" च्छादितलतापाशमुद्यानमासेवते । मुहुर्निष्पैतद विरतरोदनाताम्रनयनप्रतिबिम्बं त्रस्तरास्तरण- त्रासनिमज्जत्कमलमिवोपवनसरोजलमवगाहते | तस्मादुत्थाय तमालवीथीमुपैति । तस्यां शो- खावलम्बोर्ध्व भुजलतानिहित निमीलितलोचनवदना चम्पकदलमालिकोद्वद्धदेहाशङ्कामुत्पाद- यन्ती मुहूर्ते विश्रय संगीतकगृहमाविशति । ततो मधुरमुरजरवलयललितलास्यलीलयोद्वे- ज्यमाना मयूरीव मुक्तधारं धारागृहमभिपतति । ततोऽपि वनजलधारासीकरपुलकित काया कादम्बकलिकेव कम्पमाना शुद्धान्तकमलिनीतीरमपसर्पति । तस्माच्च भवनकलहंसरवमसह- माना प्रस्थिता तत्कालावतारितनूपुरयुगला निपुणप्रेक्षामिव क्षामताभिनन्दति | वलयरच- नाम्लायित मृणाल कुपितैरिव भवनवापी चक्रवाक मिथुनैः कृजितेन खेद्यते । शय्याविलासमृ दित्तकुसुमसंचयामर्पितैरिव प्रमदवनमधुकरैर्विरुतेनोद्वेज्यते । निर्भरोत्कण्ठागीतनिर्जितरवरो- तिवाङ्गणसहकारपिकवृन्दैः कलकलेनाकुलीक्रियते । मदनपाण्डुगण्डपरिभूतगर्भपत्रका- यैर्नवीनपल्लवैराच्छादितस्तिरोहितौ लता एव पाशो यस्मिन्नेवंभूत मुद्यानमारामं मुहुर्वारंवारमासेवते । आश्रयती- त्यर्थः । मुहुरिति । निष्पतदन्तः प्रविशदविरतं निरन्तरं यद्रोदनं परिदेवनं तेनाताम्र ईषद्रक्ते ये नयने नेत्रे तयोः प्रतिविम्बं प्रतिच्छाया यस्मिन् । अत एवोत्प्रेक्षते - स्रस्त रे संस्तार के यदास्तरणमुपरिस्थापनं तस्माद्यस्त्रासो भयं तेन विमज्जद्रुडकमलं पद्मं यस्मिन्नेवंभूतमिवोपवनं समीपवर्ति काननं तस्य सरोजलं पानीयं मुहुर्बारंवार मवगाहते । अवगाहनां करोतीत्यर्थः । तस्मादिति । तस्मात्सरोजलादुत्थायोत्थानं कृत्वा । बहिर्निर्गलेत्यर्थः । तमालवीथीं तापिच्छलेखामुपैयागच्छति । तस्यामिति । वीथ्यां शाखावलम्विनी योर्ध्वभुजलता बाहुवली तस्यां निहितं स्थापितं निमीलिते मुद्रिते लोचने नेत्रे यस्मिन्नेतादृशं वदनमाननं यथा सा चम्पको हेमपु- ष्पकस्तस्य पुष्पाणि चम्पकानि तेषां दलानि पृथकृता अवयवास्तेषां मालिका सक्तया उद्धो नियन्त्रितो यो देहो लक्षणया गलप्रदेशस्तस्याशङ्कामारेकामुत्पादयन्ती जनयन्ती मुहूर्त क्षणमात्रं विश्रम्य विश्रान्ति गृहीत्वा सं गीतकगृहं नाट्यसदनमाविशति प्रेविशति । ततस्तस्माद्गृहान्मधुरो मिष्टो यो मुरजरखो मृदङ्गशब्दस्तस्य लयरतान- विशेषस्तेन ललिता मनोहरा या लास्यलीला नृत्यविनोदस्तया मयूरीव शिखण्डिनीवोद्वेज्यमानोद्वेगं प्राप्यमाणा मुक्तधारं पतज्जलं धारागृहमभिपतत्यभिगच्छति । ततोऽपीति । तस्मादपि गृहावना निविडा या जल- धारा तस्याः सीकरो वातास्तवारि तेन पुलकित: संजातरोमाञ्चः कायो यस्याः सा कादम्वस्य वृक्षविशेषस्य कलिका कोरकः सेव कम्पमाना वेपथुं प्राप्यमाणा शुद्धान्तस्यान्तः पुरस्य याः कमलिन्यस्तासां तीरं प्रतीरमुपसर्पति गच्छति । तस्माच्चेति । तस्माच्छुद्धान्तकमलिनीतीराद्भवनं गृहं तत्रस्था ये कलहंसाः कादम्वास्तेषां रवं शब्दमसहमाना सोढुमसमर्था प्रस्थिता चलिता तत्कालंतदात्वमवतारितं दृरीकृतम् | चरणादिति शेषः । नूपुरयु- गलं पादकटकद्वन्द्वं यया सैवंभूता निपुणप्रेक्षामिव विवुधबुद्धिमिव । क्षामतां कृशतामभिनन्दति स्तौति । पण्डितं प्रेक्ष्य सुतरां सूक्ष्मा भवतीति भावः । चेत्क्षामता जायते तदा नूपुरयुगलं पादयोरन्तरेणान्तरैव पततीति व्यङ्ग्यम् | वलयेति । वलयस्य कटकस्य रचना निर्माणं तेन म्लायितं म्लानतां प्रापितं यन्मृणालं तन्तुलं तेन कुपितैः कोपं प्राप्तैरिव । भवनस्य वाप्यो दीर्घिकास्तासां चक्रवाकमिथुनानि द्वन्द्वरद्वन्द्वानि । तैः कूजि
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४४१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति