४३७ त्सहमानांच लम्बमानांश्च परापततश्च विच्छिन्नपेयवस्थानान्स्खलतोऽपि पततोऽप्य वसीद- तोऽपि च यथाशक्ति सादिमिरुत्पीडितान्निः सहतया दूरोगमनखेदमतित्वरया चागमनकार्य- गौरवमावेदयतो दूरादेवातिबहूनिव तुरंगमानद्राक्षीत् । उत्तरभागः । . दृष्ट्वा चोत्पन्नकुतूहलस्तेषां परिज्ञानायान्यतमं पुरुपं प्राहिणोत् । आत्मनाप्यरुदनेन पयसो- तीर्य सिप्रां तस्मिन्नेव भगवतः कार्तिकेयस्यायतने तत्प्रतिवर्ती प्रतिपालयन्नतिष्ठत् । तत्रस्थश्च कुतूहलात्तस्मिन्नेव वाजिवृन्दे निक्षिप्तदृष्टिः पार्श्वस्थितां हस्तेनाकृष्य पत्रलेखामवादीत्-पत्र- लेखे, पश्य। यै एष पुर एवार्क किरणनिवारणोल्लासितया प्रेङ्खदालोललम्वशिखया मयूरपिच्छ- मय्या वैङ्किकया दुर्विभाव्यवदनोऽश्ववारी ज्ञायते, केयूरकोऽयम्' इति । यावत्तया सह्रैवं नि रूपयत्येव, तावत्तस्मात्प्रहित पुरुषादुपलव्धात्मावस्थानं दृष्टिपथ एवावतीर्य तुरंगमादापतन्तं दूरातागमनधूलिधूसरश्यामीकृतशरीरं परिवर्तितद्विवेतराकारणोज्झिताङ्गरागसंस्कार मलिने- न वपुषा विषादशून्येन च मुखेनान्तर्दुःखसंभारपिशुनया च दृष्ट्या दूरत एवष्टामपि कष्टां त्यर्थः । लम्बन्त इति लम्बमानाखान् । स्वशरीरं दीर्घाकुर्वतः । परा सामस्त्येनापतन्त आगच्छन्तस्तान् । विच्छिन्नं विच्छेदं प्राप्तं पङ्ख्या लेखयावस्थानं येषां ते तथा तान् | धावतां विच्छेदः प्रत्यक्षसिद्ध एव | स्खलन्त इति स्खलन्तस्तान्स्खलनां प्राप्नुवतः । अत एव पततोऽपि गिरतोऽपि । अत एवावसीदतोऽप्यवसा- दनं प्राप्नुवतोऽपि । शक्तिमनतिक्रम्य यथाशक्ति सादिभिरश्ववारैरुत्पीडित्तानुत्प्रावल्येन पीडितांस्ताडितान् । सहनं सहः । निर्गतः सहो येभ्यस्ते निःसहास्तेषां भावस्तत्ता तथा । असमर्थतयेत्यर्थः । दूरादागमनं तज्जनितो यः खेदः प्रयासस्तमतित्वरयातिशीघ्रेणागमनं तेन यत्कार्यस्य कृत्यस्य गौरवं गुरुत्वं चावेदयतः परेभ्यो ज्ञापयतः । दृष्ट्वा चेति । दृष्ट्वा विलोक्योत्पनं प्रकटीभूतं कुतूहलमाश्चर्य यस्यैवंभूतस्तेषां तुरंगमानां परिज्ञानाय कस्ये- मे इति ज्ञानार्थमन्यतमं पुरुषं प्राहिणोहितवान् । ऊरू परिमाणं यस्यैवंभूतेन पयसा जलेनात्मनापि सिप्रा- नदीमुत्तीर्य तस्मिन्नेव स्थले भगवतो माहात्म्यवतः कार्तिकेयस्य षण्मुखस्यायतने चैत्ये तस्य प्रहितपुरुषस्य प्रतिवार्ता प्रत्युत्तरं प्रतिपालयन्विलोकयन्नतिष्ठत्तस्थौ । तत्रस्थ इति । तत्र चैत्ये स्थितश्च कुतूहलात्कौ तुकात्तस्मिन्नेव पूर्वप्रतिपादित एव वाजिवृन्देऽश्वसमूहे निक्षिप्ता स्थापिता दृष्टिर्दृग्येनैवंभूतः पार्श्वस्थितां समी- पस्थां पत्रलेखां हस्तेन करेणाकृष्याकर्षणं कृत्वावादीदवोचत् । किमवादीदित्याह – पत्रलेखे इति । हे पत्रलेखे, पश्यावलोकय । य एष पुरोऽग्र एवार्क किरणा: सूर्यरश्मयस्तेषां निवारणे दूरीकरण उल्हासितयोल्लासं प्राप्तया प्रेङ्खन्ती दीप्यन्ती आलोला चञ्चला लम्बायता शिखाग्रं यस्याः सा तथा तथा । मयूरपिच्छेः कलापिव हैं- र्निः पन्ना मयूरपिच्छमयी । 'प्राचुर्यविकारार्थे' इति मयट् | तयैवंविधया वकिया शीकरिण्या दुर्विभाव्यं दुःखेन ज्ञातुं शक्यं वदनमाननं यस्यैवंभूतोऽश्ववारोऽयं केयूरक इति ज्ञायते संभाव्यते । स यावद्याव- तकालं तयासह पत्रलेखया सममेवं निरूपयत्येव कथयत्येव, तावत्कालं तस्मात्प्रहितपुरुषात्प्रेषितनरादुपलव्धं ज्ञातमात्मनः स्वस्यावस्थानमुपवेशनं येनैवंभूतं केयूरकं कादम्वर्या अनुचरमद्राक्षीदपश्यदिति दूरेणान्वयः । किंकल 1 अवरोहणं कत्वा । कस्मात तरंगमा-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति