५५६ कादम्बरी । स्माकं मध्यादेकेनापि देवपादान्विना न प्रतीपं गन्तव्यमिति । भृत्या अपित एव ये संपत्तेर्विपत्तौ सविशेषं सेवन्ते । समुन्नम्यमानाः सुतरामवनमन्ति । आलाप्यमाना न समालापा: संजाय- न्ते । स्तूयमाना नोत्सिच्यन्ते क्षिप्यमाणा नापरागं गृह्णन्ति | उच्यमाना न प्रतीतं भाषन्ते । पुष्टा हितैप्रियं विज्ञपयन्ति । अनादिष्टाः कुर्वन्ति | कृत्वा न जल्पन्ति । पराक्रम्य न विक- त्थन्ते । विकथ्यमाना अपि लज्जामुद्रहन्ति । महाहवेष्वमतो ध्वजभूता इव लक्ष्यन्ते । दान- काले पलाय्य पृष्ठतो निलीयन्ते । चैनात्स्नेहं बहु मन्यन्ते । जीवितात्पुरो मरणमभिवाञ्छ- न्ति | गृहादपि स्वामिपादमूले सुखं तिष्ठन्ति । येषां च तृष्णा चरणपरिचर्यायाम्, असंतोषो हृदयराधने, व्यसनमाननावलोकने, वाचालता गुणग्रहणे, कार्पण्यमपरित्यागे भर्तुः । ये च विद्यमानेऽपि स्वात्मन्यस्वाधीनसकलेन्द्रियवृत्तयः पश्यन्तोऽप्यन्धा इव, शृ॒ण्वन्तोऽपि बधिरा इव,वाग्मिनोऽपि मूका इव,जानन्तोऽपि जडा इत्र, अनुपहतकरचरणा अपि पेङ्गव इव क्लीवा इवाकिंचित्कराः, स्वात्मनः स्वामिचिन्तादर्शे प्रतिबिम्ञवद्वर्तन्ते । तत्सर्वमेवंस्थितो भृत्यलोकः । । देकेनापि देवपादांश्चन्द्रापीडचरणान्विना न प्रतीपं विलोमं गन्तव्यं न व्याधुट्य यानमिति । भृत्या अपि अनुचरा अपि त एव ये संपत्तेः संपत्तितः विपत्तो विपदि सविशेषं पूर्वतोऽधिकं सेवन्ते सपर्या कुर्वन्ति । समुन्नम्यमानाः समुन्नतिं प्राप्यमाणाः सुतरामत्यर्थमवनमन्ति नत्रीभवन्ति । आलाप्यमानाः संभाष्यमाणाः सम आलापो येषां ते समालापाः सदृशभाषिणो न संजायन्ते न भवन्ति । स्तूयमाना नूयमाना नोत्सि च्यन्ते नोत्सेकं गच्छन्ति | क्षिप्यमाणास्तिरस्क्रियमाणा नापरागं विरक्ततां गृहन्त्याददते । उच्यमानाः । विरूपमिति शेषः । भाष्यभाणा न प्रतीपं प्रतिकूलं भाषन्ते ब्रुवन्ते । पृष्टा अनुयोजिता हितं च तत्प्रियं च हितप्रियं विज्ञपयन्ति निवेदयन्ति । अनादिष्टा अकथिताः कुर्वन्ति । कार्याणीति शेषः । कृत्वा न जल्पन्ति न कथयन्ति । पराक्रम्य पराक्रमं कृत्वा न विकत्थन्तेन श्लाघन्ते । विकथ्यमाना अपि श्लाघ्यमाना अपिलजां त्रपामुद्वहन्ति धारयन्ति । महाहवेषु महारणेष्वग्रतो ध्वजाभूता इव केतुभूता इव लक्ष्यन्ते विलो- क्यन्ते । ‘अभ्यामर्दः समाघातः सङ्ग्रामाभ्यागमाहवाः' इत्यमरः । दानकाले पलाय्य पलायनं कृत्वा पृष्ठतो निलीयन्ते निलीना भवन्ति । धनाद्रव्यात्नेहं प्रेम बहु मन्यन्तेऽधिकं गणयन्ति । जीवितात्प्राणितात्पुरोऽग्रे | स्वामिन इति शेषः । मरणं मृत्युमभिवाञ्छन्त्यभिलषन्ति | गृहादपि सौधादपि स्वामिपादमूले स्वकीयाधीश- चरणोपान्ते सुखं यथा स्यात्तथा तिष्ठन्ति । येषां च सेवकानां चरणपरिचर्यायां पादसेवायां तृष्णा स्पृहा | हृदया- राधने चित्तप्रसाद नेऽसंतोषः । आननावलोकने मुखनिरीक्षणे व्यसनमासक्तिः । वाचालता मुखरता गुणग्रहणे परगुणानां शौर्य दीनामादाने । भर्तुः स्वामिनोऽपरित्यागेऽमोचने कार्पण्यं कृपणत्वम् | येच सेवका विद्यमानेऽपि खात्मनि जीवति सत्यप्यस्वाधीनसकलेन्द्रियवृत्तयोऽस्वाधीना अनायत्ताः सकलेन्द्रियाणां वृत्तयो येषां ते तथा पश्यतोऽपि विलोकयन्तोऽप्यन्धा इव गताक्षा इव । परच्छिद्रान्वेषणेऽन्धत्वमिति भावः । शृण्वन्तोऽप्या- कर्णयन्तोऽपि वधिरा इव । परापवादश्रवण इत्यर्थः । वाग्मिनोऽपि वचस्विनोऽपि मूका इवावाच इव | परदूषणवक्तव्यत मिति भवः 'वारमी वाचस्पतौ पटौ' इति विश्व । जानaatsaaaais
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति