उत्तर्भागः । ५०१ मिति । तदप्रतिगमनदोषाद्रक्षन्तु मामार्याः ।' इत्यभिहितवति चन्द्रापीडेऽन्तः पीडोपरागरक्ते रक्ततामरसानुकारिणि मुखे सपक्षपातां षट्पदावलीमिव दृष्टिं निवेश्यैवं गमनाय विज्ञापयति युवराज: । 'किमाज्ञापयति देवः' इति शनैः शनैः शुकनासो राजानमप्राक्षीत् । तथा पृष्टश्च शुकनासेन किंचिदिव ध्यात्वा तारापीडः प्रत्यवादीत् – 'आर्य, मया ज्ञात मेतेष्वेव दिवसेषु संपूर्णमण्डलस्येन्दोर्ज्योत्स्नामिव करावलम्बिनीं वत्सस्य वधूं द्रक्ष्यामीति यावदयमपरोऽन्तर्हि- ताशापथो जलदकाल इव प्रत्यूहकारी वैशम्पायनवृत्तान्तो विलोमप्रकृतिना विधात्रान्तरा पा- तितः । यथा चायुष्मताभिहितमेवैतत् । न तमन्यः शक्कोत्यानेतुम् । न च तेन विनायमत्र स्थातुं । तदवश्यमेव तावन्निस्तरितव्यो व्यसनार्णवोऽमुना पोतेन । वैशम्पायनप्रत्यानयनाय चावश्यं देव्यपि विलासवती विसर्जयिष्यत्येवैनमिति निश्चयो मे । तद्यातु । किंत्वतिदूरं व- त्सेन गन्तव्यम् । तद्गणकैः सहादरादार्यो दिवसं लग्नं च गमनायास्य निरूपयतु, संविधानं च कारयतु' इत्येतदभिधाय शुकनासमुद्राष्पलोचनश्चिरमिर्वं चन्द्रापीडमालोक्याहूय च वि. नयावनम्रमंसदेशे शिरसि बाहोच पाणिना स्पृशन्नादिशत्- 'वत्स, गच्छ त्वमेव प्रविश्या- व्यतिरेकेण तदवस्थाने मगमने चोभयोः सादृश्यं स्यादिति भावः । तत्तस्माद्धेतोरप्रतिगमनदोषात्तत्पृष्ठिप्रधावना भावदूषणादार्या मां रक्षन्त्वित्यभिहितवतीत्युक्तवति चन्द्रापीडेऽन्तः पीडान्तर्व्याधिस्तस्या उपराग उपलवस्तेन रक्त लोहितेऽत एव रक्तं यत्तामरसं कमलं तस्यानुकारिण्यनुकरणशील एवं विधे मुख आनने सह पक्षपातेन वाजपातेन तदङ्गीकारेण वा वर्तते या सा सपक्षपाता तामेतादृशीं षट्पदावलीमिव भ्रमरपङ्गिमिव दृष्टिं दृशं निवेश्य संस्थाप्यैवं पूर्वोक्तप्रकारेण गमनाय यात्रायै युवराजश्चन्द्रापीडो विज्ञापयति विज्ञप्तिं करोति । देवो भ वान्किमाज्ञापयति किमाज्ञां दत्त इति शनैः शनैर्मन्दमन्दं शुकनासो राजानं तारापीडमप्राक्षीदपृच्छत् । शुकना- सेन तथा तेनैव प्रकारेण पृष्टश्च किंचिदिव क्षणमात्रं ध्याला विमृश्य तारापीड : प्रत्यवादीत्प्रत्यब्रवीत् । किम- ब्रवीदित्याशयेनाह – आर्य इति । हे आर्य हे पूज्य, इति मया यावज्ज्ञातमबुद्धम् । इतिथोत्यमाह - एते. विति । एतेष्वेव वर्तमानेष्वेव दिवसेषु वासरेषु संपूर्णमण्डलस्यान्यून बिम्बस्येन्दोश्चन्द्रस्य ज्योत्स्नामिव क- रावलम्बिनी हस्तावलम्बिनीं वत्सस्य पुत्रस्य | चन्द्रापीडस्येत्यर्थः । वधूं स्नुषां द्रक्ष्याम्यवलोकयामि | तावदयम- परो भिन्नोऽन्तर्हितस्तिरोहित आशा वाञ्छा दिक्च तस्याः पथो मार्गो येनैवंभूतो जलदकाल इव मेघसमय इव प्रत्यूहकारी विघ्नकारी विघ्नजनको वैशम्पायनवृत्तान्तो मन्त्रिसुतोदन्तो विलोमप्रकृतिना प्रतिकूलाभिप्रायेण विधात्रा विधिनान्तरा मध्ये पातित आनीतः । विज्ञप्तिसाफल्यं दर्शयन्नाह - यथेति । यथा येन प्रकारेण चायु- ष्मता भवताभिहितं प्रतिपादितं तदेतदेवमेवेत्थमेव । तदेव दर्शयति – नेति । तं वैशम्पायनोऽन्य आनेतुमा- नयनं कर्तुं न शक्नोति । तेन वैशम्पायनेन विनायं चन्द्रापीडोऽत्र स्थातुमत्रावस्थानं कर्तुं न च शक्नोति । तत्तस्माद्धेतोरमुना गमनलक्षणेन पोतेन प्रवहणेन तावदादाववश्यमेव व्यसनार्णवः कष्टसमुद्रो निस्त रितव्यो निस्तारं प्रापयितव्यः । तव प्रसूरपि गमनप्रतिबन्धकारिणी भविष्यतीत्यपि नाशङ्कनीयमित्याह - वैशम्पा ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति