चारणां चरणपाताभिमुखीं पत्रलेखां प्रणयेनाभिमुखो भूत्वा वद्धाञ्जलिरभाषत- 'पत्रलेखे, साञ्जलिवन्धेन शिरसा प्रणम्य मदीयेन विज्ञाप्या देवी कादम्बरी, येने सर्वखलानां धुरि लेखनीयेन तथा प्रथमदर्शनेऽपि वत्सलत्वात्स्वभावस्य दर्शितप्रसादातिशयां देवीं प्रणामेना- व्यसंभाव्य गच्छता प्रज्ञा जडतया, ज्ञानं मौढ्येन, धीरता तरलत्वेन, स्नेहलता रौक्ष्येण, गौरवं लघुतया, प्रियंवदता पारुष्येण, मृदुहृदयता नैष्टुर्येण, स्थैर्य चञ्चलतया, दयालुता निस्त्रिंशत्वेन आर्जवं मायाँजालेन, सत्यवादितालीककाकुसंपादनेन, दृढभक्तितावज्ञानेन, पेशलता कौटिल्येन, लज्जा, धार्थेन, औदार्य क्षुद्रतया, दाक्षिण्यममहानुभावतया, प्रश्रयोऽभि - मानेन, कृतज्ञता कृतन्नतया, शीलं पौरोभाग्यतया, सर्वगुणा एंव दोषैः 'परिवृत्ताः । स कमि- वापरं गुणमवलम्ब्य पुनः परिग्रहाय विज्ञापयतु । केन चौङ्गीकरोतु देवी । किमुपदर्शिता- लीकात्मार्पणेन न प्रतारितं देव्या हृदयमिति, किं प्रकृतिपेशलं हृदयमपहृत्य नापकान्तो- , P । नाभिमुखो भूत्वा संमुखीभूत्र वद्धाञ्जलिः पत्रलेखामभापतात्रवीदित्यन्वयः | पत्रलेखां विशेषयन्नाह -अतर्कि तेति । अतर्किताचिन्तितोपनता प्राप्तात्मनः स्वस्य विरहपीडा वियोगव्यथा यस्याः सा ताम् । पुनः किं कुर्व- न्तीम् । अमङ्गलशङ्कयाशुभारेकया कृतयत्नामपि विहितोद्यमामपि वाष्पवेगं नेत्राम्वुप्रवाहं संधारयितुं संस्था- पयितुमपारयन्ती मशक्नुवन्तीम् | उत्प्लुताबद्धलक्षा विषयीकृतविषयात एव शून्या या दृष्टिक्तस्याः संचारणं यस्याः सा ताम् । चरणपातोऽभिवादनं तं प्रत्यभिमुखीं संमुखीम् । किमुवाचेयाह -- पत्रलेखे इति । हे पत्र- लेखे, मदीयेन मामकी नेन साञ्ज लिवन्धेनाञ्जलिवन्धेन सहवर्तमानेन शिरसोत्तमाङ्गेन प्रणम्य नमस्कृत्य देवी काद- म्वरी विज्ञाप्या विज्ञप्तिविषयी कार्या । किं तदित्याह - येनेति । स्वभावस्य प्रकृतेर्वत्सलत्वाद्वितकारित्वात्प्रथ- मदर्शनेऽप्याद्यावलोकनेऽपि तथा तेन प्रकारेण दर्शितः प्रकाशितः प्रसादातिशयः प्रसन्नताधिक्यं ययैवंविधां देवीं कादम्बरीं प्रणामेनापि नमस्कृत्यायसंभाव्यासंभावनाविषयीकृत्य गच्छता व्रजता येन सर्वखलानां सम- प्रदुर्जनानां धुर्यादौ लेखनीयेन गणनीयेन मया सर्वगुणा ऐश्वर्यादयो दोषैर्वैगुण्यैः परिवृत्ताः । स्वस्वरूपमापा- दिता इत्यर्थः । तदेव दर्शयन्नाह — प्रज्ञेति । प्रज्ञा प्रतिभा जडतया मूर्खतया, ज्ञानं मौढ्येन मूढतया, धी- रता धैर्य तरलत्वेन तरलतया, स्नेहलता रौक्ष्येण रुक्षतया, गौरवं गुरुता लघुतया लघुत्वेन, प्रियंवदता मि- ष्टभाषित्वं पारुण्येण काठिन्येन, मृदुहृदयता सुकुमारचित्तता नैष्टुर्येण निष्ठुरत्वेन, स्थैर्य स्थिरता चञ्चलतया चा- चल्येन, दयालुता कृपालुता निस्त्रिंशत्वेन निष्कृत्वेन, आर्जवमृजुत्वं मायाजालेन निकृतेर्जालतया, सत्यवादि- तानलीकभापित्वमलीकासत्या या काकुर्वक्रोक्तिस्तस्याः संपादनेन निष्पादनेन, दृढभक्तिता स्थिराराध्यतावज्ञाने- नावगणनेन, पेशलता हृयता कौटिल्येन कुटिलतया, लज्जा नपा धार्थेन धृष्टतया, औदार्यमुदारता क्षुद्रतया तुच्छतया, दाक्षिण्यं सरलत्वममहानुभावतयामाहात्म्यतया, प्रश्रयो विनयोऽभिमानेनालंकृत्या कृतज्ञता कृतवित्त्वता कृतघ्नतयाकृतज्ञतया, शीलमाचारः पौरोभाग्यतया दोषैकदृक्तया | 'दोषैकदृक्पुरोभागी निकृ- तस्त्वनृजुः शठः' इत्यमरः । सर्वगुणा एव दोपैः परिवृता इत्यन्वयस्तु प्रागेवोक्तः । स इति । स चन्द्रा- पीड: कमिव कथमिव कथमपरं पूर्वोक्तगुणेभ्यो भिन्नं गुणमवलम्व्यावलम्बनीकृत्य पुनर्द्वितीयवारं परिग्रहाय स्वीकाराय विज्ञापयतु विज्ञप्ति कारयतु । केन च गुणेन देवी कादम्वर्यङ्गीकरोतु । स्वीकरोतु मामिति शेषः । C
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति