पल्लवा- श्वेति द्वन्द्वसमासो वा, तेषां सस्तरस्तस्य रचनां नादिदेश नादिष्टवान् | नेति । स चन्द्रापीडो धारागृहमपि न ददर्श नाद्राक्षीत् । किंलक्षणं धारागृहम् | अनवरतं निरन्तरं धारापातेनोल्लसिता ये शिशिराः शीतलाः सीकरा वातास्तजलविप्रुषस्तैराबद्धं दुर्दिनं मेघजं तमो यस्मिंस्तत्तथा । नेति । स चन्द्रापीडो हर्म्येषु गृहेषु यदुधानं तस्य लता वल्लयस्ता एव भवनानि गृहाण्यपि नासेवत नाभजत | किंलक्षणानि | मकरन्दस्य मरन्दस्य संततं निरन्तरं संपातः संपतनं तेन शीतलानि शिशिराण्यभ्यन्तराणि मध्यभागा येषां तानि । न मलयजेति 1 स मणीनां कुट्टिमानि बद्धभूमिकानि । 'कुट्टिमं त्वस्य बद्धभूः' इति हैमः | तेष्वपीच्छयेहया नालुठन्नाशेरत | किंलक्षणेषु । मलयजस्य चन्दनस्य जलं पानीयं तेन लुलितान्या कृतानि पृष्ठानि येषां तेषु । नेति । स ललनानां योषितां करास्तैः कलिता धृता ये चन्द्रकान्तमणिभिः खचिता दर्पणा आदर्शास्तेष्वप्यात्मनः स्वस्य संपातं प्रतिविम्वं न संक्रामयन्न संक्रमणमकारयत् । किंलक्षणेषु | तुहिनकरश्चन्द्रस्तस्य करनिकरः किरणसमूह- स्तस्य संक्रान्तिः संक्रमस्तया हृया मनोहरास्तेषु । किं बहुनेति । किं बहुना किं बहु जल्पितेन । चरणौ मर्यादीकृत्याचरणं तस्मादाश्यानमीषच्छुकं यद्धरिचन्दनं तस्य रसस्तेन चर्चा पूजा तामपि नादापयद्दातुं न प्रेरयति स्म । एवमिति । स चन्द्रापीडो मदन एव दहनो वह्निस्तेनान्तर्हदये बहिरवयवादौ काथ्यमान उत्काल्यमानो देहः विश्वः पर्व दिवा
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति