४५७ उत्तरभागः । कं' पृच्छामि । केन सह निरूपयामि । को मे समुपदिशतु | को वापरो मे निश्चयाघानं करोतु । कस्यापरस्य वा विवेकिनी प्रज्ञा | कस्य वान्यस्य श्रुतं श्रोतव्यम् । को वापरो वेत्ति वक्तुम् | कस्य वापरस्य मध्यसाधारणस्नेह: । केन वापरेण सह समानदुःखो भवामि | को वापरो मयि दुःखिते दुःखी, सुखिते सुखी । को वापरो रहस्यावेदनस्थानम् । कस्यापरस्यो- परि कर्तव्यभारमवक्षिप्य निर्वृतात्मा तिष्ठामि | कस्य वापरस्य मत्कार्ये पर्याकुलता । को वापरो मया कोपितं तातमम्बां च परिवोध्य मामानेतुं समर्थः' इत्येवं चिन्तयत एवास्य सा क्षैपा दुःखदीर्घापि क्षयमगमत् । प्रातरेव च किंवदन्ती शुश्राव, यथा किल दंशपुरं यावत्परागतः स्कन्धावार इति । तां च श्रुत्वा समुच्छ्रसित चेताञ्चकार चेतसि — 'अहो धन्योऽस्मि । अहो, विधेर्भगवतोऽनुग्राह्योऽस्मि यस्थ मेऽनुध्यानानन्तरमेव परागतो द्वितीयं हृदयं वैशम्पायनः' इति । प्रहर्षपरवशश्च प्रवि- शन्तमालोक्य दूरत एव कृतप्रमाणं केयूरकमवादीत् - 'केयूरक, करतलवर्तिनीं सिद्धिमधु- नावधारय । प्रीप्तो वैशम्पायन : ' इति । स तु तदाकर्ण्य गैमनपरिलम्जकृतया चिन्तयान्तःशून्य एव 'भद्रकमापतितम् महती हृदयनिर्वृतिर्देवस्य जाता' इत्यभिधदेवोपसृत्योपविश्य पार्श्वे , नोऽपि मे मम पार्श्वेऽसंनिहितोऽनिकटवर्ती | अतः कं जनं पृच्छामि प्रश्नविषयीकरोमि । केन पुंसा सह निरूपयाम्यात्मस्वरूपं कथयामि । कः पुमान्मे मम समुपदिशतु कथयतु । को वापरोऽन्यो मे मम निश्चयाधानं निर्णयोत्पत्तिं करोतु सृजतु । कस्य अपरस्य जनस्य वा विवेकिनी विवेकवती प्रज्ञा प्रतिभा अन्यस्य कस्य वा जनस्य श्रुतं शास्त्रं श्रोतव्यमाकर्णनीयम् । 'श्रुतं शास्त्रातयोः' इत्यमरः । अपरः को वा पुमान्वक्तुं जल्पितुं वेत्ति जानाति । कस्य वापरस्य मध्यसाधारणस्नेहो निरुपमप्रीतिः । अपरेण केन सहाहं समानदुःखो भवामि । सदृशवेदनः स्यामित्यर्थः । अपरः को वा मयि दुःखिते दुःखी दुःखवान्, मयि सुखिते सुखी सुख- वान्स्यात् । अपरः को वा रहस्यावेदनस्थानं गुह्यनिवेदनस्थलम् | कस्यापरस्य जनस्योपरि कर्तव्यभारं कृत्य- वीवधमवक्षिप्यारोप्य निर्वृतात्मा सुखितात्मा तिष्ठामि निषीदामि | अपरस्य कस्य वा पुंसो मत्कार्ये मत्कृत्ये पर्याकुलता व्याकुलता । अपरः को वा मया कोपितं क्रोधं प्रापितं तातमम्वां च परिवोध्य प्रतिवोध्य प्रतिबोधं दत्त्वा मामानेतुं समर्थः । क्षपेति । एवममुना प्रकारेणास्य चन्द्रापीडस्य चिन्तयत एव ध्यायत एव सा क्षपा रात्रिर्दुःखेन कृत्वा दीर्घाप्यायतापि क्षयं नाशमगमजगाम | प्रातरिति । प्रातरेव प्रभाते एव च । इतीति किंवदन्ती जनश्रुतिः शुश्राव श्रुतवान् । इतिद्योत्यमाह - यथे- ति । किलेति सत्ये । दशपुरं यावत्स्कन्धावारः सैन्यं परागतः समायातः । तां न्वेति । तां किंवदन्तीं श्रुत्वा कर्ण्य समुच्छ्वसितमुलसितं चेतः स्रान्तं यस्यैवंविधश्चेतसि चित्ते चकार कृतवान् | इतीति शेषः । तदेव दर्श- यन्नाह - अहो इति । अहो इत्याश्चर्ये । अहं धन्यः कृतपुण्योऽस्मि । अहो इति पूर्ववत् । भगवतो माहा- त्म्यवतो विधेर्विधातुरनुग्राह्योऽनुग्रह विषयी करणयोग्योऽस्मि | तन्निदानमाह - यस्येति । यस्य मे मम चन्द्रा-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति