उत्तरभागः । ४७९ दर्शनीयानामवधिरेषा | तदुत्तिष्ठ | संप्रति निवर्तयामः स्नानविधिम् | अतिमहती वेला । सज्जीभूतं साधनम् । प्रयाणाभिमुखः सकल: स्कन्धावारस्त्वां प्रतिपालयन्नास्ते । किम- द्यापि विलम्बितेन' इति स त्वेवमुक्तोऽप्यस्माभिरतांस्मदीयालाप इव, जड इव, मूक इव, अशिक्षित इव, वक्तुं न किंचिदपि प्रत्युत्तरमदात् । तमेव केवलमनिमेषपक्षमणा निश्चल- स्तब्धतारकेण संततास्रोतसा लिखितेनेव चक्षुपा लतामण्डपमालोकितवान् | पुनः पुनश्चा- स्माभिरागमनाया नुरुध्यमानस्तद्द्वथित दृष्टिरेवास्मान्परिच्छेद निष्ठुरमाह स्म- 'मया, तु न यात- व्यमस्मात्प्रदेशात् । गच्छन्तु भवन्तः स्कन्धावारमादाय । न युक्तं भवतां चन्द्रापीडभु जबलपरिरक्षितं गते तस्मिन्महासाधनं गृहीत्वास्यां भूमौ क्षणमण्यवस्थानं कर्तुम् ।' इत्युक्त- वन्तं च तमकस्मान्नाम किंचिदस्य दैवादेव वैराग्यकारणमुत्पन्नमित्याशङ्कय सानुनयमागम- नाय पुनःपुनः प्रतिबोध्य तादृशासंबद्धानुष्ठानेन जातपीडा निष्ठुरमप्यभिहितवन्तो वयम् । एवंन युक्तमस्माकं स्थातुम् | भवतः पुनर्देवस्य तारापीडस्यानन्तरादार्यशुकनासाल्लब्धजन्मनो देव्या विलासवत्याङ्कलालितस्य देवेन चन्द्रापीडेन सबैकत्र संवृद्धस्य तथा विद्यागृहे महता यत्नेनैव शिक्षितस्य युक्तमिदम्, यज्ज्येष्ठे भ्रातरि सुहृदि वत्सले भर्तरि जगन्नाथे च गुण- वति च भवति सर्वमर्पयित्वा गते तत्परित्यागेनावावस्थानं कस्यापरस्येदृशो युक्तायुक्तपरि- मेवं वयं अवदाम जल्पाम | दर्शनीयानां विलोकनीयानामेषा भूरवधिः सीमा दृष्टावलोकिता । तदिति हेत्वर्थे । उत्तिष्ठोत्थानं कुरु | संप्रतीदानीं स्नानविधिमालवनविधिं निवर्तयामो निष्पादयामः | अतिमहत्यतिगरीयसी चेला वारा । जातेति शेषः । साधनं सैन्यं सज्जीभूतं सज्जं जातम् | सकलः समग्रः स्कन्धावारः सैन्यलोकः प्रथा- णाभिमुखो गमनाभिमुखस्त्वां वैशम्पायनं प्रतिपालयन्निरीक्षन्नास्ते तिष्ठति । अद्यापि सांप्रतमपि किं विलम्बि- तेन । किं कालक्षेपणेनेत्यर्थः । स तु वैशम्पायन एवं पूर्वोक्तप्रकारेणास्माभिरुक्तोऽपि कथितोऽयश्रुतोऽनाकर्णि- तोऽस्मदीय आलापो येन स इव, जड इवाचेतन इव, मूक इव एड इव, अशिक्षित इवापाठित इव वक्तुं जल्पितुं न किमपि प्रत्युत्तरं प्रतिवचोऽदाद्ददौ, तमेव लतामण्डपमेव केवलमेकमनिमेषं निमीलनरहितं पक्ष्म यस्मिंस्तत्तेन, निश्चला स्थिरात एव स्तब्धा तारका कनीनिका यस्मिंस्तत्तेन, संततं निरन्तर मश्रुस्रोतो नेत्राम्बु- प्रवाहो यस्मिंस्तत्तेन, लिखितेनेव चित्रितेनेव चक्षुषा नेत्रेण लतामण्डपमालोकितवान्निरीक्षितवान् । पुनः पुनश्चास्माभिरागमनायात्रानयनकृतेऽनुरुध्यमानोऽनुरोधं क्रियमाणः । तस्मिंतामण्डपे ग्रथिता लग्ना दृष्टिर्यस्यै- वंभूत एवास्मान्परिच्छेद निष्ठुरं निश्चयपरुषमाह स्म कथयामास | मया त्वस्मात्प्रदेशान्न यातव्यं न गन्तव्यम् । भवन्तो यूयं स्कन्धावारं सैन्यमादाय गृहीत्वा गच्छन्तु वजन्तु । तस्मिंश्चन्द्रापीडे गते सति चन्द्रापीडस्य राज्ञो भुजबलेन वाहुवीर्येण परिरक्षितं महासाधनं महासैन्यं गृहीत्वा दायास्यां भूमौ क्षणमप्यवस्थानं कर्तुं भवतां युष्माकं न युक्तं न न्याय्यम् । इति पूर्वोक्तप्रकारेणोक्तवन्तं कथितवन्तं च तं वैशम्पायनम् । नामेति कोमलामन्त्रणे | अकस्मान्निष्कारणतोऽस्य वैशम्पायनस्य दैवादेव विधेरेव वैराग्यकारणं विरक्त तानिदानं किंचिदुत्पन्नं संजातम् ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति