४६३ कादम्बरी | इस्मीति, किमियं प्राणसंदेहकारिणी निष्करुणेन शरीरावस्था नोपेक्षितेति, किमहमस्याः न कारणमित्येतत्सर्वदोषाश्रयेणाप्यनुवृत्त्या चरणावाराधिताविति वा । तदेवैमात्मना सर्वगुण- हीर्नेस्यापि मे देवीगुणा एवावलम्बनम् । इयमेव ते स्वभावसरसा दूरस्थमपि मद्नहुतभुजा दह्यमानं रक्षत्येव सरलता | मुहुर्मुहुराहयत्येव स्नेहलता, आनयत्येव स्थिरप्रतिज्ञता, ढौकयत्येव दक्षिणता, अँभिपद्यत एव वत्सलता, चरणपतितं न निर्भर्सयत्येव मृदुहृदयता, उत्थाप्य संभावयत्येव महानुभावता, आलपत्येव प्रियवादिता, ददात्येव हृदयेऽवकाशमत्युदारता । यच्च तथापि गत्वा निर्लज्जहृदयः पुनर्वदनदर्शनदानसाहसङ्गीकरोमि। अत्रापि सत्प्रकृतयो देवी- प्रसादा एव कारणम् । एते हि विशदत्वादुदारभावात्संगतत्वाच्च क्षणपरिचिता अपि समा- रोपितजीवितप्रत्याशा न किंचिन्न कारयन्ति । स्मारयन्ति सेव्यताम् देव्याश्चरणपरिचर्यायै समुत्साहयन्ति, शिक्षयन्ति सेवाचातुर्यम् उपदिशन्त्याराधनोपायान् चाटुकरो भवेत्यस- कृदाज्ञापयन्ति, एवं स्थीयतामिति स्वयमेवोपदर्शयन्ति, मुखावलोकिनामकालोपसर्पणको- पेऽनुनैयन्ति, परितोषावसरेऽनुगृह्णन्ति गुणानुबादेन, लज्जापसृतं हठादाकृष्योपसर्पयन्ति, , .3 9 १ गतोऽस्मीति । इयं प्राणसंदेहकारिणी शरीरावस्था देहदशा निष्करुणेन निष्कृपेण किं नोपेक्षितोपेक्षाविषयीकृ- ता | अहं किमस्या अवस्थाया न कारणं न निदानमित्येतत्सर्वदोपाश्रयेणापि सर्वत्रैगुण्याधारभूतेनाप्यनुवृ त्त्यानुकूल्येन चरणौ पादावाराधितौ सेविताविति वा । तदेवात्मना सर्वप्रकारेण सर्वगुणहीनस्यापि समग्रगुण- रहितस्यापि मे मम देवीगुणा एव कादम्बरीगुणा एवावलम्बनमाश्रयः | इयमिति । इयमेव ते तव स्वभा वेन प्रकृत्या सरसा स्निग्धा दूरस्थमपि दविष्टमपि मदनहुतभुजा कंदर्पाग्निना दह्यमानं ज्वलमानं सरलता ऋजु- ता रक्षत्येच पालयत्येव।मुहुर्मुहुर्वारंवारं स्नेहलता स्नेहलस्य भावः स्नेहलताहयत्येव निमन्त्रयत्येव । स्थिरप्रतिज्ञता दृढसंगरतानयत्येव प्रापयत्येव । दक्षिणता चातुर्यता ढौकयत्येव प्राभृतीकरोत्येव । वत्सलता हितकारिताभिष- द्यत एवाङ्गीकरोत्येव । मृदुहृदयतार्जवचित्तता चरणपतितं पादप्रणतं जनं न निर्भर्त्सयत्येव न तिरस्करोत्येव । म हानुभावता साधुस्वभावतोत्थाप्योत्थानं कारयित्वा संभावयत्येव प्रीणयत्येव । प्रियवादिता मिष्टवक्तृतालपत्येव संभाषयत्येव । अत्युदारतातिवितरणता हृदये चित्तेऽवकाशमन्तरं ददात्येव प्रयच्छत्येव । यच्चेति । यत्तथा गत्वापि निर्लज्जहृदयो निस्त्रपचेताः पुनर्द्वितीयवारं वदनदर्शनस्य दानं तस्मिन्साहसं धैर्य॑मङ्गीकरोमि स्वीकरोमि । अत्रापि वदनदर्शनेऽपि सत्प्रकृतयः शोभनस्वभावा देव्या गन्धर्वपुत्र्याः प्रसन्नता लक्ष्येणानुग्रहा एव कारणं निमित्तम् । एते हीति । हीति निश्चितम् । एते प्रसादा विशदत्वान्निर्मलत्वादुदारभावात्सरलत्वेन संगतत्वाच मिलितत्वाच क्षणं समयमात्रं परिचिता अपि परिचित विषयीभूता अपि समारोपिताः स्थापिता जीवितस्य प्राणितस्य प्रत्याशा वाञ्छा यैरेवंविधाः किंचिन्न कारयन्तीति न, अपि तु कारयन्त्येव । तदेवाह — - स्मास्य- न्तीति । सेव्यतां सपर्यायोग्यताभावं स्मारयन्ति स्मरणविषयीकारयन्ति । देव्याः कादम्बर्याश्चरणपरिच- ne
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४५९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति