५०२ कादम्बरी । स्यन्तरं मनोरमासहिताया मातुरावेदद्यात्मगमनवृत्तान्तम् । इत्यादिश्य चन्द्रापीडमात्मना शुकनासमादाय स्वभवनमयासीत् । चन्द्रापीडस्तु तामक्लिष्टवर्णी कादम्बरीसंवरणस्रजमिव गमनाभ्यनुज्ञां हृदयेनोद्वहन्प्रहृष्टान्तरात्माप्यपहर्षदृष्टिः प्रविश्य कृत नमस्कारो मातु:समीपे स मुपविश्यात्मदर्शन द्विगुणीभूतवैशम्पायन विरहशोक विहलां मनोरमामाश्वास्यावादीत्- 'अम्ब, समाश्वसिहि । वैशम्पायनानयनाय तातेन मे गमनमादिष्टम् । तत्कतिपय दिवसान्तरितं वैश- म्पायनाननदर्शनोत्सवमविकल्पं त्वं मामेव विसर्जय | सा त्वेषमभिहिता प्रत्युवाच -'तात, किमात्मगमनवचसा मां समाश्वासयसि । कः खलु मे त्वयि तस्मिंश्च विशेष: । तदेकधा त- मेकं न पश्यामि कैठिनहृदया। त्वयि पुनर्गते चै दयितस्यादर्शने जीवितप्रतिवन्धहेतुभूतं त्व- दर्शनं तदपि दूरीभवति । तन्न गन्तव्यम् । वत्स, एकेनापि हि युँवयोरावां पुत्रवत्यौ द्वे अपि । नागतो नामासौ निष्ठुरात्मा' इत्युक्तवत्यां मनोरमायां विलासवती धीरमुवाच – 'प्रियसखि, तव मम चैवमेतद्यथा त्वया प्रोक्तम् । अयं पुनर्वैशम्पायनेन विना कं पश्यतु । तदास्ताम् । किमेतन्निवारयसि । बारितेनाप्यनेन नैव स्थातव्यम् । मन्ये च पित्राप्ययमेतदेवाकलथ्य गम- होर्भुजयोश्च पाणिना हस्तेम स्पृशन्स्पर्श कुर्वनादिशत् । हे वत्स, गच्छ व्रज त्वमेव, मनोरमासहिताया मातुर्विलासवत्या अभ्यन्तरम् | गृहस्येति शेषः । प्रविश्य प्रवेशं कृत्वात्मगमनवृत्तान्तमावेदय ज्ञापय | इति चन्द्रापीडमादिश्येत्याज्ञां दत्त्वात्मना स्वयं शुकनासमादाय गृहीत्वा स्वभवनं स्वगृहमयासीदगच्छत् । चन्द्रा- पीडस्त्वक्लिष्टः शोभनो वर्णो रक्तपीताविरक्षरं वा यस्यामेवंविधां कादम्बर्याः संवरणमङ्गीकरणं तस्य स्रजमिव मालामिव तां गमनाभ्यनुज्ञां यात्रानिर्देशं हृदयेन चेतसोद्वहुन्धारयन्प्रहृष्टः प्रमुदितोऽन्तरात्मा यस्यैवंभूतो- इप्यपगतो हर्षा यस्या एतादृशी दृष्टिर्यस्यैवंविधः प्रविश्य प्रवेशं कृत्वा कृतनमस्कारो विहितप्रणामो मातुर्ज• नन्याः समीपे यथोचितप्रदेशे समुपवियोपवेशनं कृत्वात्मनः स्वस्य दर्शनेनावलोकनेन द्विगुणीभूतो द्विगुणतां प्राप्तो वैशम्पायनस्य विरहः शोकस्तेन विह्वलां व्याकुलामेवंभूतां मनोरमामाश्वास्याश्वासनां कृत्वावादीदवो- चत् । किमुवाचेयाह - हे अम्ब हे मातः, समाश्वसिह्याश्वासनां कुरु । यतो वैशम्पायनस्यानयनं तदर्थं ता- तेन पित्रा मे मम गमनं यानमादिष्टं कथितम् । तत्तस्माद्धेतोः कतिपये च ये दिवसा वासरास्तैरन्तरितं व्यवहितं वैशम्पायनस्याननदर्शनं वकनिरीक्षणं तत्रोत्सवमुत्सवभूतम विकल्पं कल्पनारहितं मामेव त्वं विस जय गमनाज्ञां देहि | सात्विति | सा मनोरमैवममुना प्रकारेणाभिहिता प्रोक्ता सती प्रत्युवाच प्रत्यन- वीत् । किमुवाचेत्याह — तातेति । हे तात हे पुत्र, आत्मगमनवचसा स्वप्रयाणवाक्येन किं मां समाश्वास- यसि समाश्वासनां करोषि । मे मम । खल्विति निश्चये | त्वयि भवति तस्मिंश्च वैशम्पायने को विशेषरत दि. तरत्वलक्षणः । तदेव स्पष्टीकुर्वनाह — तदिति । तत्तस्माद्धेतोरेकघैकवारं तमेकं वैशम्पायनं कठिन हृदया न पश्यामि नावलोकयामि । त्वयि भवति पुनर्गते प्रस्थिते च दयितस्य वैशम्पायनस्यादर्शनेऽनिरीक्षणे जी- वितस्य जीवनस्य प्रतिवन्धहेतुभूतं गमनविघ्नभूतं त्वदर्शनं त्वदवलोकनं तदपि तत्र गन्तव्ये दूरीभवति ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४९९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति