उत्तरभागः । ५०५ वति भूयोभूयः स्वकान्तिनिर्भरान्निष्कलङ्क इव नक्षत्रनाथे, विस्पष्टायां निशीथिन्यां प्रस्थान - मङ्गले प्रणामायोपगतं चन्द्रापीडं पीडयान्तर्विलीयमानेव बाष्पोत्पीडमपारयन्ती निवार तुमव्यायताभ्यामपि नेत्राभ्यां कृतप्रयत्नाप्यमङ्गलशङ्कया विलासवती तं मैन्युरागावेगगद्गदि- कोपरुध्यमानाक्षरमवादीत् — 'तात, युज्यते ह्याङ्कलालितस्य गर्भरूपस्य प्रथमगमने गरीयसी हृदयपीडा, यस्मिन्प्रथममेवाङ्कादपैति । मम पुनर्नेदृशी प्रथमगमनेऽपि ते पीडा समुत्पन्ना, कीदृशी तव गमनेनाधुना | दीर्यंत इव मे हृदयम् । समुत्पाठ्यन्त इव मर्माणि | उत्कथ्यत इव शरीरम् | उलवत इव चेतः । विघटन्त इव संधिबन्धनानि | नियन्तीव प्राणाः । न किंचित्समाद्धाति धीः । सर्वमेव शून्यं पश्यामि । न पारयाम्यात्मानमिव हृदयं धारयितुम् | 'वृतोऽपि बलादागच्छति मे बाष्पोत्पीडो मुहुर्मुहुः । समाहितापि मङ्गलसंपादनाय ते चलति मतिः । न जानास्येव किमुत्पश्यामीति | किंनिमित्तं चेयमीदृशी मे" हृदयपीडेत्येतदपि न वेद्मि । किं बहुभ्यो दिवसेभ्यः, कथमप्यागतो मे वत्सो झटित्येव पुनर्गच्छतीति । किं वै- शम्पायन वियोगादुद्विग्नस्य गमन मेकाकिनस्ते समुत्प्रेक्ष्येति । 'नै पुनर्वैशम्पायनवृत्तान्तादात्मन । १० १ भूयोभूयो वारंवारं स्वकान्ति निर्भरात्स्वदीप्ति संभारान्निष्कलङ्के इव नक्षत्रनाथे चन्द्रे भगवति नक्षत्र समाग - मसुखं तारकामेलापकसौख्यमनुभवत्यनुभवविषयी कुर्वति सति । निशीथिन्यां त्रियामायां विस्पष्टायां प्रकटायां सत्यां प्रस्थानमङ्गले सति गमनश्रेयसि सति प्रणामाय नमस्कारायोपगतमागतं चन्द्रापीडं पीडया बाधयान्तर्विलीयमानेव विलयं प्राप्यमाणेवात्यायताभ्यामतिविस्तीर्णाभ्यामपि नेत्राभ्याममङ्गलशङ्कयाsथ्रेयसा- रेकया कृतप्रयत्नापि विहितोद्यमापि बाष्पोत्पीडमथुप्रवाहं निवारयितुं दूरीकर्तुमपारयन्त्यशक्नुवन्ती | एवंविधा विलासवती तत्र स्थितत्वाद्वैशम्पायने मन्युः क्रोधो रागश्चन्द्रापीडे स्वाङ्गजत्वात् तयोरावेग आवेशस्तेन या गद्गदिका गद्गदध्वनिस्तयोपरुध्यमानान्युपरोधं प्राप्यमाणान्यक्षराणि यथा स्यात्तथेति क्रियाविशेषणम् । अवा- दीदब्रवीत् । किमवादीदित्याशयेनाह–तातेति | हे तात हे पुत्र । हीति निश्चितम् । अङ्कलालितस्य कोड- पालितस्य गर्भरूपस्य भ्रूणस्वभावस्य प्रथमगमन आद्यप्रयाणे हृदयपीडा गरीयसी युज्यते विलोक्यते, यस्मिन्न- थममेवाकाक्रोडाद पैति गच्छति । मम विलासवत्याः पुनस्ते तव प्रथमगमनेऽपि नेदृश्येतादृशी पीडा समुत्पन्ना संजाता, यादृशी तव गमनेनाधुना सांप्रतं जायते । तदेव प्रदर्शयन्नाह – दीर्यत इति । मे मम हृदयं दीर्यत इव विदीर्णं जायत इव । मर्माणि संधिस्थानानि समुत्पाट्यन्त इवोत्खन्यन्त इंव | शरीरं देहमुत्कथ्यत इवो- काल्यत इव । चेतो मन उलवत इवोत्योय गच्छतीव | संधिवन्धनानि विघटन्त इव भियन्त इव | प्राणा निर्यान्तीव निःसरन्तीव । धीवुद्धिर्न किंचित्समादधाति समाधानं करोति । सर्वमेव जगच्छून्यं रिक्तं पश्याम्यवलोकयामि | आत्मानमिव हृदयं स्वान्तं धारयितुं न पारयामि न शक्नोमि । घृतोऽपि रक्षितोऽपि बलाद्धठान्मे मम बाष्पोत्पीडोऽथुप्रवाहो मुहुर्मुहुर्वारंवार मागच्छत्यायाति । ते तव मङ्गलसंपादनाय श्रेयः कर
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति