कादम्बरी | स्नानपानभोजनेनापि मुक्तात्मना राजपुत्रलोकेन स्वपरिजनेन च सह निराहारा तमशेप दिवसमक्षिपत् । यथैव च जीवसमशेषं तथैव तां गम्भीरमेघो परोधभी मामनवरतगर्जितध्वानकम्पित- हृदयबन्धामाबद्धकलकैलापिकुलकेकाकोलाहलाकुलित चेतोवृत्तिमुद्दामदर्दुरारटितबधिरितश्रो- लेन्द्रियां दुर्दर्शतडित्संपात पीडित दिशमैति निदापादितभुवनज्वरां ज्वलत्खद्योतनिकरज- र्जरिततरुगैहनतलतमः प्रसरभीषणतमां तमस्विनीमपि दूरीकृत्याबलासहभुवं भीतिमपरित्य- `क्तचन्द्रापीडचरणकमलाचेतितस्वशरीरखेदा जाग्रती समुपविष्ठैव क्षणमिव क्षपां क्षपितवती । प्रातश्च तदुन्मीलितं चित्रमिव चन्द्रापीडशरीरमवलोक्य शनैः शनैः पाणिना स्पृशन्ती पार्श्वस्थितां मदलेखामेवादीत् – 'प्रियसखि मदलेखे, न वेधि किं रुचेर्वशादुत निर्विकार- तयैवेति । अहं तु तादृशीमेवेमां तनुमवलोकयामि । तत्त्वमपि तावदादरतो निरूपय' इति । एवमुक्ता मदलेखा तां प्रत्यवादीत् – 'प्रियसखि, किमल निरूपणीयम् | अन्तरात्मनो विर- हाँठ्यापारमात्रकमस्यामुपरतम् । अन्यत्तादृशमेवेदं व्याकोशशतपत्राकारं मनागप्यनुन्मुक्तं ५४८ भोजनान्याप्लवपानभक्षणानि येन स तथा तेन मुक्त आत्मा येन स तथा तेनैवंविधेन राजपुत्रलोकेन स्वपरि- जनेन च कादम्बरीपरिच्छदेन च सह निराहारा निर्गतभोजना तमशेषं समग्र दिवसं दिन मक्षिपन्निर्गमयामास | यथैव च येन प्रकारेण दिवसमशेपं क्षपितवती तथैव तेन प्रकारेण समुपवित्रैवासेदुष्येव क्षणमिव क्षपां त्रियामां क्षपितवतीति दूरेणान्वयः । 'शर्वरी क्षणदा क्षपा' इति हैमः । अथ तां विशेषयन्नाह - गम्भीरो यो मेघस्तेनोपरोधः प्रतिबन्धस्तेन भी मां भीषणाम् । अनवरतं निरन्तरं यो गर्जितध्वानः स्तनितशब्दस्तेन कम्पितो हृदयबन्धो भुजान्तरवन्धो यथा साताम् | आवद्धं मिलितं यत्कलं मनोज्ञं कलापिकुलं मयूरान्ववायस्तस्य केका वाण्यस्तासां कोलाहलेन कलकलेनाकुलिता व्याकुलीकृता चेतोवृत्तिर्यया सा ताम् | उद्दामं भीषणं यद्दर्दुराणां भेकानामारदितं पूत्कृतं तेन बधिरितं बधिरीकृतं श्रोत्रेन्द्रियं यया सा ताम् । दुर्दशो॑ दुर्निरीक्ष्यो यस्तडित्संपा तोवि- द्युत्पातस्तेन पीडिता दिशः ककुभो यया सा ताम् । अतिनिदेना तिगर्जितेनापादितो विहितो भुवनस्य ज्वरस्तापो यथा सा ताम् । ज्वलद्दीप्यमानो यः खद्योतानां ज्योतिरिङ्गणानां निकरः समूहस्तेन जर्जरितं शिथिलीभूतं यत्तरुगहनानां तलेऽधोभागे तमोऽन्धकारं तस्य प्रसरो विस्तारस्तेन भीषणतमामतिभैरवामेतादृशीं तमस्विनी तमोयुक्तामप्यबलया सहभुवं सहोत्पन्नां भीतिं भयं दूरीकृत्य निराकृत्य । कीदृशी कादम्बरी । अपरित्यक्तमनु- ज्झितं चन्द्रापीडन्चरणकमलं यया सा | आचेतितोऽविचारितः स्वशरीरखेदो यया सा। जाग्रती जागरा क्षणमिव क्षपां क्षपितवती । अन्वयस्तु प्रागेवोक्तः । प्रातश्चेति । प्रत्यूषे तदुन्मीलितं विकसितं चित्रमिव चित्रकारा लेखितमिव चन्द्रापीडशरीरमवलोक्य निरीक्ष्य शनैः शनैर्मन्दं मन्दं पाणिना हस्तेन स्पृशन्ती स्पर्श कुर्वन्ती पार्श्वस्थितां मदलेखामवादीदम्यधात् । किमुवाचेत्याह - हे प्रियसखि मदलेखे, अहं न वेद्मि न जाने । किं सर्वशभिः उत निक रतया नियि त । अहं त ताशमेव पर्व लकि वेम
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति