कादम्बरी । ७ परिमलमयैर्मालतीर्मुकुलैरेव सहाजृम्भन्त रँणरणकाः। तथातिगुरु निर्वातैरेवाभज्यन्त मनोरथाः। तीक्ष्णतरकोटिभिः केतकीसूचिभिरेवात्रुट्यन्त मर्माणि । उच्छिखैः शिखिभिरेवादह्यन्त गात्राणि । अन्धकारित दिशा मेघतमसैवावर्धत मोहान्धकारम् । तिरस्कृतध्वान्तेन तडिदात- पेनैवातन्यत संताप: । 'भैरेणैव गम्भीरगर्जितैकसंतानोत्कम्पितधेरापीठबन्धैर्नभसि नवधनैः, चैनजलधारातिपात वाचालितच चुभिरन्तराले चातकैः, उद्दानमहारावराबिभिरवनिर्मूले दर्दु- रै:, अनवरतझांकाररवजर्जरितधाराम्बुभिराशासु जलदानिलैः, उन्मुक्तमदकलकेका कोलाहलैः काननेषु कलापिभिः, असमशिखरोपलस्खलनकलकलमुखरैगिरिपु निर्झरैः, उल्लोलकल्लोला. स्फाल विष्फरित विषम निर्घोष झांकारिभिः सरित्सु पूरैः, सर्वतश्च विततेन स्थलीषु, संहतेन कन्दरेषु, उच्चण्डेन शिखरिषु, कलकलेनाम्बुपु, पटुना पर्वततटेषु, मृदुना शाद्वलेषु, चारुणा कैंपोलेषु, सान्द्रेण शाखिषु, तनुना तृणोपलेपु, उल्हणेन तालीवनेषु यथाधाराश्मपतनमा- कर्ण्यमानेन सर्वप्रकारमधुरेण हृदयप्रवेशिना धारारवेणोत्कलिकाकलितो न रात्रौ न दिवा १८ १९ . ५१६ मुकुलैः कुमलैरेव सह रणरणका उत्कण्ठा विजृम्भन्त विकासमभजन्त । तथातिगुरु निर्धातैरेव मनोरथा । अभिलाषा अभज्यन्त भङ्गमापुः । तीक्ष्णतरातिशयेन तीक्ष्णा कोटिरग्रभागो येपामेवंभूतैः केतकीसूचिभिर्व- ह्रीविशेषकण्टकैरेव सह मर्माणि मर्मस्थानान्यत्रुट्यन्ताच्छिद्यन्त | उदूर्ध्वं शिखा येषामेवंभूतैः शिखिभिर्म- यूरैरेव गात्राण्यङ्गान्यदह्यन्त प्राज्वलन् । अन्धकारितदिशा मेघतमसैव मोहान्धकारमवर्धतैष्टि | तिरस्कृतं न्यकृतं ध्वान्तं तिमिरं येनैवंभूतेन तडिदातपेनैव विद्युदालोकेनैव संतापः संज्वरोऽतन्यत व्यस्तार्यत | भरेण चेति । भरो भारस्तेनैव गम्भीरं गभीरं यद्दर्जितं स्तनितं तस्यैकं प्रधानं संतानं परम्परा तेनोत्प्रावल्येन कम्पि- तश्चलितो धरायाः पृथ्व्याः पीठवन्धो यैस्ते यथा तैर्नवधनैर्नवीन जलधरैर्नभ सि व्योनि | अन्तराले विचाले चात- कैर्नभोम्वुपैः । कीदृशैः । घना निबिडा या जलधारास्तासामतिपातोऽतिपतनं तेन वाचालिता मुखरा- श्वश्चवश्वसुपुटिका येषां ते तथा तैः । अवनिमूले पृथिव्यां दर्दुरैः । कीदृशैः । उद्दामः कठिनो यो महा- रावो महाध्वनिस्तस्य राविभिर्जल्पिभिः | आशासु दिशासु जलदानिर्लेर्मेंधमारुतैः । कीदृशैः | अनवरतं निरन्तरं झांकाररवो झंझावातध्वनिस्तेन जर्जरितानि शिथिलितानि धाराम्बूनि यैस्ते तथा तैः । काननेष्वरण्येषु कला- पिभिर्मथूरैः । कथंभूतैः । उन्मुक्तो यो मदस्तेन कलो मनोहरः केकाया मयूरवाण्याः कोलाहलः कलकलो येषां ते तथा तैः । गिरिषु पर्वतेपु निर्झरैर्झरैः । 'उत्सः प्रसवणं वारिप्रवाहो निर्झरो झरः' इत्यमरः | किंवि- शिटैः । असमा विषमा ये शिखरोपलाः सानुप्रस्तरास्तेषु स्खलनेन भ्रंशेन यः कलकल: कोलाहलस्तेन मुखरैर्वा - चालैः सरित्सु तटिनीषु पूरैः लवैरम्बुवृद्धिभिः । किंभूतैः । उल्लोला उत्प्रावल्येन चञ्चला ये कल्लोलास्तरंगास्ते- पामास्फालोऽन्योन्याघातस्तेन विस्फारितो विस्तारितो यो विषमनिर्घोषोऽसमध्वनिस्तेन झांकारिभिर्द्यौतिभिः । एवं सर्वतश्च स्थलीष्वकृत्रिमस्थलभूमिषु विततेन विस्तृतेन, कंदरेपु दरीषु संहतेन प्रतिहतेन, शिखरिषु 69 - TY ar MAT
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति