४६० कादम्बरी खामद्राक्षीत् । सा तु किंचिदवनतमुखी 'निजाज्ञाक्षराणि प्रयच्छतु देवः' इति व्यज्ञप कृतप्रस्थितिनिश्चयायां च तस्यां मेघनादाह्वानाय प्रतीहारीमादिदेश | आदेशानन्तरमेव दूरतः प्रणतमाज्ञाप्रतीक्षं स्वयमेवाहूय सोपग्रहमादिदेश - 'मेघनाद, यस्यां भूमौ पत्र नयनाय मया त्वं प्रेस्थापितस्तां भूमिमेव पत्रलेखामादाय केयूरकेण सहायतो गच्छ मपि वैशम्पायनमालोक्यानुपदमेव ते तुरङ्गमैः परागतः' इत्यादिश्य, 'यदाज्ञापयति इति कृतनमस्कृतौ त्वरितगमनसंविधानाय निष्क्रान्ते मेघनादे 'देव, किमतः परं वि इत्यभिधाय, मेघनादनिर्गमानन्तरं गमनप्रणामोत्थितं केयूरकं सस्नेहमाहूय, सबाष्पय पुनः पुनरालोक्य, परिष्वज्य च सपुलकाभ्यां दोर्भ्याम् आत्मकर्णादपनीयानेकवर्ण संदेशमिव कर्णाभरणमस्य कर्णे कृत्वा कण्ठागतबाष्पगैद्गदिकागृह्यमाणाक्षरमवादीत्- रक, त्वया तु मे देवीसंदेशो नानीत एत्र | तरिक तव हस्ते तदनुरूपं संदिशाम्य विज्ञापयितव्या देवी । तत्रापि किमलीकलजाजालभारोद्वहनेन त्वामायासयामि । पत्रलेखा देवीपादमूलम् । इयं विज्ञापयिष्यति' इत्यभिधदेवातर्कितोपनतात्मविरहपं .9 उपविष्टां स्थितामेव पत्रलेखामद्राक्षीयलोकयत् । सात्विति | सा पत्रलेखा | तु पुनर कनानन्तरमित्यर्थः । किंचित्स्वल्पमवनतं नम्रं मुखमाननं यस्या एवंविधा सती निजस्यात्मीय निदेशस्याक्षराणि वचनानि देवो भवान्प्रयच्छतु ददातु । त्वं व्रजेति स्वमुखेन कथयेत्यर्थः । इति द्विज्ञप्तिमकार्षीत् । कृतेति । कृतो विहितः प्रस्थितेर्गमनस्य निश्चयो यस्या एवंविधायां च तस्यां खायां सत्यां मेघनादयात्म सेवक स्याह्वानमाहूतिस्तस्मै प्रतीहारी द्वारपालिकामादिदेशादिष्टवान् । नन्तरमेव नियोगाव्यवहितमेवागतं च दूरतः प्रणतं प्रविष्टप्रदेशानतमाज्ञां यावत्प्रतीक्षा विलम्बो स्वयमेवात्मनैवाहूयाह्वानं कृत्वा सोपग्रहं सादरमादिदेशादिष्टवान् | हे मेघनाद, यस्यां भूमौ पत्र आनयनायानयनकृते मया त्वं पूर्व स्थापितो न्यस्तस्तां भूमिं यावत्पत्रलेखामादाय गृहीत्वा केयूरकेण स मग्रतो गच्छ व्रज । अहमपि वैशम्पायनमालोक्य निरीक्ष्य ते तवानुपद मेवानुचरणन्यासमेव जिभिः | करणे तृतीया । परागतः समागत इति । यदाज्ञापयत्याज्ञां ददाति देव इत्यादिश्य कथयित नमस्कृतिः प्रणामो येनैवंभूते त्वरितं शीघ्रं यद्गमनं यानं तस्य संविधानं करणं तस्मै निष्क्रान्ते = मेघनादे, हे देव, अतःपरं विलम्वेन किमित्यभिधायोक्त्वा मेघनाद निर्गमादनन्तरमव्यवहितं गमनाय यः प्रणामः प्रणतिस्तस्मा उत्थितं केयूरकं सस्नेहं सनीति यथा स्यात्तथाहूयाहानं कृत्वा सवाष्पया र दृष्टया दृशा पुनःपुनर्वारंवारमालोक्य निरीक्ष्य सपुलकाभ्यां सरोमाञ्चाभ्यां दोभ्य भुजाभ्यां परिष लिङ्ग्य चात्मकर्णात्स्वकीयश्रवणादपनीय दूरीकृत्यानेकवर्णै रक्तपीतादिभी रुचिरं मनोहरम् । अत क्षते – विविध वर्णैरक्षरै रुचिरं संदेशमिव वाचिकमिव । एवंविधं कर्णाभरणं श्रवणभूपणमस्य केयूर श्रोत्रे कृत्वा कण्ठागतो यो वाप्पो रोदनं तस्माया गद्गदिका गद्देत्यव्यक्तध्वनिस्तया गृह्यमाणान्युच्च
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति