पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ४९७ मपि सरागं सर्वथा दीर्घाभवदपि न दीर्घं पश्यति चक्षुः । अनुपह्तेऽपि न प्रविशति गुरूपदेश: श्रोत्रे | स्त्रीरागिण्यपि न विद्यान्तरं विन्दति हृदये | न स्थैर्यमस्थिरप्रकृतौ तरलतायाम् । परि- त्याज्येषु व्यसनेष्वासङ्गेषु विकाराणां च कारणं प्रायः सरसता | सा च सर्वमेव जलप्रायं कुर्वाणा वैर्षातिवृद्ध्यैवोपजायते । अपि च दिवसो दोषागमाय, दोषागमोऽनालोकाय, अना- लोकोऽसहर्शनार्थम्, असदर्शनमविवेकाय, अविवेकोऽसन्मार्गप्रवृत्तये, असन्मार्गप्रवृत्तं च मोहान्धं चेतो भ्राम्यदवश्यमेव स्खलति । स्खलिते चेतसि तल्लग्ना पतत्येव लज्जा । त्रपावर- णशून्ये च हृदि प्रविश्य पढ़ कुर्वन्केन वा विनिवारितो दुर्निवारः सर्वाविनयहेतुः कुसुमध- न्वा । विलसति च कुसुममार्गणे केन कार्येण छिद्रसहस्राणि न भवन्ति, यैः सत्त्वमेवाधस्ता- द्रुजति । सत्त्वे चाधो गते किमाश्रित्य न गलति शीलम् | किर्मवलम्बनं विनयस्य किंकरो- त्वनाधारं धैर्यम् | क पदमाधत्तां धीः । क समाधानमावघ्नात्ववष्टम्भः | केन वावष्टभ्य 'वं- लान्निश्चलीकृतं मनः । विप्रतिपद्यमानानि केन नियन्त्रितानीन्द्रियाणि | जगन्निन्द्यानि केन निवारितानि दुश्चरितानि । केन वालोकभूतेन तमोभिवृद्धिहेतुरुत्सारितो दोषाभिषङ्गो दृष्टे- । द्विकारा विकृतय आविर्भवन्ति प्रकटीभवन्ति । तदेव दर्शयन्नाह -- तद्यथेति । धवलमपि शुभ्रमपि चक्षु- नेत्रं सरागमेव सर्वथा दीर्घाभवदपि न पश्यति दीर्घम् । दीर्घदर्शितं न भवतीत्यर्थः । अनुपहतेऽप्यप्रतिहते- इपि श्रोत्रे श्रवणे गुरूपदेशो गुरूणां हिताहितोपदेष्टणामुपदेशः सुकृताचरणनिर्देशो न प्रविशति न प्रवेशं करो- ति । स्त्रीषु रागो विद्यते यस्यैवंभूतेऽपि हृदय एकस्या विद्यायाः सकाशादन्या विद्या विद्यान्तरं न विन्दति न लभते । अस्थिरप्रकृतौ चलस्वभावायां तरलतायां चञ्चलतायां सत्यां न स्थैर्यं न स्थिरता | परित्याज्येषु वर्जनी- येषु व्यसनेषु सप्तसु विकाराणां चानृतभाषकत्वादिरूपाणां चासङ्गेष्वासक्तिपु कारणं निदानं प्रायो बाहुल्येन सर- सता रसिकत्वं स्यात् । सा च सरराता सर्वमेव समग्रमेव जलप्रायं कुर्वाणा विदवाना वर्षातिवृद्धैव । वर्षा वर्पणम् । पक्षे वर्षाणां वत्सराणामतिवृद्धैवोपजायत उत्पद्यते । अपि चेति । अपि च प्रकारान्तरेण | दिवसा दोपागमाय, दोषागमश्चानालोकायानिरीक्षणायाप्रकाशाय च स्यात् । अनालोकश्चासद्दर्शनार्थमसम्यग्ज्ञानार्थ च स्यात् । असद्दर्शनं चाविवेकायापृथगात्मने भवति । अविवेकश्वासन्मार्गप्रवृत्तयेऽसत्पथप्रवृत्तये स्यात् । अस- न्मार्गप्रवृत्तं च भ्राम्यदितस्ततः परिभ्रमन्मोहेनान्धं चेतोऽवश्यमेव स्खलति निपतति । स्खलिते च स्खलनां प्राप्ते चेतसि चित्ते सति तहमा चेतः संबद्धा लज्जा त्रपा पतत्येव यात्येव । त्रपैव लजैवावरणमाच्छादनं तेन शून्ये रिक्त च हृदि हृदये प्रविश्य प्रवेशं कृत्वा पदं स्थानं कुर्वन्विदधन्केन वा पुरुषेण सर्वस्य समग्र- स्याविनयस्याप्रश्रयहेतुः कारणं कुसुमधन्वा कंदर्प दुर्निवारो दुःखेन निवारयितुं शक्यो विनिवारितो निषिद्धः | कुसुममार्गणे कंदर्पे विलसति विलासं कुर्वति सति केन कार्येण हेतुभूतेन छिद्रसहस्राणि विवरसहस्राणि न भ वन्ति न संजायन्ते, यैरिछद्रसहस्रैः सत्त्वमेव साहस मेवाधस्तादो व्रजति । सत्त्वे चावो गते किमाश्रित्य किमा-