उत्तरभागः । ५५७ देवस्य च स्थाने देवी वर्तते । तदाज्ञापितं कृतमवधारयतु देवी' इत्युक्त्वा मेघनादस्वरित- कनामानं कुमारबालसेवकमाहूय तैः सह व्यसर्जयत् । अथ सुबहुदिवसापगमे वॉर्ती विनोत्तौम्यन्ती चन्द्रापीड स्यैवागमनायोपयाचितं कर्तुमैव- न्तीनामनगरीदेवतानामवन्तीमातॄणामायतनं निर्गता विलासवती 'देवि, दिघ्या वर्धसे । प्रसन्नास्तेऽवन्तिमातरः । परागता युवराजवार्ताहरा : ' इति सहसैव संभ्रंमप्रधावितात्परिज- नादुपश्रुत्यानन्दबाष्पजललुलितया जलार्द्रेम्दीवरस्रजेव विक्षेपदीर्घया मार्चयन्तीव चिरं दृष्ट्वा ककुभो मृगाङ्गनेव परिभ्रष्टबालपोता पूरकृत्य प्राकृतेवार्ता 'केनेदममृतं मे वाक्छलादृष्टम्, कस्यानुकम्पास्मिञ्जने जाता, केन दृष्टाः कियहूरे 'वर्तन्ते, किं वा तैः कथितं कुशलं मे वत्स- स्य' इति पृच्छन्त्येवाद्राक्षीदितस्ततो यथादर्शन संबन्धशः प्रधावितेन नरपतिप्रतिबद्धेनाप्रति - बद्धेन चोज्जयिनी निवासिना जनेनौगतः, युवराजः कियहूरे भवद्भिः परित्यक्तः, दिवसेष्वेतेषु क वर्तते, ऋ वा भवद्भिर्यात्वा दृष्टः, व वातिकष्टस्तेनातिवाहितो वाहुनमात्रसाधनेन धारा- ४ , चन्द्रापीडस्य च स्थाने देवी वर्तते । तत्तस्मादाज्ञापितमादिष्टं कृतं निष्पादितं देवीकादम्बर्यवधारयतु जानातु । इत्युक्त्वेत्यभिधाय मेघनादस्त्वरितक नामानं कुमारबालसेवकं चन्द्रापीडभृत्यमाहूयाह्वानं कृत्वा तैर्लेखहारकैः सह व्यसर्जयत्प्राहिणोत् । । अथेति । तत्प्रेषणानन्तरं सुबहूनामनेकेषां दिवसानामपगमे सति वार्ता प्रवृत्तिं विनोत्ताम्यन्ती खेदं कुर्वन्ती चन्द्रापीडस्यैवागमनायोपयाचितं वाञ्छितं कर्तुं विधातुमवन्तीनामनगरीदेवतानां विशालापुरीदेवानामवन्ती- मातॄणां ब्राहयाद्या मातरः सप्त तासां चायतनं गृहं निर्गता निर्याता | इतश्च हे देवि, त्वं दिष्ट्या भाग्येन वर्धसे वृद्धिं प्राप्नोषि । प्रसन्नास्ते तवावन्तिमातरः । युवराजवार्ताहराचन्द्रापीड किंवदन्तीकथकाः | संदेश - हरा इत्यर्थः । परागता समायाता इति सहसैवैकपद एव संभ्रमेणादरेण प्रधावितात्परिजनात्सेवकजना दुप श्रुत्याकर्ण्यानन्दवाष्पजलं हर्षापानीयं तस्मिलितया लुठितया जलक्लिन्नया । नीलसाधर्म्यादुत्प्रेक्षते- जलाईेन्दीवरस्रजेव जलनुन्ननीलपद्ममालयेवार्चयन्ती पूजयन्तीव विक्षेपेण दीर्घया दृष्ट्या दृशा चिरं चिर- कालं ककुभो दिशो दृष्ट्वावलोक्य परिभ्रष्टो गतो बालो मूर्खः पोतः शिशुर्यस्याः सा तथा । 'बालोऽर्भके च मूर्ख स्यात्' इत्यमरः । एवंविधा मृगाङ्गनेव हरिणीव पूत्कृत्योच्चै रटिला प्राकृतेव पामरेवार्ता पीडिता केन वार्ताकेन वाक्छलाद्वचनोपधेरिदममृतं पीयूषं वृष्टम् । तेन वचनच्छलादमृतमेव वृष्टमिति भावः । अ- स्मिञ्जने कस्य पुंसोऽनुकम्पा दया जाता समुत्पन्ना । केन पुंसा दृष्टा अवलोकिताः । क्व वा दृष्टाः कुत्र दृष्टाः । कियद्दूरे दविष्ठे वर्तन्ते । किं वा तैः कथितं प्रोक्तं मे मम वत्सस्य पुत्रस्य कुशलं कल्याणमितीतस्ततः पृच्छ. न्त्येव प्रश्नं कुर्वन्त्येव तांल्लेखहारकान्दूरत एवाद्राक्षीद्विलोकितवती । लरितकसमेतांस्तांल्लेखहारकानालोक्य निरीक्ष्य तस्मिन्नेव मातृगृहाङ्गणे स्थिता विलासवती तेषामाहानायाहूतायादिदेशाज्ञापितवती । कथंभूतां ल्लेखहारकाम् । इत्येतानि चान्यानि च प्रतिपदं चरणन्यासं पृच्छयमानानपि प्रश्नविषयी क्रियमाणानप्यदत्तव- TATTO TETA THE T
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५५४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति