उत्तरभागः । ४९१ । वेऽपि नावमानिता, कुतस्तवेयमेकपद एवेदृशी निष्ठुरता जाता | आ जन्मनः प्रभृति न दृष्ट- मेव यस्य कुपितमाननम् तस्य ते कुतोऽयमेवंविधो मध्यकस्मादेव कोपो यदेवं परित्यज्य स्थितोऽसि । गतोऽप्यागच्छ | शिरसा प्रसादयामि त्वाम् । कोऽपरोऽस्ति मे | देशान्तरपरि- चयान्मुक्तो नामास्मासु स्नेहः | क्षणमप्यनन्तरितदर्शनस्य चन्द्रापीडस्योपरि कथं तशी निःस्नेहता जाता । तात न भद्रकं त आपतितम् । सर्व एव सुखं स्थापनीयो गुरुजनो दुःखं स्थापितः । न जानाम्येवं कृत्वा किं त्वया प्राप्तव्यम् । एतानि चान्यानि चान्तर्भवनगतां प्रत्यप्रतनयविरेहविह्वलां स्वयं देव्या विलासवत्या संस्थाप्यमानामपि मनोरमां विप्रलपन्तीम- श्रौषीत् । तेन चातिकरुणेन तत्प्रलापविषेण विह्वल इव निद्रागमेनेव चूर्णमानो निश्चेतनताम- नीयत । कथंकथमपि सहजसत्त्वावष्टम्भेनैव संस्तम्भितात्मा ग्रविश्य पितुरपि लज्जमानो व- दनमुपदर्शयितुमधोमुख एव निस्पन्दसर्वाङ्गेण मन्दराद्रिणेव शुकनासेन सह मथनावसानस्तैि- मितमिव महार्णवं प्रणम्य पितरं दूरत एवोपाविशत् । उपविष्टं च तं क्षणमिव दृष्ट्वा राजान्त- र्बाष्पभरर्गेद्गदेन ध्वनिनाभ्यर्णवर्ष इव जलधरोऽभ्यधात् - 'वत्स चन्द्रापीड, जानामि ते स्व- जीवितादपि समभ्यधिकां भ्रातुरुपरि प्रीतिम् । पीडा च सुखैकहेतोर्बहभजनोदवासंभाव्या- १ वामपश्यन्त्यनवलोकयन्ती न जीवामि न प्राणिमि | 'तातः पितरि पुत्रेषि' इत्युक्तत्वात् हे तात हे पुत्र, त्वया भवताहं मनोरमा शैशवेऽपि शिशुत्वेऽपि नावमानिता नावगणिता | तव भवत इयमेकपद एव सहसैव कुतो निष्ठुरता कठिनता जाता प्रादुर्भूता | यस्य भवतः कुपितं कोपं प्राप्तमाननं मुखमा जन्मनः प्रभृति जन्म- दिनादारभ्य न दृष्टमेव न निरीक्षितमेव, तस्य ते तवाकस्मादेव निर्निमित्तादेव मयि विषय एवं विध एतादृशोऽयं कोपः कुतः । यद्यस्माद्धेतोरेवं पूर्वोक्तप्रकारेण परित्यज्य विहाय स्थितोऽसि । त्वं गतोऽपि सन्नागच्छेहि । त्वां भवन्तं शिरसा मरतकेन । पादपतनेनेत्यर्थः । प्रसादयामि प्रसन्नीकरोमि । अपरोऽन्यः को मे ममास्ति । नामे - ति कोमलामन्त्रणे । एकस्माद्देशादन्यो देशो देशान्तरं तस्य परिचयः संस्तवस्तस्मादस्मासु मनोरमाप्रभृतिषु म्नेहः प्रेम मुक्तस्त्यक्तः । क्षणमपि समयमप्यनन्तरितमव्यवहितं दर्शनं यस्यैवंविधस्य चन्द्रापीडस्योपरीदृशी कथं तव निःम्नेहता निःप्रेमता जाता प्रादुर्भूता | तात पुत्र, ते तव भद्रकं कल्याणं नापतितं न जातम् । सर्व एव दुःखं स्थापितो गुरुजनः सुखं स्थापनीयः । एवं कृत्वैवं विधाय किं त्वया प्राप्तव्यं प्रापणीयम्, एवमहं न जानामि नाकलयामि । अन्तर्भवनं मध्यगृहं तत्र गतां प्राप्तां प्रत्यग्रो नवीनो यस्तनय विरहः सुतवियोगस्तेन विह्वलां विधुराम् । मनोरमाया विशेषणे | मनोरमां विप्रलपन्तीम श्रौषीदित्यन्वयस्तु प्रागेवोक्तः । तेनेति । तेन पूर्वोक्तेनातिकरुणेनातिदीनेन तस्य मनोरमाया: प्रलापविषेण विलापरूपगरलेन विह्वल इव विधुर इव निद्रागमेनेव प्रमीलागमेनेव घूर्णमानो निश्चेतनतामनीयताप्राप्यत । कथंकथमपि महता कष्टेन सहजं निस- गंजं यत्सत्त्वं धैर्य तस्यावष्टम्भेनैवाश्रयणेनैव संस्तम्भित आत्मा येनवंभूतः प्रविश्य प्रवेशं कृत्वा पितुरपि जन- ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४८८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति