उत्तरभागः | गौरवात्, आहोखिन्मद्वचसः सामर्थ्यादेव च्छिन्नमूलस्तरुरिबाचेतनः क्षितावपतत् । अति- क्रान्त जीवितेऽस्मिकृताक्रन्दान्तनाच्छ्रतवती यथासौ महाभागस्यैव मित्रं भवति' इत्युक्त्वा चत्रपावनम्रमुखी महीं महीयसावेगेने तूष्णीमेवालावितवती । चन्द्रापीडस्य तु तैदाकर्ण्य कर्णान्तायतलोचनद्वयामीलनभग्नदृष्टेभ्रष्टवचनसौष्टवस्य 'भगवति, कृतप्रयत्लायामपि भग- वत्यामपुण्यभाजास्मिञ्जन्मनि मया न प्राप्तं देव्याः कादम्बर्याश्चरणपरिचर्यासुखम्, तज्ज- न्मान्तरेऽपि मे भगवती संपादयित्री भूयात्' इति गदत एब कादम्बरीसमागमाप्राप्तिदुःखे- नेव भेदोन्मुखं मुकुलमिव शिलीमुखाघातात्स्वभावसरसं हृदयमस्फुटत् । 3 ु ११ १२ अथ महाश्वेतायाः शरीरमुत्सृज्य संभ्रमप्रतिपन्नचन्द्रापीडशरीराया 'भर्तृदारिके, किं लज्जया | पश्य तावदन्यथैव कथमप्यास्ते देवर्धन्द्रापीडोऽयम् । अग्नेवास्य ग्रीवा न मूर्धानं धारयति । विचालितोऽपि न किंचित्रेतयते | नान्त:प्रविष्टतारके समुन्मीलयति विलोचने | नायं यथावस्थितानां गात्राणामावरणं करोति । नोच्छुसित हृदयेन | हा देव चन्द्रापीड, चन्द्राकृते, कादम्बरीप्रिय, केदानीं त्वया विना गम्यते' इत्युक्त्वामुक्तार्तवचसि तरलिकायां, । धस्यात्मनः स्वकीयस्य दुष्कृतस्य पापस्य गौरवाद्दुरुत्वात् । आहोखिद्वितर्के । वचस एव सामर्थ्याच्छन्तेरेव छिन्नं छेदितं मूलं वुघ्नं यस्यैवंभूतस्तरुरिव वृक्ष इवा चेतनचेतनारहितः क्षितौ पृथिव्यामपतत् । अस्मिन्वैशम्पायने- ऽतिक्रान्तजीविते च गतप्राणिते च सति कृताकन्दा विहितार्तस्वरान्तर्जनान्मध्यजनाच्छ्रुतवत्याकर्णितवती । यथासौ महाभागस्य महापुरुषस्य मित्रं वयस्यो भवति इत्युक्त्वेत्यभिधाय च चपया लज्जयावनम्रं मुखं यस्याः सैवंविधा महीयसा गरीयसावेगेन नेत्राम्बुप्रवाहेण तूष्णीमेव मह्यालावितवती । चन्द्रापीडस्य तु तदा - कर्ण्य श्रुत्वा हृदयमस्फुटदित्यन्वयः । कीदृशस्य | कर्ण यावदायतं विस्तीर्ण योचनद्वयं तस्यामीलनं मुद्रणं तेन भना दृष्टिर्यस्य स तथा तस्य | भ्रष्टं नष्टं वचनस्य वाचः सौष्ठवं शोभनत्वं यस्य स तथा तस्य । किं कुर्वतः । इति गदत इति ब्रुवतः । इतिद्योत्यमाह – भगवतीति । हे भगवति हे देवि, कृतप्रयत्नायामपि विहितोद्यमा- यामपि भगवत्यामपुण्यभाजा पापभाजारिमञ्जन्मनीह भवे देव्याः कादम्वर्याश्चरणपरिचर्यासुखं क्रमसेवासातं न प्राप्तं तज्जन्मान्तरेऽप्यन्यभवेऽपि मे मम भगवती भवती संपादयित्री जनयित्री भूयादितीवोत्प्रेक्षते । कादम्बरीसमागमस्याप्राप्तिदुःखेनेव भेदोन्मुखं प्रस्फुटनोन्मुखं मुकुलमिव कुङ्मलमिव शिलीमुखस्याघातान्त्रम- रामिघातात् | यथा भ्रमराभिघातात्कुडालं भेदोन्मुखं स्फुटति, तथैव चन्द्रापीडस्य तच्छुत्वा स्वभावेन प्रकृत्या सरसं कोमलं हृदयमस्फुटदिति भावः । । अथेति | हृदयस्फोटानन्तरं महाश्वेतायाः शरीरमुत्सृज्य विमुच्य संभ्रमेणादरेण प्रतिपन्नमनीकृतं चन्द्रा पीडस्य शरीरं यया सा तथा तस्याम् । इत्युक्त्वेत्यभिधायामुक्तं परित्यक्तमार्तं पीडितं वचो यया सा तथा तस्यां तरलिकायां सत्याम् । इतिथोत्यमाह - हे भर्तृदारिके इति । हे महाश्वेते, किं लज्जया त्रपया | तावदादौ पश्य विलोकय । अयं देवश्चन्द्रापीडोऽन्यथैवेतरप्रकारेणैव कथमप्यास्ते तिष्ठति । अस्य चन्द्रापीडस्य ग्रीवा कं ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति