फादम्बरी | हिमगृहके मंद्धितविमर्शय दुर्विदग्धबुद्वेर्वकभाषितं यत्र सस्मितमालोकितया त्वयैवास्मै सुत- रामेवा संशयकारि प्रत्युत्तरं दत्तम् । तदसौ मरणेऽपि मे न श्रद्धधायेवेभामवस्थाम् । अन्यथा यदि मदर्थे दुःखमेवामियमनुभवतीत्येतंदस्याभविष्यत्तदा तथागमनमेव नाकरिष्यत् । तथा- गतोऽप्यसौ यत्किमपि वक्तव्यस्त्वयैव | मया पुनर्दृष्टोऽपि नालपितव्यो नोपालव्धव्यो न चरणपतितस्याप्यनुनयो ग्राह्यो नाहं प्रियसख्या प्रसादनीया' इत्यभिदधानैवाचे तितागमन- खेदा कादम्बरी चन्द्रापीडदर्शनायोत्ताम्यन्ती तत्रैवाजगाम । , आगम्य चोद्धृतामृतमिव रत्नाकरम् इन्दुविरहितमिव निशागबन्धम्, अस्तमितताराग- णमिव गगनम्, अपचितकुसुमशोभमिवोपवनम्, उत्खातकर्णिकमिव कमलम्, उत्खण्डिताङ्क- - रमिव मृणालम्, अवलुप्ततरलमिव हारम्, उन्मुक्तजीवितं चन्द्रापीडमद्राक्षीत् । दृष्ट्वा च तं सहसा 'हा, किमिदम्' इत्यधोमुखी धरातलमुपयान्ती कथंकथमपि मुक्ताकन्दया मदलेखया- धार्यत । पत्रलेखा पुनरुन्मुक्य कादम्बरीकरतलमचेतना क्षितिमुपौगमत् । चिराच लब्धसं- ज्ञापि कादम्बरी तथैव मूढेव निश्चलस्तब्धदृष्टिराविष्ठेव स्तम्भितेव निष्णयत्ना निश्वसितुमपि , - न्द्रापीडस्य मदवस्थां मदीयदशामश्रद्दधानस्यास्थामकुर्वाणस्य हिमगृहके मद्धतविमशय दुर्विदग्धबुद्धेरचतु- रमतेर्वक्रभाषितं वक्रोक्तिजल्पितं विमर्शय विचारय यत्र सस्मितं सहास्यं यथा स्यात्तथालोकितया निरीक्षि- तया त्वयैवास्मै चन्द्रापीडाय सुतरामेवात्यन्त मेवा संशयकारि अनारेकाकृत्प्रत्युत्तरं प्रतिवचो दत्तम् । तदसौ मरणेऽपि मे ममेमामवस्थां न श्रद्दधात्येव न चेतस्यवबुध्यते । अन्यथोक्तविपर्यये । यदि मदर्थे चन्द्रापीडनि- मित्तमेवेयं कादम्बरी दुःखमनुभवत्यनुभवविषयीकरोतीत्येतदस्य चन्द्रापीडस्याभविष्यत्तदा तथागमनमेव तादृ- शगमनमेव नाकरिष्यत् । तथागतोऽपि तेन प्रकारेणागतोऽप्यसौ चन्द्रापीडो यत्किमपि त्वयैव भवत्यैव वक्तव्यो मया पुनर्दृष्टोऽपि निरीक्षितोऽपि नालपितव्यो न संभावितव्यः । नोपालब्धव्यो नोपालम्भो दातव्यः । चरण- पतितस्यापि पादप्रणतस्याप्यनुनयः प्रणामो न ग्राह्यो न ग्रहीतव्यः । नाहं प्रियसख्या वल्लभवयस्या प्रसाद- नीया प्रसन्नीकार्या | इत्यभिधानैवेतिब्रुवाणैवाचेतितागमनखेदाज्ञातागमनसादा कादम्बरी चन्द्रापीडस्थ दर्श नाय वीक्षणायोत्ताम्यन्त्युत्प्रावल्येन खेदं कुर्वन्ती तत्रैव सहाश्वेताश्रम आजगाम । आगम्य चागमनं कृत्वैव चोन्मुक्तजीवितं त्यक्तप्राणितं चन्द्रापीडमद्राक्षीद्वयलोकयत् । कः कमिवेत्यपेक्षाया- माह - उद्धृतेति । उद्धृतं गृहीतममृतं पीयूषं यस्मादेवंभूतं रत्नाकरमिव समुद्रमिव । इन्दुना चन्द्रेण विरहितं वियुक्तं निशाप्रबन्धमिव रात्रिसंबन्धमिव । अस्तमितोऽस्तंप्राप्तस्ताराणां नक्षत्राणां गणो यस्मिन्नेतादृशं गगनमिव व्योमेव अपचिता दूरीकृता कुसुमशोभा पुष्पलक्ष्मीर्यस्मादेवंभूतमुपवन मिवाराम मिव । उत्खाता त्रोटिता कर्णिका बीजको- शो यस्मादेतादृशं कमलमिव पद्ममिव । उत्खण्डिता उच्छेदिता अङ्कुरा अङ्कुरा यस्यैवंविधं मृणालं कमलमिव । अव- लुप्तो दूरीकृतस्तरलो मध्यमणिर्यस्मादेतादृशं हारमिव मुक्ताकलाप मिव । 'तरलश्चञ्चले खङ्गे हारमध्यमणावपि' इति
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति