पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । संस्थुलेनोपास्यमानोऽपि मनसिजेनाकारमेव लोकलोचनेभ्योऽरक्षत्, न कुसुमशरसायकेभ्यो जीवितम् । तनोरेव तानवमङ्गीचकार, न लज्जायाः । शरीरस्थितावेवानादरं कृतवान्, न कुल- स्थितौ । प्रजा एवन्वरुध्यत, न मन्मथोत्कलिकाः । सुखमेवावधीरयामास, न धैर्यम् । एवं चास्य पुरः कादम्बरीरूपगुणावष्टम्भाहितप्राणेन बलवतानुरागेणाकृष्यमाणस्य, पश्चाद्गुरुजनप्र- तिबन्धदृढतरेण महीयसा स्नेहेन च वायमाणस्य, गॅम्भीरप्रकृतेः सरित्पतेरिव चन्द्रमसा सु-१. दूरमुल्लास्यमानस्यापि मर्यादावशादात्मानं स्तम्भयतः कथंकथमपि कतिपयेष्वपि सहस्रसंख्या- यमानेष्वतिक्रान्तेषु वासरेषु, एकदा रणरणकसकाशादिवन्तरलब्धावस्थानो निर्गत्य बहिर्नग - र्यास्तरङ्गसङ्गशीतशीकरांसारमरुन्ति कलक्कणितकलहंस चक्रवाकचक्रवालाक्रान्तसर ससुकुमा- रसैकतानि सिप्रातटान्यनुसरन्, युज्यमानांश्च विरलीभवतश्च संघट्टमानांश्च विश्लिष्यतःचो- ४३६ स लोकानां जनानां लोचनानि नेत्राणि तेभ्य आकार मिङ्गितमरक्षद्रक्षयामास | परं कुसुमशरः कामस्तस्य सायका वाणास्तेभ्यो जीवितं प्राणितं नारक्षत् | किंविशिष्टः सः | उपास्यमानोऽपि सेव्यमानोऽपि । केन । मनसिजेन कामेन किंलक्षणेन । अतिविसंस्थुलेनातिव्याकुलेन | वीक्षापनेनेति यावत् | तन्निदानमाह - निः- प्रतीति । निर्गता प्रतिक्रिया प्रतीकारो यस्यां क्रियायां तस्या भावस्तत्ता तथा । दुःखेन त्यज्यत इति दुस्त्य जस्तस्य भावस्तत्ता तथा वा । तनोरेवेति । तनोः शरीरस्य तानवं कृशत्वमनीचकार स्वीचके | न लज्जाया- स्नपायाः । लजाधिक्यमेवाङ्गीकृतवानिति भावः । शरीरेति । शरीरस्य देहस्य स्थितिर्धारणं तस्यामेवानादर- णमनाग्रहं कृतवान् । न कुलस्याभिजनस्य स्थितौ मर्यादायाम् । प्रजा इति । प्रजा एव प्रकृतिरेवान्वरुध्यत न्यवार्यंत । न मन्मथस्य कंदर्पस्योत्कलिका उत्कण्ठाः । सुखमिति | सचन्द्रापीडः सुखमेव सौख्यमेवावधी- रयामासावगणयामास । न धैर्यं न साहसम् । एवं चेति । एवं पूर्वोक्त प्रकारेणास्य चन्द्रापीडस्य कादम्वर्या रूपं सौन्दर्यं गुणो गाम्भीर्यांदिस्तयोरवष्टम्भेनावलम्बेनाहिताः स्थापिताः प्राणा येनैवंभूतेन बलवता वलिष्ठेनानुरागे- णाभ्यन्तरस्नेहेन पुरोऽग्र आकृष्यमाणस्य हठान्नीयमानस्य, गुरुजनो मातृपित्रादिस्तस्य प्रतिबन्धः प्रतिरोधस्तेन दृढतरेणाति निविडेन महीयसातिमहता लेहेन प्रीत्या च पश्चात्पृष्ठे वार्य माणस्य पृष्ठे निषिध्यमानस्य | केन कस्येव । चन्द्रमसा शशिना सुदूरमति विप्रकृष्ट मुल्लास्यमानस्यापि गम्भीर प्रकृतेलरब्धमध्यस्य | राजपक्षे गम्भीर स्वभाव- स्य । एवंभूतस्य सरित्पतेः समुद्रस्येव मर्यादावशात् । राजपक्षे कुलक्रमागतस्थितिः । समुद्रपक्षे जलागमनलक्षणा च मर्यादा । तद्वशादात्मानं स्वं स्तम्भयतो रक्षतः कथंकथमपि महता कटेन कतिपयेषु कियत्सु सहस्रसंख्या- यमानेषु सहस्रसंख्यामिवाचरमाणेषु वासरेषु दिवसेष्वतिकान्तेषु गतेषु सत्सु एकदा एकस्मिन्समये रण- रणकसकाशादिवौत्सुक्यपार्श्वादिवान्तर्मध्येऽलव्धमप्राप्त मवस्थानमवस्थिति र्येनैवंभूतो नगर्या अवन्त्या बहिर्नि- र्गय बहिरागत्य दूरादेव दूरत एवातिबहूनिव तुरंगमानश्वानद्राक्षीदपश्यत् । किं कुर्वन् । तरङ्गाणां वीचीनां सङ्गः संस्पर्शस्तेन शीताः शीतला ये शीकरा वातास्तवारीणि तेषामासारा वर्षणं येष्वेवंविधा मरुतो वायवो येषु तानि । क्वचित् 'सीकरसाराणि' इति पाठः । कलानि मनोहराणि वणितानि शब्दितानि येषामेवंविधा ।