उत्तरभागः । उप हितकान्तिपतिपरभागा लक्ष्मच्छायेव चन्द्रमसः, विकासशोभापेक्षिणी मधुकरावलीव कमलाकरस्य, रूपालेख्योन्मीलनकाला जनवर्तिका, तारुण्यभरजलधरोत्तानश्यामिका,उज्ज्व- लस्कन्दर्पदीपकज्जलशिखा, स्फुरप्रतापानलघूमराजी, मकरध्वजोपवनतमालवल्ली, मैनोभ- वदोषारम्भबालति मिरोग तिः, उद्वाहमङ्गलभ्रूसंज्ञा श्मश्राजिलेखा समन्तात्समुद्भिन्ना | विवा- हमङ्गलयोग्यां दशामारूढोऽयम् । तद्देव्या विलासवत्या सह समेत्याभिजनरूपा निरूप्यतां काचिजगति राजकन्यका | दृष्टं हि दुर्लभदर्शनं वत्सस्य वदनम् । संप्रति वधूमुखकमलदर्श- नैनानन्दयाम आत्मानम्' इत्युक्तवति तारापीडे झुकनासः प्रत्युवाच –– 'साधु चिन्तितं देवेन । अनेन तु सहृदयेन हृदये समारोपिता एव सर्वविद्याः, संभाविता एव सर्वाः कलाः, स्वीकृता एव सर्वप्रजाः, गृहीता एव सर्वदिग्वधूनां कराः, स्थापित निश्चला कुटुम्बिनीपदे राजल- क्ष्मीः, ऊढैव चतुरुदधिमेखलाकलापभूषणा भूः । किमतः परमवशिष्यते, येनानेन न परि- णीयते' इत्यभिहितवति शुकनासे लज्जावनम्रवदनश्चन्द्रापीडश्चकार चेतसि — 'अहो संवाद:, येन मे कादम्बरीसमागमोपायचिन्तासमकालमेवेदृशी तातस्य बुद्धिरुत्पन्ना | तैद्यदुच्यते- १ भरय गण्डमण्डल उद्भासितुं शीलं यस्यां एवंविधा मदलेखेव दानलेखेव | उपहित आच्छादितः कान्तिप तिना सूर्येण परभागो गुणोत्कर्षो यस्याः सैवंविधा चन्द्रमसः कुमुदबान्धवस्य लक्ष्मच्छायेव कलङ्कप्रभेव । 'प- रभागो गुणोत्कर्षः' इत्यमरः । विकासशोभां विकस्वरलक्ष्मीमपेक्षत इत्येवंशीला कमलाकरस्य मधुकरावलीव भ्रमरपङ्किरिव । रूपालेख्यस्य रूपचित्रस्योन्मीलनं प्रकाशनं तत्र कालाजनस्य कृष्णकज्जलस्य वर्तिकेव वर्तिका लेखिनी । तारुण्यभरो यौवनातिशयः स एव जलवरो मेघस्तस्योत्ताना अतिशायिनी श्यामिकेव श्यामिका । उज्ज्वलन्दीप्यन्यः कन्दर्पः कामः स एव प्रदीपः स्नेहप्रियस्तस्य कज्जलमजनं तस्य शिखेव शिखा | स्फुरनुल्ल सन्यः प्रतापः कोशदण्डजं तेजः स एवानलो वहिस्तस्य धूमराजीव धूमराजी | मकरध्वजस्य मनोभवस्योप- वनमरण्यं तस्य तमालवल्लीव तमालवल्ली | मनोभवः कंदर्पः स एव दोषारम्भो यामिनीप्रारम्भस्तस्य वा लान्यपरिपक्कानि यानि तिमिराण्यन्धकाराणि तेषामुद्गतिरिवोद्गतिः । उद्वाहस्य पाणिपीडनस्य मङ्गलं शुभक्रिया तस्य भ्रूसंज्ञेव भ्रूसंज्ञा | हे शुकनास, त्वं पश्येत्यन्वयस्तु प्रागेवोक्तः । तत्तस्माद्धेतोर्विवाहमङ्गलयोग्यामुद्वाह क्रियायोग्यां दशामारूढोऽयम् | चन्द्रापीड इत्यर्थः । तत्तस्मात्कारणादभिजनरूपा प्रशस्ताकृतिः काचिदनि- र्दिष्टनाम्नी जगति पृथिव्यां राजकन्यका राजकुमारिका विलासवत्या देव्या सह समेत्य मिलित्वा निरूप्यतां कथ्यताम् । दृष्टमिति । हीति निश्चयेन | दुर्लभं दुष्प्रापं दर्शनमवलोकनं यस्यैवंविधं वत्सस्य सूनोवेदनमा- ननं दृष्टमवलोकितम् । संप्रतीदानीं वध्वा मुखकमलं तस्य दर्शनेन निरीक्षणेनात्मानं स्वमानन्दयामः प्रीणया- मः । इति तारापीड उक्तवति कथितवति सति शुकनासः प्रत्युवाच प्रत्यब्रवीत् । किमुवाचेत्याह-साध्वि- ति । साधु शोभनं चिन्तितं विचारितं देवेन स्वामिना | सहृदयेन सज्जनेनानेन तु चन्द्रापीडेन हृदये । सर्व- विद्याः कलादिकाः समारोपिता एव प्राप्ता एव । सर्वा: कला विज्ञानानि संभाविता एव ज्ञाता एव | सर्व-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४६२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति