उत्तरभागः । ४४१ कापटलोडूलनेन व्युपरमः | नोत्कीलितयन्त्रमयकलहंसपङ्किमुक्ताम्बुधारेण धारागृहेण प्रशमः यथा यथा चलितजलयन्त्र विगलिताभिरतिशिशिरशीकर निकरतार कितीभिरम्बुधाराभिराह्- न्यते तथा तथा वैद्युतानलसहोदर इव स्फुरति मदनपावकः । सुतरां च शिशिरः कुन्दकलिकाकै लापमञ्जरीमिव विकासयति स्वेदजललवजालक संततिमुपचारः चित्रं चेदम् । मकरकेतुहुतभुजा दह्यमानमध्यग्निशौच मंशुकमिव नितरां निर्मलीभवति लावण्यम् । मन्ये च मृदुस्वभावमपि जल- मिब मुक्ताफलतामुपगतं कठिनीभवत्युत्कण्ठितं हृदयमबलाजनस्य, तत्तादृशेनातिसंतापेनापि न विलीयते । बलवती खलु वल्लभजनसंगमाशा, यत्तथाविधमप्यनुभववेदनाविह्नलितप्राणमति- न कष्टं प्राण्यते । किं करोमि, कथय कथं कथ्यते, कया वृत्त्या वर्ण्यते, कीदृशेनोपायेन प्रदर्श्यते, केन प्रकारेणावेद्यते, कया युक्त्या प्रकाश्यते, कतमया वेदनयोपनीयते । तेंदुत्कण्ठास्वप्नेषु । विगैलितवेदना: स्फुटं प्राणिनः, प्रतिदिवसं दृश्यमानोऽपि यन्न पश्यसि तोमीदृशीमवस्थाम् । t तेन व्युपरमो निवृत्तिः । नोत्कीलित इति । न चोत्कीलिता उत्कोरिता या यन्त्रमया यन्त्र निष्पन्नाः कलहंसपङ्कयः कादम्बश्रेणयस्ताभिर्मुक्ता अम्वुधारा यस्मिन्नेवंभूतेन धारागृहेण यन्त्रवारासदनेन प्रशमः प्रश- मनम् | यथा यथेति । इयं कादम्बरी यथा यथा अम्बुनोऽम्भसो धारामिराहन्यत आच्छोद्यते, तथा तथा मदनपावकः कंदर्पवह्निः स्फुरति दीप्तिमान्भवति । किंलक्षणो मदनवः | उत्प्रेक्षते - विद्युतोऽयं वैद्युतः स चासावनलश्च तस्य सहोदर इव बन्धुरिव | किंलक्षणामिरम्वुधाराभिः | चलितः कम्पितो यो जलयन्त्रस्त - तो विगलिताभिः पतिताभिः । पुनः किंलक्षणाभिः । अत्यन्तं शिशिरः शीतलो यः शीकरनिकरो वातक्षिप्त- जलकणसमूहस्तेन तारकिताभिर्नक्षत्रिताभिः । सुतरां चेति । उपचारः प्रतिक्रिया स्वेदस्य धर्मस्य जललवा अम्भःकणास्तेषां जालकानि युगपदनेकेषां पातलक्षणानि तेषां संततिः समूहस्तां विकासयति प्रगुणीकरोति । तर्ह्यष्णो भविष्यतीत्याशयेनाह– सुतरां चेति । सुतरामतिशयेन शिशिरः शीतलः | अधिकविरहिणो वि धुरपि सवितरतील देवदेतस्याः शिशिरोऽप्युपचारोऽधिकतर उष्णो बभूवेत्य कीदृशीं संततिम् । कुन्दस्य कुसुमं कुन्दः पुष्पवृक्षो वा तस्य कलिकाः कोरकारतासां कलापः समूहस्तस्य मञ्जरीमिव | वर्णनीयाया जललव- संततेः कुन्दकलिकाकलापमञ्जरीसदृशसंभावनयोत्प्रेक्षालंकारः । तदुक्तम् – 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' इति काव्यप्रकाशे । चित्रमिति | इदं चित्रमाश्चर्यम् । इदं किम् । मकरकेतुरेव हुतभुग्वहिस्तेन दह्यते ज्वाल्यत इति दह्यमानं ज्वाल्यमानमपि लावण्यं सौन्दर्य नितरामतिशयेन निर्मलीभवति विशदीभवति । कीदृशं लावण्यम् । उत्प्रेक्षते - अमिना शौचं शुद्धमंशुकं वस्त्रमिव । सभ्य इति । अहमिति मन्ये जाने । इतीति किम् | अबलाजनस्य स्त्रीजनस्य मृदुखभावमपि कोमलमप्युत्कण्ठितं हृदयं मुक्ताफलतामुपगतं मौक्तिकत्वं प्राप्तं जलमिव पानीयमिव कठिनीभवति दृढीभवति । यदिति हेत्वर्थे । यतो हेतोरतादृशेनातिसंतापेनापि न विली. यते न विलयं गच्छति । बलवतीति | खलु निश्चयेन वल्लभः प्रियो यो जनस्तस्य संगमो मेलापस्तस्याशा वाञ्छा बलवती बलीयसी । यद्यस्मात्कारणात्तथाविधो योऽनुभवः साक्षात्कारस्तेन वेदना पीडा तथा विह्वल- AT TA
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४३८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति