५२८ कादम्बरी । नहुतभुजा भुजाप्रेण कुण्डलीकृत मृणाल मुंपर्युषितशासनवलयमिवावश्यैमरणाय सफलजगद्प्र- तिहुशासनेन कुसुमधन्वना विसर्जितं दधानम्, उद्भूत साध्वसोत्कम्पतरलितया केतकी- गर्भसूच्या क्व परं गम्यते हतोऽसि मयेति मन्मथप्रथमसहायस्य चन्द्रमसः कॅलयेव कर्णा- न्तलग्नया तर्ज्यमानमुद्वेगावर्जितेन नैयनजलस्रोतसात्मने जलमिव प्रयच्छन्तम्, आत्मेच्छ. यैव मैत्करग्रहणाय निवर्तितस्त्रानमिव स्वेदाम्भसा न युक्तमेव ते परहृदयमविज्ञायोपगन्तु- मिति पदे पदे निवार्यमाणमिव गुरुणोरुस्तम्भेन दूरत एव मदालिङ्गनालीकाशया प्रसारित- भुजयुगलम्, उत्कलिकासहस्रविषमं रागसागरमिव प्रतरन्तम्, अनवरतप्रवृत्तैराकृष्यमाण- मिव पुरस्ताही निःश्वासमरुद्भिरुह्यमनमिव दिङ्लाविना ज्योत्स्नापूरेण रैणरणकशून्य- मुच्छुकाननं प्रोन्मुक्तं सत्त्वेन, प्रतिपन्नं कृपणतया, अवधीरितं धैर्येण, संगृहीतं तरलतया, विसर्जित लज्जया, 'अधिगतं धार्थेन, दूरीकृतं परलोकभी त्यों, विमुक्त युक्तायुक्त विचारेण, संकल्पजन्मन एव केवलं वशे स्थितम्, आविष्टमिव मत्तमिवोन्मादादापतन्तम्, दूरतोऽपि कामाग्निना भस्मसात्कृतमिव | शुक्ललसाम्याद्भस्मोपमानमित्यर्थः । भुजाग्रेण बाहुप्रान्तेन कुण्डलीकृतं कुण्डल- वदाचरितं मृणालं बिसकण्टकं दधानं बिभ्राणम् | 'कटको वलयोऽस्त्रियाम्' इत्यमरः । शुक्लत्वसाम्यादुत्प्रे- क्षते - सकलजगत्यप्रतिहत मनिराकृतं शासनमाज्ञा यस्यैवंविधकुसुमधन्वना कंदर्पेणावश्यमरणाय निश्चितप्राण- विमुक्तये विसर्जितं दत्तमुपर्युषितं स्थापितं शासनवलयमिवाज्ञावलयमिव । यथा कश्चित्सांयुगीनो राज्ञा दत्तम- वश्यं सङ्ग्राममरणाय वीरवलयं भुजाग्रेण बध्नाति तथैवानेन भुजाग्रेणावश्यं मरणाय कंदर्पदत्तं शासनवलयं वद्धमिवेति भावः । मन्मथस्य कंदर्पस्य प्रथमसहायस्यादावेव साहाय्यकारिणश्चन्द्रमसः कुमुदवांववस्य कलया पोडशांशेन कर्णान्तलग्नया श्रोत्रान्त प्राप्तयेति तर्ज्यमानमिव तिरस्क्रियमाणमिव । इतिथोत्यमाह-उद्भूतेति । उद्भूतमुत्पनं यत्साध्वसं भयं तस्मादुत्कम्पस्तेन तरलितया चञ्चलया केतकी गर्भसूच्या ऋकचच्छदमध्यवर्ति- त्रिपत्रकेण । 'त्रिपत्रकः सूचिरभिधीयते' इत्यमरः । तथा मया त्वं हतो व्यापादितोऽसि । अतः क्व परमग्रे गम्यते । उद्वेगः संतापस्तेनावर्जितेन दत्तेन नगनजलस्रोतसा नेत्राम्बुप्रवाहेणात्मने खस्मै जल- मिव प्रयच्छन्तं ददतम्, आत्गेच्छयैव स्वकीयवाञ्छ्यैव मत्करग्रहणाय मत्पाणिपीडनाय स्वेदाम्भसा धर्म- जलेन निर्वर्तितस्रानमिव विहितालवमिव परहृदयमन्यचित्तमविज्ञायाज्ञात्वोपगन्तुं तत्समीपे यातुं ते तव न युक्तमेव न न्याय्य मेवेति गुरुणा वृहत्तरेणोरुस्तम्भेन जङ्घास्थ्णया पदे पदे निवार्यमाणमिव प्रतिपि- ध्यमानमिव दूरत एव दविष्ठत एव मदालिङ्गनस्य मदीयोपगूहन स्यालीकाशया मिथ्यावाञ्छया प्रसा- रितं विस्तारितं भुजयुगलं वाहुयुग्मं येन स तम् । उत्कलिका हल्लेखाखासां सहस्रं तेन विषमं व्याकुलं रागसागर मिवानुरतिसमुद्रमिव प्रतरन्तमुत्तरन्तम् | अनवरतप्रवृत्तनिरन्तरप्रवर्तितैदीर्घराय तैर्निःश्वासमरुद्भिः पानवायुभिः पुरस्तादग्र आकृष्यमाणमिवाकृष्टिं विधीयमानमिव दिसुखलाविना दिग्वदनक्षालकेन ज्योत्स्ना पूरेण चन्द्रिकाप्रवाहेणोह्यमानमिव वहमानमिव रणरण केनौत्सुक्येनोत्प्रावल्येन शुष्कं रूक्षमाननं मुखं यस्य स
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति