पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । E .9 अथानुपसंहृतमन्युवेगापि गद्गदिकावगृह्यमाणकण्ठा महाश्वेतैव प्रत्यवादीत् - 'महा किमियमावेदयति बराकी । यया दुःखाभिघातैककठिनहृदयया पुनरप्यदुःखश्रवणा दुःखमात्मीयं श्रावितम्, सैवाहं मन्दभाग्या महाभाग, जीवितव्यसनिनी निर्लज्जा च दुःश्रवणमपि श्रावयामि दुःमिदम् । श्रूयताम् ।' केयूरका इवेंद्रमनमाकर्ण्य विदीय मनसा न मया चित्ररथस्य मनोरथः पूरितः, न मदिराया: प्रार्थना कृता, नात्मनः हितं संपादितम्, न गृहाभ्यागतस्य चन्द्रापीडस्य प्रियमनुष्ठितम् न चापि हृदयवह मागमनिर्वृत्ता प्रियसखी कादम्बरी वीक्षितेत्युत्पन्नानेकगुणवैराग्या गाढबन्धान्काद- स्नेहपाशानपि छित्त्वा पुनःकष्टतरतपश्चरणायात्रैवायाता यावदन महाभागस्यैव तुल्याकृ न्मुक्तमिवान्तःकरणेन शून्यशरीरमुत्तरलमुखमुत्प्लुताबद्धलक्ष्यशून्यया दृष्ट्या प्रनष्टमिव कि रततो विलोकयन्तं ब्राह्मणयुवानमपश्यम् । स तु मामुपसृत्यानन्यदृष्टिरदृष्टपूर्वोऽपि नन्निव, असंस्तुतोऽपि चिरपरिचित इव असंभावितोऽप्युपारूढ प्रौढप्रणय इव, अस्निग्ध परवानिव, प्रेम्णा शून्योऽपि किमप्यनुस्मरन्निव, दुःखिताकारोऽपि सुखायमान इव, तूष्ण ५२४ अथेति तदनन्तरम् । अनुपसंहृतोऽदूरीकृतो मन्युवेगो यया सैवंविधापि गद्गदिकया गद्दध्वनिना माणो रुध्यमानः कण्ठो यस्याः सा महाश्वेतैव प्रत्यवादीत्प्रत्यब्रवीत् । हे महाभाग, किमियं वराकी शोच ‘वराकः संगरे शोच्ये' इति विश्वः । आवेदयति कथयति । दुःखस्याभिघातः प्रहारस्तेनैकम द्वितीयं क ठोरं हृदयं भुजान्तरं यस्या एवंविधया यया मया पुनरप्यदुःखश्रवणार्हेऽपि दुःखं श्रोतुमयोग्येऽप्याम कीयं दुःखमसातं श्रावितं श्रवणगोचरीकारितम् | हे महाभाग, सैवाहं मन्दभाग्या हीनादृष्टा जीवितव्ये = मासक्तिर्यस्याः सा तथा निर्लज्जा निस्त्रपा निर्घृणा निःकरुणा चेदं दुःखं दुष्टं श्रवणमाकर्णनं यस्येति दुःश्रव दृशमपि श्रावयामि श्रुतिगोचरीकारयामि । श्रूयतामाकर्ण्यतामिति । केयूरकाद्भवद्गमनं तव प्रस्थानमाकर्ण्य र्यमाणं मनो मानसं यस्याः सा तया | स्फुटमानहृदय येत्यर्थः । मया महाश्वेतया चित्ररथस्य पितुर्मनोरथो न पूरितो न पूर्णीकृतः । नापि मदिराया मातुः प्रार्थना याचा कृता । नात्मनः स्वकीयस्य समीहितं वाञि पादितं निःपादितम् । न गृहाभ्यागतस्य स्वकीय सदनागतस्य चन्द्रापीडस्य प्रिय मिष्टमनुष्ठित मादरितम् । न हृदयस्य चेतसो वल्लभो जनस्तस्य समागमेन निर्वृत्ता संजातसंतोषा, एतादृशी प्रियसखी वलभवयस्या का वीक्षिता विलोकितेति हेतोरुत्पन्नं प्रादुर्भूतं यदनेकगुणमुत्कृष्टं वैराग्यं विरागता तस्यासमन्ताद्गाढवन्थोऽ न्थिरतस्मात्कादम्बरीस्नेहपाशानपि छित्त्वा छेदं विधाय पुनर्द्वितीयवारं कष्टतरमत्युग्रतरं यत्तपश्चान्द्रायणा चरणायासेवनायात्रैव गुम्फायामेव यावत् आयातागता तावत् अत्र महाभागस्य भवतस्तुल्याकृतिं कारमन्तःकरणेन चित्तेनोन्मुक्तमिव व्यक्तमिव, अत एव शून्यशरीरमिन्द्रियव्यापाररहितदेहमुत्तरलमुत्क यस्य स तमुत्तमुत्पतितमावद्धं यलक्ष्यं वेध्यं तेन शून्यया निरवधानया दृष्टया दृशा प्रनष्टमिव गतमिव