उत्तरभागः । ५०९ । सन्तो मदेन । नोत्रासिताः प्राणिनः क्रोधेन । न हासित आत्मा हर्षेण । न ह्तः परलोकः कामेन | न राजधर्मोऽनिरुद्धः । स्वरुच्या वृद्धाः समासेविता न व्यसनानि । सतां चरिता- म्यनुवर्तितानि नेन्द्रियाणि | धनुरवनामितं न मनः । वृत्तं रक्षितं न शरीरम् । वाच्याद्भीतं न मरणात् । उपभुक्तानि सुरलोकदुर्लभानि सर्वविपयोपभोगसुखानि । यौनेच्छया पर्याप्तम- कार्यपरिहरात् । कार्यानुष्ठानाच्चोपार्जितः परोऽपि लोकः | चेतसि मे त्वजन्मना चे कृतार्थ एवास्मि । तदयमेव मे मनोरथः । दारपरिग्रहात्प्रतिष्ठिते त्वयि सकलमेव में राज्यभारमा- रोप्य जन्मनिर्वाहलघुना हृदयेन पूर्वराजर्षिगतं पन्थानमनुयास्यामीति । अस्य च मेऽतर्कित- मेवायमग्रतः प्रतिरोधको वैशम्पायनवृत्तान्तः स्थितः । मन्ये च न संपत्तव्यमेवानेन । अन्यथा क्व वैशम्पायनः । क्व चैवंविधमस्य स्वप्नेऽयसंभावनीयं समाचेष्टितम् । तद्गतेनापि तथा कर्तव्यं वत्सेन, यथा न चिरकालमेष मे मनोरथोऽन्तर्हृदय एव विपरिवर्तते' इत्यभिधाय किंचिं- दुत्तानितेन मुखेनैव 'संपीडितं हृदयमिव ताम्बूलमर्पयित्वा व्यसर्जयत् । । नोद्वेगं प्रापिताः । मदेन मुन्मोहसंभेदेन सन्तः साधवो न विशेषेण मुखिता दण्डिताः । क्रोधेन रोषेण प्राणिनो- ऽसुमन्तः न उत्रासितास्त्रासं प्रापिताः । हर्षेण प्रमोदेनात्मा न हासितो न हास्यं नीतः । कामेन मनोभवेन पर लोक आगामिभवो न हतो विनाशितः । न राजधर्मो वधादिरूपोऽनिरुद्धोऽनिषेवितः । स्वरुच्या निजामिला- घेण वृद्धा ज्यायांसः समासेविताः पर्युपासिताः, न व्यसनानि मद्यपानप्रभृतीनि । सतां साधूनां चरितान्याचरणा- न्यनुवर्तिनान्यनुगमन विषयीकृतानि, नेन्द्रियाणि करणानि, तदनुगामित्वं न कृतम् । सर्वदा तदाज्ञावैमुख्येन स्थितमिति भावः । धनुः कोदण्डमवनामितं चक्रीकृतम्, न मनो हृदयम् । वृत्तं सदाचरणं रक्षितम्, न शरीरं देहः । शरीरानपेक्षत्वेन तदाचरितमित्यर्थः । वाच्याजनापवादागीतं त्रस्तम्, न मरणान्मृत्योः | जीवनादपि यशो- वल्लभत्वमित्यनेन सूचितम् । सुरलोके त्रिविष्टपे दुर्लभानि दुःप्रापानि यानि सर्वविषयाणां रूपरसगन्धस्पर्श- शब्दरूपाणामुपभोगः प्रतिवारमा सेवनं तय सुखानि सौख्यान्युपभुक्तान्यावादितानि । 'यः सकृद्भुज्यते भोग उपभोगोऽङ्गनादिकः' इति प्राचः | अकार्यपरिहारादकृत्यत्यागाद्यौवनेच्छया तारुण्यस्पृहया पर्याप्तं भृतम् । कार्य दानादिरूपं तस्यानुष्ठानादाचरणात्परोऽपि लोक आगामिभवोऽप्युपार्जितः स्वायत्तीकृतः । सदाचरणेनावश्यं देवायुर्बुद्धमित्यर्थः । त्वज्जन्मना च त्वदुत्पत्त्या च कृतार्थः कृतकृत्य एवाहमस्मीति मे मम चेतसि वर्तते । तत्तस्माद्धेतोरयमेव मे मम मनोरथोऽमिलाषो वर्तते । अयमेवेति क इत्यपेक्षायामाह- दारेति । दार- परिग्रहात्स्त्री स्वीकारात्प्रतिष्ठित प्रतिष्ठां प्राप्ते त्वयि भवति सकलमेव समग्रमेव मे राज्यभारमाधिपत्यधुरमा- रोप्य न्यस्य जन्मनो नृभवस्य निर्वाह आयुःक्षयं यावत्परिपालनं तेन लघुना तुच्छेन हृदयेन । केवलं जन्म- पालनप्रवृत्तत्वेन तदितरसमग्राशा विमुक्तत्वेन च चेतसो लघुलमिति भावः । पूर्वे राजर्षयो गताश्चलिता य स्मिन्नेवंविधं पन्थानं मार्गमनुयास्याभ्यनुगच्छामि । इत्यस्य मे मम मनोरथस्यातर्कित मेवाचिन्तितमेवाग्रतः पुर प्रतिर ध : बन्दैशम्पय स्य शकना सस्य वृत्तान्त उदन्तः स्थितः । अहमिति मन्ये । जनेन
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५०६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति